| YouTube Channel

नञ् (naJ)

 
Yates
English
नञ्
adv. A particle of negation.
Spoken Sanskrit
English
नञ् - naJ - adverb - negation
नञ् - naJ - adverb - negation
अभाव - abhAva -
m.
- negation
प्रतिषेध - pratiSedha -
m.
- negation [ Gramm. ]
निषेध - niSedha -
m.
- negation
विप्रतिषेध - vipratiSedha -
m.
- negation
व्यपोह - vyapoha -
m.
- negation
व्यतिरेक - vyatireka -
m.
- negation
नकार - nakAra -
m.
- negation na
अप्रतिषेध - apratiSedha -
m.
- non-negation
अन्योन्याभाव - anyonyAbhAva -
m.
- mutual negation
- Na -
m.
- sound of negation
वि - vi - adverb - negation or privation
कद् - kad - adverb - kac-cana with the negation na
प्रतिषेधार्थीय - pratiSedhArthIya -
adj.
- having the meaning of a negation
विषयनिह्नुति - viSayanihnuti -
f.
- negation with regard to an object
व्यतिरेक्युदाहरण - vyatirekyudAharaNa -
n.
- illustration by contrast or negation
व्यतिरेकव्याप्ति - vyatirekavyApti -
f.
- comprehensive argument derived from negation or non-existence of certain qualities
नञ् naJ adverb negation
Wilson
English
नञ् ind. A particle of negation, prohibition, &c. (no, not:) see
and न.
Apte
English
नञ् [nañ],
ind.
The technical term for the negative particle
hence नञः (= A negative particle)
द्वौ नञौ प्रकृतार्थं गमयतः.
Apte 1890
English
नञ् ind. The technical term for the negative particle न.
Monier Williams Cologne
English
नञ्
ind.
N.
of the negat. particle न, negation,
Pāṇ.
ii, 1, 60
Vām.
v, 2, 13
&c.
Monier Williams 1872
English
नञ् नञ्, ind. (in grammar) the technical
term for the negative particle न, q. v., negation.
—नञ्-अर्थ-निर्णय, अस्, m. ‘inquiry into the
meaning of the negative particle, N. of a chapter of
the grammatical work Vaiyākarṇa-bhūṣaṇa-sāra by
Koṇḍa-bhaṭṭa.
—नञ्-वाद-टिप्पणी, f. ‘commentary
to the chapter of negation, N. of a grammatical work
by Raghu-deva.
Macdonell
English
नञ् nañ, the negative na: -artha,
m.
the 🞄meaning of na.
Apte Hindi
Hindi
नञ्
अव्य* - -
निषेधात्मक अव्यय ’न’ के लिए पारिभाषिक शब्द
Shabdartha Kaustubha
Kannada
नञ्
पदविभागः - > अव्ययम्
कन्नडार्थः - > ಅಭಾವ
प्रयोगाः - > "अपापम्" "भूतले घटो नास्ति"
नञ्
पदविभागः - > अव्ययम्
कन्नडार्थः - > ನಿಷೇಧ
प्रयोगाः - > कुर्वीत वृथा चेष्टां वार्यञ्जलिना पिबेत् नोत्सङ्गे भक्षयेद्भक्ष्यान् जातु स्यात् कुतूहली"
उल्लेखाः - > मनु० ४-६३
नञ्
पदविभागः - > अव्ययम्
कन्नडार्थः - > ಸ್ವರೂಪ
नञ्
पदविभागः - > अव्ययम्
कन्नडार्थः - > ಅತಿಕ್ರಮ
नञ्
पदविभागः - > अव्ययम्
कन्नडार्थः - > ಈಷತ್ /ಸ್ವಲ್ಪ
प्रयोगाः - > "अनुदरा कन्या"
नञ्
पदविभागः - > अव्ययम्
कन्नडार्थः - > ಸಾದೃಶ್ಯ
प्रयोगाः - > "अब्राह्मणः'
नञ्
पदविभागः - > अव्ययम्
कन्नडार्थः - > ವಿರುದ್ಧ
प्रयोगाः - > "अधर्मेण यः प्राह यश्चाधर्मेण पृच्छति"
नञ्
पदविभागः - > अव्ययम्
कन्नडार्थः - > ಅನ್ಯತ್ವ /ಭೇದ
प्रयोगाः - > "अनश्वः"
विस्तारः - > "नञभावे निषेधे स्वरूपार्थेऽप्यतिक्रमे ईषदर्थे सादृश्ये तद्विरुद्धतदन्ययोः' - मेदि० "तत्सादृश्यमभावं तदन्यत्वं तदल्पता अप्राशस्त्यं विरोधश्च नञर्थाः षट् प्रकीर्तिताः ॥"
L R Vaidya
English
naY {% ind. %} The technical term for the negative particle (in gram.).
