| YouTube Channel

ननन्द (nananda)

 
वाचस्पत्यम्
Sanskrit
ननन्द स्त्री नन्दति कृतायामपि सेवायां तुष्यतिनन्द--ऋन् “सह सुपा” पा० स० भर्त्तृभगिन्याम् (ननद)“पिता माता ननन्दा ना सव्येष्ठृभ्रातृयातरः ।जामाता दुहिता देवा तृणन्ताइमे दश” इत्युक्तेःअस्य सर्वनामस्थाने परे तृणन्ततुल्यत्वाभावात् वृद्धिःकिन्तु गुणः तेन ननन्दरौ ननन्दर इत्यादि पृषो०दीर्घे ननान्दाप्यत्रार्थे “सम्राज्ञी श्वशुरे भव सम्राज्ञी श्वश्वांभव ननान्दरि सम्राज्ञी भव सम्राज्ञी अधिदेवेषु”ऋ० १० ८५ ४६