| YouTube Channel

नद्युत्सृष्ट (nadyutsRSTa)

 
शब्दकल्पद्रुमः
Sanskrit
नद्युत्सृष्टः, त्रि, (नद्या उत्सृष्टः ।) नदीकर्त्तृक-त्यक्तवस्तु तद्रूपभूखण्डस्य चर इति चडाइति भाषा
नद्युत्सृष्टा भूमिस्तु यस्याघि-कारे जाता तस्यैव भवति यथा, --“नद्युत्सृष्टा राजदत्ता यस्य तस्यैव सा मही ।अन्यथा भवेल्लाभो नराणां राजदैविकः
क्षयोदयौ जीवनञ्च दैवराजवशान्नृणाम् ।तस्मात् सर्व्वेषु कार्य्येषु तत्कृतं विचालयेत्
”इति विवादचिन्तामणिविवादरत्नाकरवीर-मित्रोदयप्रभृतिग्रन्थधृतवचनम्
वाचस्पत्यम्
Sanskrit
नद्युत्सृष्ट
त्रि०
नद्या उत्सृष्टं स्थानम् (चडा) इतिख्याते नदीजलत्यक्तभूभागे तत्र स्वामित्वं निरूपितंविवादचिन्तामणिरत्नकरादौ यथा“नद्युत्सृष्टा राजदत्ता यस्य तस्यैव सा मही अन्यथान भवेल्लाभो नराणां राजदविकः क्षयोदयौ जीवनञ्चदैवराजवशान्नृणाम् तस्मात् सर्वेषु कार्येषु तत्कृतंन विचालयेत्” तेन यस्य भूमिसन्निकृष्टं तस्यैव तत्रस्वामित्वं नान्यस्येति बोध्यम्