Abhyankara Grammar
English
नञ् the negative particle ( नञ् ) which possesses the six senses which are sketched as सादृश्यं तदभावश्च तदन्यत्वं तदल्पता अप्राशस्त्यं विरोधश्च नञर्थाः षट् प्रकीर्तिताः and which are res- pectively illustrated by the examples अनिक्षुः शरः, भूतले घटो नास्ति, अघट: पट:, अनुदरमुदरं तरुण्याः, अब्राह्मणो वार्धुषिकः and असुर: दैत्य: See (6).
शब्दकल्पद्रुमः
Sanskrit
नञ्,
व्य,
अभावसंज्ञकम् समासे स्थितस्यास्यस्थाने स्वरे परेऽन् व्यञ्जने परे अकारो विकल्पेनभवति यथा अनन्तः नान्तः अच्युतःनच्युतः अस्यार्थाः षट् सादृश्यम् यथाअब्राह्मणः
अभावः यथा अपापम्
अन्यत्वम् यथा अघटः पटः
अल्पत्वम् ४यथा अनुदरी कन्या
अप्राशस्त्यम् यथाअकेशी
विरोधः यथा असुरः इति मुग्ध-बोधटीकायां दुर्गादासः
यथा, मेदिनी ।“नञभावे निषेधे स्वरूपार्थेऽप्यतिक्रमे ।ईषदर्थे सादृश्ये तद्विरुद्धतदन्ययोः
”नकारश्च
वाचस्पत्यम्
Sanskrit
नञ् अंव्य० + वा० अञ् ञित् ञिदनुबन्धो नञो नलोपनुडर्थःअञितस्तु ननलोपादि नान्तरीयकनैकधेत्यादि” सि० कौ०“नञभावे निषेथेन स्वरूपार्थे ऽप्यतिक्रमे ईषदर्थे ४च सादृश्ये तद्विरुद्धतदन्ययोः” इति मेदिनीनिषेधेन काक्वा निषेधेन स्वरूपार्थे प्रकृतार्थे इत्येकम्तेनाभावेन पौनरुक्त्यम् “मथ्नामि कौरवशतं समरेन कोपात्” वेणी० “द्वौ नञौ प्रकृतमर्थं गमयतः”यथा “नाविष्णुः कीर्त्तयेद्विष्णुं नाविष्णुर्विष्णुमर्चयेत् ।नाविष्णुः संस्मरेद्विष्णुं नाविष्णुर्विष्णुमाप्नुयात्” इतिमहाभारतम् असन्देहार्थं “नञ्” पा० “तत्पुरुषो-नञ्कर्मधारयः” पा० निर्देशाद्वा पदत्वेऽपि कुत्वम् ।“तिङि क्षेपे” पा० पचसि जाल्म इत्यादौ असमासेऽपिनञो नलोपः ।मसस्तादिनञर्थनिर्णयादिकं वैयाकरणभूषणसारे यथा“नञ्समासे चापरस्य प्राधान्यात्सर्वनामता आरोपितत्वंनञ्द्योत्यं नद्व्यसोऽप्यतिसर्ववत्” नञ्समासे अपरस्यउत्तरपदार्थस्य प्रधान्यात्सर्वनामता सिध्यतीति शेषः अतएव आरीपितत्वमेव नञ्द्योत्यमित्यभ्युपेयमिति शेषः ।असर्वैत्यादावारोपितः सर्वैत्यर्थे सर्वशब्दस्य प्रधान्या-ऽबाधात्सर्वनामता सिद्ध्यति अन्यथा अतिसर्वैत्यत्रेवसा स्यात् घटोनास्तीत्यादावभावविषयकबोधे तस्यविशेष्यतायाएव दर्शनात् अस्मद्रीत्या आर्थोबोधोमानसः तथा चान्यथाऽसर्वस्मै इत्याद्यसिद्धिप्रसङ्गैति ।अत्रचारोपितत्वमारोपविषयत्वम् आरोपमात्रं वार्थो विष-यत्वं संसर्गैति निष्कर्षः द्योत्यत्वोक्तिर्निपातानां द्योतक-त्वमभिप्रेत्य घटोनास्ति अब्राह्मण इत्यादावारोपबोधस्यसर्वानुभवविरुद्ध्वत्वात्पक्षान्तरमाह “अभावो वा तदर्थोऽस्तुभाष्यस्य हि तदाशयात् विशेषणं विशेष्योबा न्यायतस्त्वव-धार्य्यताम्” तदर्थोनञर्थः अर्थपदं द्योत्यवाच्यत्वपक्षयोःसाधारण्येन कीर्त्तनाय भाष्यस्येति तथाच नञ्सूत्रेमहाभाष्यम् “निवृत्तपदार्थकः” इति निवृत्तं पदार्थोयस्य “नपुंसके भावे क्तः” पा० इति क्त अभावार्थकैत्यर्थः ।