| YouTube Channel

नतः (nataH)

 
शब्दकल्पद्रुमः
Sanskrit
नतः,
पुं,
(नमति स्मेति नम + क्तः ।) जन्म-नाडिकाविशेषः तद्यथा, --“असकृत्कर्म्मणा येन यान्ति दृक्तुल्यतां दिवि ।नतोन्नतौ ततः साध्यौ भावाः खेटबलानि षट्
दिनार्द्धान्तरिता जन्मनाडिका नतनाडिका ।पूर्व्वापरार्द्धे जातस्य प्राक्पराख्या दिने भवेत्
रात्रेर्गतघटीशेषघटीदिनार्द्धसंयुता ।परपूर्व्वाभिधा ज्ञेया रजन्यां नतनाडिका
”इति कोंष्ठीप्रदीपः
नतः, त्रि, (नम + क्तः ।) कुटिलः नम्रः ।इति मेदिनी ते, २९
(यथा, हरिवंशे ।२०१ ३९ ।“पतन्ति युगपत् सर्व्वे पादयोर्मूर्द्धभिर्नताः
”)