| YouTube Channel

नद्यावर्त्तक (nadyAvarttaka)

 
वाचस्पत्यम्
Sanskrit
नद्या(न्द्या)वर्त्तक
पु०
ज्योतिषोक्ते यात्रायोगभेदे“स्वराशिगे बुधे लग्ने सिते वा सुरवन्दिते नद्या (न्द्या)वर्त्तकयोगोऽयं यातुरिष्टार्थसिद्धिदः” अन्योऽपि “भूसुतेस्वोच्चगे लाभे मृगकुम्भगते यमे नद्या(न्द्या)बर्त्तक-योगोऽयं रणे रिपुतृणानलः” ज्योतिषम्