यत्तु निवृत्तः पदार्थोयस्मिन्नित्यर्थः सादृश्यादिनाध्यारो-पितब्राह्मण्याः क्षत्रियादयोऽर्था यस्येत्यर्थःइति कैयटःतन्न आरोपितब्राह्मण्यस्य क्षत्रियादेरनञ्वाच्यत्वात् ।अन्यथा सादृश्यादेरपि वाच्यतापत्तेः यत्तूक्तं “तत्सादृ-श्यममाभावश्च तदन्यत्वं तदल्पता अप्राशस्त्यं विरोधश्चनञर्थाः षट् प्रकीर्त्तिताः” इति पठित्वा अब्राह्मणःअपापम् अनश्वः अनुदरा कन्या अपशवोवा अन्येगोऽ-श्वेभ्यः अधर्म्म इत्युदाहरन्ति तत्त्वार्थिकार्थमभिप्रेत्येतिस्पष्टमन्यत्र विशेषणमिति प्रतियोगिनीति शेषः तथाच सर्वपदे सर्वनामसंज्ञा “अनेकमन्यदार्थे” पा० “सेव्यतेऽ-नेकया सन्नतापाडया” इत्यादावेकशब्दार्थप्राधान्यादेकवचन-नियमः अव्राह्मण इत्यादावुत्तरपदार्थप्राधान्यात्तत्पु-रुषत्वम्, अत्वं भवसि अनहं भवामीत्यादौ पुरुषवचनादिव्यवस्था चोपपद्यते अन्यथा त्वदभावोमदभावैतिवद-भावांशे युष्मदस्मदोरन्वयेन युष्मत्सामानाविकरण्यस्य ति-ङ्क्ष्वसत्त्वात्पुरुषव्यवस्था स्यात् अस्मन्मते भेदप्रति-योगित्वदभिन्नाश्रयिका भवनक्रियेत्यन्वयात्सामानाधिक-रण्यं नानुपपन्नमिति भावः विशेष्योवेति प्रतियोगिनइति शेषः अयं भावः गौणत्वेऽपि नञ्समासे“एतत्तदोः सुलोपोऽकोरनञ्समासे हलीति” पा० ज्ञापका-त्सर्वतामसंज्ञा नानुपपन्ना असः शिव इत्यत्र सुलोपवा-रणायानञ्समास इति हि विशेषणम् नच तत्र तच्छ-ब्दस्य सर्वनासतास्ति गौणत्वात् अकीरित्यकज्व्यावृत्त्यासर्वनाम्नोरेव तत्र ग्रहणलाभात्तथाचानञ्समास इतिज्ञापकं सुवचम् “अनेकमन्यपदार्थे” पा० इत्यादावेकवचनंविशेष्यानुरोधात् “सुबामन्त्रिते पराङ्गवत् स्वरे” पा०इत्यतोऽनुवर्त्तमानसुव्ग्रहणात् विशेष्यमेकवचनान्तमेव ।किञ्चानेकशब्दात् द्विषचनोपादाने बहूनां, बहुवचनो-पादाने द्वयोः बहुव्रीहिर्न सिध्येदित्युभयसंग्रहायैकवचनंजात्यभिप्रायमौत्सर्गिकं वा सेव्यतेऽनेकयेत्यत्रापि योषयेतिविशेष्यानुरोधात्प्रत्येकं सेवनान्वयबोधनाय चैकवचनं नतूत्तरपदार्थप्राधान्यप्रयुक्तम् अतएव “पतन्त्यनेके जल-धेरिवीर्मय” इत्यादिकमपि सूपपादम् अत्वं भवसीत्यादौयुष्मदस्मद्भिन्ने लक्षणा नञ् द्योतकः तथा भिन्नेनयुष्मदर्थेन तिङः सामानाधिकरण्यात्पुरुषव्यवस्था ।त्वद्भिन्नाभिन्नश्रयिका भवनक्रियेति शार्ब्दबोधः एवं नत्वं पचसि इत्यत्र त्वदभिन्नाश्रयकपाकानुकूलभावनाभावःघटोनास्तीत्यत्र घटाभिन्नाश्रयकास्तित्वाभाव इति रीत्याबोधः असमस्तनञः क्रियायामेवान्वयात् सचाभावो-ऽत्यन्ताभावत्वान्योग्याभाबत्वरूपेण शक्यः तत्तद्रूपेणबोधादित्याद्यन्यत्र बिस्तरः” ।शब्दचिन्तासणौ तु अभावएव नञी मुख्यार्थ इतिसमर्थितम् यथा“नञ्समासेऽब्राह्मणमानयेत्यत्र पर्य्युदासे पूर्वपदे नञ्यु-त्तरपदार्थसम्बन्धिनि क्षत्रिये लक्षणा अघटः पट इत्यादौप्रसज्यप्रतिषेषार्थे नञि सामानाधिकरण्यादभाबवल्लक्षणाव्यासेऽपि घटः पटैत्यादौ यथा शुक्लपटः इत्यत्रशुक्लवल्लक्षणा पचतीत्यादौ क्रियासम्बन्धे, भूतले नघटैत्यादौ प्रसज्यप्रतिषेधे नञो मुख्यार्थता, सुवन्तसम्ब-न्धेऽपि समासः विभाभाधिकाराद्विकल्पेन समासानु-शासनात् यजतिषु येयजामहं करोति नानुयाजेष्वित्यत्रपर्य्युदासे नञ्, तेनायमर्थः यजतिषु नानुयाजेषु अनु-याजव्यतिरिक्तेषु येजामहे इति मन्त्रं करोति ।अथ नानुयाजेष्वित्यत्र पर्युदासे नञ् तदा हि पदद्वय-स्यान्यपरत्वं स्यात् समासापत्तिश्च तस्मादनुषङ्गात् करोति-ना नञोऽन्वयात् प्रसज्यप्रतिषेधः तेनानुयाजेषु ये यजा-महे इति मन्त्रं करोतीत्यर्थः एवञ्च नानुयाजेष्वितिपदद्वयस्य नान्यपरता वा नञो मुख्यार्थत्यागः स-मासाभावे साधुता चेति चेत् समासस्यानित्यत्वात्मानुयाजेष्विति वाक्ये पर्युदासे नञ् चैवं वाक्य-वृत्तिपदस्थनञोऽन्यपरत्वाभावः गौर्वाहिक इत्यादौ वा-क्येऽपि गवादिपदस्यान्यपरत्वात् यदि प्रसज्यप्रतिषेधेनञ् तदा मन्त्रविधायकतन्निषेधयोर्विरुद्धार्थत्वेन वाक्य-मेदापत्तिः तस्मात् प्रतीतैकवाक्यत्वबलात् एकवाक्यत्वेसम्भवति वाक्यभेदस्यान्यय्यत्वात् नञ्पदे लक्षणा कल्प्यतेन तु नञ्पदमुख्यर्थानुरोधादेकवाक्यत्वत्यागः हि पदा-र्थाऽनुरोधेन वाक्यार्थकल्पना किन्तु वाक्यार्थाऽनुरोधात्पदार्थकल्पना नपदञ्च केवलं नास्त्येव नञ्पदादेव सर्वत्रसमासानित्यत्वेन प्रयोगोपपत्तेः अन्यथा प्रसज्यप्रति-षेधे नञ् स्यादेव नपदेनैव चरितार्थत्वात् अमानीनाइत्यपदमेव निषेधवाचकं समासवाक्यभेदेन नञो द्वैवि-ध्याद्वा तथाभिधानम्” ।अभावमात्रं नञोर्थः इति नञ्वादे शिरोमणिनोक्तं यथा(१) “संसर्गाभावोऽन्योऽन्याभावश्च नञोऽर्थः ।(२) तत्रचान्वयितावच्छेदकावच्छिन्नप्रतियोगिताकत्वं व्युत्पत्तिबलसिद्धम्(३) नीलघटवति घटो नास्तीति नीलो घटो घट इत्या-द्यव्यवहारात् इह पीतघटवति नीलः घटः, पीतोघटो नीलघट इत्यादि व्यवहाराच्च ।(४) प्रतियोग्यमावान्वयौ तुल्ययोगक्षेमौ तेन यत्पदोप-स्थापितस्य प्रतियोगिनोऽनुयोगिन्याधाराधेयसम्बन्धेनैवान्वथबोधः तत्र तत्ससर्गाभावस्यापि यथा पचतिचैत्रो पत्रति चैत्रः चैत्रस्येदं नेदं चैत्रस्य इत्यादि ।(५) तिङाद्यर्थस्य कृत्यादेः प्रथमान्तपदोपस्थापिते एव तत्रयथैव, तदभावस्यापि तथा ।(६) षष्ठ्यादेव चैत्रादिनिरूपितं खत्वादिकगर्थो तश्चिष्ठंस्वामित्वादि तस्य धनाद्यवृत्तित्वेन चैत्रीयेऽपि धने नेदंचैत्रस्येति प्रसङ्गात् निरूपकत्वादेः सम्बन्धस्य प्रतियो-गितानवच्छेदकत्वादेषा दिक् ।(७) यत्र चाधारधेयभावो सम्बन्धमर्य्यादालभ्यस्तत्रानु-योगिनि सप्तम्यपेक्षा यथा भूतले घटो भूतले घटइत्यादि तत्र तात्पर्य्यवशात् क्वचित् भूतलादौ घटा-भावः क्वचिच्च घटादौ भूतलवृत्तित्वाभावः प्रतीयते ।(८) अतएव पृथिव्यां गन्धो जले इत्यादौ प्रतीतेरेकविशे-ष्यकत्वानुभवः ।(९) केचित्तु सर्वत्र विशेष्ये विशेषणस्याभावो नञा प्रत्याय्यतेअतएव भूतले घटो नास्तीत्यादौ वचनैक्यनियमःइति प्राहुः ।(१०) तैर्न जातौ सत्तेत्यत्र गतिश्चिन्तनीया जातिसमबेतत्वस्या-प्रसिद्धत्वात् सम्बन्धान्तरेण जातिवृत्तित्वस्य सत्तायामपिसत्त्वात् ।(११) सप्तम्यर्थान्विताभावस्य विशेषणतया प्रतियोगिन्यन्वयः इत्यपि कश्चित् ।यत्र विशेषणविशेष्ययोरभेदेनान्वयो व्युत्षन्नस्तत्रान्यो-न्यभावो नञा बोध्यते यथायं घटो नीलो नायं घटोनील इति तत्र विशेषणविशेष्ययोः समानवि-भक्तिकत्वं निरुद्धविभक्तिकत्वविरहो वा तन्त्रम् ।(१२) अतएव यजतिषु ये यजामहं कुर्य्यान्नानुयाजेष्वित्यादौएकवाक्यत्वानुरोधात्(१३) ये यजामहमित्यादेरनुषङ्गगौरवाच्च यजतिष्वनुयाजभेदो बोध्यते ।(१४) विशेषणविभक्तिस्तु प्रयोगसाधुत्वार्था ।(१५) नामार्थयोर्भेदेनान्वयबोघ एव प्रकारीभूतविभक्त्यार्घोप-स्थितेस्तन्त्रत्वात् लाघवेन तयोरन्वयमात्र एव तथात्वम् ।(१६) विशेषणविभक्तिस्त्वभेदार्थिका ।(१७) नीलोत्पलं चित्रगुरित्यादौ लुप्ताया विभक्तेरनुसन्धानमिति मते--(१८) राज्ञ इत्यत्र षष्ठ्यर्थस्य स्वत्वस्येवात्रापि सप्तम्यर्थस्यतयोरभेदस्याभावो बोध्यताम् ।(१९) यत्तु करणनिषेधेविकल्पापत्तेः मेदपरतेति तदसत्(२०) विशेषनिषेधे सामान्यविधेस्तदितरपरतायाः ब्राह्मणेभ्योदधि दातव्यं कौण्डिन्याय दातव्यमित्यादौ व्युत्पत्ति-सिद्धत्वेन विकल्पानवकाशात् ।(२१) तत्रापि कौण्डिन्यभेदो बोध्यः कौण्डिन्यपदस्यविरुद्धैकवचनावरुद्धत्वात् ।(२२) खलु महतो राज्ञो महतो राज्ञ इत्यत्रेव महतांराज्ञी महतां राज्ञ इत्यत्रापि राजनि महद-भेदाभेदौ प्रतीयेते एकोनद्भावित्यादिवत् कथञ्चित् तत्-समर्थनेऽपि द्वितीयस्य दातव्यमित्यस्यानन्वयप्रसङ्गात् ।(२३) अतएव रात्रौ श्राद्धं कुर्वीतेत्यादौ करणनिषेधेऽपि नविकल्पावकाशः ।(२४) हि तत्रापि रात्रीतरपरता, (२५) रात्रिभिन्ने श्राद्धविधावपि अमावस्यायां पितृभ्योदद्या-दित्यादौ रात्रौ श्राद्धप्रसक्तेर्दुर्वारत्वात् ।(२६) खलु क्रियारहितमपि श्राद्धविधायकं वाक्यान्तरमपियेनेदं तेन सममेकवाक्यतामासादयेत् ।(२७) नापीदं नानुयाजेष्वितिवत् पृथक् क्रियारहितम् ।(२८) अथ रात्रौ श्राद्धस्य प्रसक्तौ विकल्पापत्तिः अप्रसक्तौ कथंनिषेधः प्रसक्तं हि प्रतिसिध्यते इति चेत् साधीयानयंमन्त्रपाठः हृदे दहनो नास्तीत्यादौ शाब्दबोधेऽपिपरप्रयत्नेन तत्र दहनप्रसक्तिरुपादीयेत् ।(२९) निषेधविधेर्वैयर्थ्यमिति चेत् तात्पर्य्यानवबोधात् रात्रि-श्राद्धकरणवारणस्य तदर्थत्वात् ।(३०) एकविषयतया पुनरनन्यगत्या षोडशिग्रहणाग्रहणयोर्विकल्पः ।(३१) तत्र षोडशिग्रहणं नेष्टसाधनमित्यादिकं नार्थःग्रहणविधिविरोधात् अपि तु षोडशिग्रहणाभाव इष्ट-साधनमित्यादि ।(३२) व्युत्पन्नश्च नञ् समभिव्याहृतधात्यर्थस्याभावेऽपि विभक्त्यर्थान्वयः ।(३३) अतएव प्राभाकराः कलञ्जं भक्षयेदिति श्रुतेः कलञ्ज-भक्षणाभावविषयकं कार्यमर्थमाहुः ।(३४) नियमस्तु तात्पर्य्यवशात् ।(३५) मुख्यफलाजनकत्वेऽपि चाङ्गस्य परमापूर्वरूपेष्टसाधनत्वमविरुद्धम् ।(३६) ग्रहणविध्यन्यथानुपपत्त्या षोडशिग्रहणादतिशयितंपरमापूर्वं तस्माच्चातिशयितं मुख्यं फलं कल्प्यतेइति सर्वसमञ्जसम् ।(३७) प्रतियोग्यनुयोगिभावः प्रतियोग्यनुयोगिरूपाभावाधिक-रणयो राधाराधेयभावश्च सम्बन्धविधया भासते ।(३८) निपातातिरिक्तस्थल एव प्रातिपदिकार्थयोर्भेदेनान्वयेप्रकारीभूतविभक्त्यर्थोपस्थितेस्तन्त्रत्वात् ।(३९) अतएव इवाद्यर्थान्वये षष्ठ्याद्यपेक्षा(४०) अघटं मूतलम् असमोदेश इत्यादौ समासे सामानाधि-करण्याद्यनुरोधात् नञोऽभाववत्परता ।(४१) केचित्तु प्रतियोगिपदोत्तरस्य सुपः प्रतियोगित्वम्(४२) अनुयोगित्वं वा नञुत्तरस्य चाधिकरत्वं वार्थः(४३) नञो वाऽभाववति लक्षणा ।(४४) विभक्त्यर्थानुयोगिसमानविभक्तिकार्थयोरन्योन्याभावसं-सर्गाभावबोधने नञोऽसामर्थ्यम् ।(४५) तेन पचति राज्ञ इत्यादौ कृत्यादेरन्योऽन्याभावोभूललं घट इत्यादौ घटादेः संसर्गाभावो प्रतीयतेइत्याहुः” ।अस्य गदाधरादिव्याख्यातृसम्मतोऽयमर्थः अभावत्वम्अन्योन्याभावत्वञ्च नञ्पदशक्यतावच्छेदकम् अभावत्वंच ध्वंसादिसाधारणमखण्डोपाधिः एवमन्योन्याभावत्व-मपि तदेतत् गदाधरादिभिः समर्थितं यथा(१) अथ घटो नास्तीत्यादिवाक्याद् घटत्वादिरूपसामान्यधर्माव-च्छिन्नप्रतियोगिताकत्वबोधने तच्छून्ययोर्ध्वंसप्रागभावयोर-न्वयितावच्छेदकावच्छिन्नप्रतियोनिताकत्वविरहेणाप्रत्ययाद्ध्वंसप्रागभावसाधारण्यं नञपदशक्तेर्न सम्भवतीति चेत् नध्वंसप्रागभावयोरत्यन्ताभावविरोधितामते अन्तरा श्यामेरक्तं रूपं नास्तीत्यादिव्यवहारानुरोधेन ध्वंस प्रागभा-वयोरपि समयविशेषावच्छेदेन सामान्यावच्छिन्नप्रति-योनिकत्वोपगमस्याबश्यकत्वात् तयोरपि नञा प्रतिपा-दनात् व्युत्पत्तिविरोधेन तयोस्तेनाप्रतिपादनेऽपि सदातनत्वघटितात्यन्ताभावत्वापेक्षया ध्वंसादिसाधारणाभा-वत्वस्य लाघवेन सदातनभावरूपाभावाभावसाधारण्या-मुरोधेन प्रवृत्तिनिमित्ततया तयोरपि नञ्पदवाच्यत्वानपायात् चात्यन्ताभावत्वमखण्डधर्मान्तरं अनुयोगिताविशेषरूपं वा सदातनत्वघटितमिति गौरवादिक-मिति वाच्यं तादृशधर्मान्तरे मानाभावात् तद्व्यक्तिर्नास्ती-त्यादि वाक्यात्तत्तद्व्यक्तित्वावच्छिन्नप्रतियोगिताकयोर्ध्वंस-प्रागभावयोर्बोधनाच्च ध्वंसप्रागभावसाधारणशक्तेराव-श्यकत्वात् ध्वंसप्रागभावयोरत्यन्ताभावविरोधस्या-प्रामाणिकतया तद्व्यक्तित्वावच्छिन्नध्वंसस्याद्यधिकरणेतादृशात्यन्ताभावसत्त्वात् एव उक्तबाक्यात् प्रतीयतइति वाच्यं ध्वंसाद्यधिकरणे तादृशात्यन्तामावस्याप्राम-णिकत्वात्” गदाधरः ।“एवम् अन्योन्याभावत्वमप्यखण्डोपाधिः तु तादा-त्म्यसम्बन्धावच्छिन्नप्रतियोगिताकाभाववत्वम् तत्तत्सं-योगितादात्म्यस्य संयोगरूपतया संयोगिनोऽत्यन्ताभावे-ऽतिव्याप्तेः सम्बन्धविधया तादात्म्यनिष्ठावच्छेदकता-यानिवेशेऽपि संयोगसम्बन्धावच्छिन्नसंयोगावच्छिन्नप्रति-योगिताकाभावेऽतिव्याप्तेर्दुष्परिहरणादिति वस्तुतस्तुअन्योन्यामावस्य प्रतियोगितावच्छेदकसम्बन्धे मानाभावे-न तादात्म्यस्य तत्प्रतियोगितावच्छेदकसम्बन्धत्वाभावा-त्तादृशलक्षणमसम्भवदुक्तिकमेव चैवमभावमात्रस्यैवप्रतियोगितावच्छेदकसम्बन्धसद्भावे प्रमाणाभाव इतिवाच्यम् अत्यन्ताभावस्य प्रतियोगितावच्छेदकसम्बन्धा-नङ्गरीकारे बाधबुद्धिप्रतिबध्यतावच्छेदकनिर्वचनानुप-पत्तेः तथाहि घटाभावप्रकारकज्ञानस्य प्रतिबध्यताव-च्छेदकं हि घटप्रकारकज्ञानत्वम् घटाभाववत्ता-ज्ञानकाले कदाचित् केन चित् सम्बन्धेन धटप्रकारक-ज्ञानमुत्पद्यते केनचित् सम्बन्धेन तन्नेति नियमा-नुपपत्तेस्तथाच तादृशनियमानुरोधेन तेन सम्बन्धेन तत्-प्रकारकबुद्धिं प्रति तत्सम्बन्धावच्छिन्नतन्निष्ठप्रतियोगि-ताकाभाववत्तानिर्णयस्य प्रतिबन्धकताया अवश्यवक्तव्य-त्वेनात्यन्ताभावप्रतियोगितावच्छेदकसम्बन्धसिद्धिः नचैवमन्योन्याभावस्यापि तत्सिद्धौ युक्तिस्तुल्येति वाच्यम् ।घटत्वप्रकारकबुद्धिं प्रति घटान्योन्याभावत्तानिर्णयस्यैवविरोधित्वकल्पनेन सामञ्जस्ये विनान्योन्याभावप्रतियोगि-तावच्छेदकसम्बन्धं प्रतिबध्यप्रतिबन्धकभावानुपपत्ति-रूपबाधकाभावेन युक्तेरतौल्यात् ननूभयधर्मस्य नञ्-शक्यतावच्छेदकत्वे गौरवेण लाघवादभावत्वरूपैकधर्म-स्यैव तदवच्छेदकत्वस्वीकार उचित इति अन्योन्याभावश्चेत्यादि ग्रन्थोऽलग्नक इति चेन्न घटो नास्तीत्यादौसंसर्गाभावत्वप्रकारकबोधानुभवानुरोधेन घटः पटोनेत्यादौ त्वन्योन्याभावत्वप्रकारकबोधानुभवानुरोधेन चतथोक्तत्वात्” रघुदेवः ।(२) तत्र चेति तत्र नञर्थे संसर्गाभावे भेदे अन्वयिता-वच्छेदकावच्छिन्नप्रतियोगिताकत्वमिति येन रूपेण प्रति-योगिनोऽभावांशे विशेषेणता तद्धर्मपर्य्याप्तप्रयोगिताव-च्छेदकताकत्वम् व्युत्पत्तिबलतभ्यमिति अपदार्थोऽपितद्रूपावच्छिन्नोपस्थापकशब्दविशेषसमभिघ्याहाररूपाका-ङ्क्षाबलात् प्रतियोगिसंसर्गविधया लभ्यमित्यर्थः थटत्वा-द्यवच्छिन्नप्रतियोगिताकत्वञ्च घटत्वाद्यवच्छिन्नप्रतियोगितानिरूपितत्वविशेषिता अनुयोगिता सा घटादिरूप-विशेषणप्रतियोगिकेति तत्सम्बन्धतया भासते नञ्पदार्थ-तावच्छेदकानुयोनिताया घटादेरन्वयोपगमे तु तत्रतादृशप्रतियोगितानिरूपितत्वमेव सम्बन्धः घटादिनिष्ठ-प्रतियोगिताप्रतियोगिकनिरूप्यत्वं घटादिरूपप्रतियोगिप्रतियोगिकमपि इति तस्य घटादिसम्बन्धता” गदाधरः ।(३) “अन्वयितावच्छेदकावच्छिन्नत्वाविशेषितायाः प्रतियोगि-तायाः नञ्पदार्थे संसर्गाभावे प्रतियोगिसम्बन्धत्वोपगमेबाधकं दर्शयति नीलघटवतीति घट इति इत्याद्यव्यवहारात् इत्यनेन सम्बध्यते तादृश्याः प्रतियोगितायानञर्थे भेदे प्रतियोगिसम्बन्धत्वे बाधकमाह नीलोघट इति अव्यवहारादिति व्यवहारस्य प्रमाणत्वाभावा-दित्यर्थः शुद्धप्रतियोगितायाश्च सम्बन्धत्वे अबाधित-विशेषान्तराभावबोधकतया तत्तद्वाक्यानां प्रामाण्यस्यदुर्वारतया व्युत्पन्नैरपि तथा प्रयुज्येतेति भावः ।तद्रूपविशिष्टप्रतियोगिविशेषिते धर्मिणि शुद्धतद्रूपविशिष्ट-प्रतियोगिविशेषितधर्मिणि शुद्ध्वतद्रूपविविष्टप्रतियोगि-विशेषितसंसर्गाभावस्य तद्रूपविशिष्टे प्रतियोगिनि शुद्ध-तद्रूपावच्छिन्नप्रतियोगिविशेषितभेदस्य बोधने नञो-ऽसामर्थ्योपगमेन दर्शितप्रयोगवारणसम्भवेऽपि वस्तुगत्यानीलघटवति नीलघटादौ “अत्र घटः इत्यादिप्रयोगस्यप्रामाण्यप्रसङ्गो दुर्वार इति बोध्यम्” गदाधरः ।(४) “एवं भूतले घट इत्यादौ भूतलादौ घटसंसर्ना-भावाधिकरणतावद् घटभेदाधिकरणता कुतो प्रती-यते इत्यत आह प्रतियोग्थभावान्वयौ चेति अधि-करणे इत्यादिः अभावपदं संसर्गाभावपरं तथा चाधि-करणे यादृशपदोपस्थाप्यस्य प्रतियोगिनः प्रतियोगिताव-च्छेदकसम्बन्धस्य भानं यादृशञ्च अधिकरणबोधकं यादृश-पदसमभिव्याहारसापेक्षं तादृशपदोपस्थाप्यप्रतियोग्य-न्विताभावस्यापि अधाराधेयभावरूपसम्बन्धस्य भानंतादृशम् अधिकरणबोधकं तादृशबोधकपदसापेक्षञ्चेत्यर्थः ।अनुयोगिनि यादृशपदोपस्थाप्ये इत्यादिः आधाराधेय-भावसम्बन्धेनान्वय इति आधाराधेयभावनियामकप्रति-योगितावच्छेदकसम्बन्धस्य संयोगादेः संसर्गमर्य्यादयाभानमित्यर्थः तत्संसर्गाभावस्यापि तथेति तत्प-दोपस्थाप्यप्रतियोगिविशेषिततत्सम्बन्धावच्छिन्नाभावस्यापिअधारतासम्बन्धोऽपि तादृशपदोपस्थाप्ये अनुयोगिनिसम्बन्धमर्य्यादया भासते इत्यर्थः” गदाधरः ।(५) “तिङाद्यर्थस्येति नञोऽसत्त्व इत्यादिः आदिपदात् सुप्प-रिग्रहः कृत्यादेरित्यादिना तिङ्र्थाश्रयत्वादेः सुवर्थस्वत्वा-देश्च परिग्रहः प्रथमान्तपदोपस्थाप्यस्य विशेष्यतानियाम-कत्वाभिधानं तिङ्प्रत्यये चैत्रस्य धनं पश्यतीत्यादौद्वितीयाद्यन्तपदोपस्थाप्येनापि धनादिना षष्ठ्याद्यर्थस्वत्वा-न्वयात् सुवर्थविशेष्यतयाऽन्वये प्रथमान्तपदोपस्थाप्यत्व-स्यानियामकत्वात् सुपश्च कारकपदोत्तरस्य योऽर्थस्तद्विशे-ष्यत्वे धातूपस्थाप्यत्वं नियामकं शेषषष्ठ्यर्थस्य विशेष्यत्वेच प्रातिपदिकोपस्थाप्यत्वं प्रत्ययान्योपस्थाप्यत्वं वा, “गुरुविप्रतपस्विद्वर्गतानां प्रतिकुर्वीत” इत्यादौ प्रतीकारादिक्रिया-यामपि तदन्वयात् उपपदविभक्तयश्च यद्यत्पदयोगे यायाविहितास्तत्तदर्थविशेष्यत्वे तत्तत्पदोपस्थाप्यत्वं, यथाचैत्रादन्य इत्यादावन्यादिपदप्रयोगेऽनुशिष्टानां पञ्चम्यादी-नामर्थस्य प्रतियोगित्वादेर्विशेष्यत्वे अन्यत्वादिनिष्ठे अन्या-दिपदोपस्थाप्यत्वं, (तन्त्रम्) तत्रेत्यनुयोगिनीत्यर्थः तथाआधाराधेयतासम्बन्धेनान्वयः इत्यर्थः तदभावस्यापितिङाद्युपस्थापितकृत्याद्यभावस्यापि तत्र तथा प्रध-माद्यन्तपदोपस्थाप्ये आधाराधेयभावसम्बन्धेनान्वयइत्यर्थः पचति चैत्रेणेत्यादितश्चैत्रादौ नञर्थ-स्याभावस्य विशेषणत्वेनानन्वयात् चैत्रेण पाककृतिरित्यत्रेव चैत्रेण पचतीत्यादितश्चैत्रादिवृत्तित्वप्रकारेणपाककृत्याद्यभावस्याबोधाच्चेति भावः” गदाधरः ।(६) “चैत्रस्य धनमित्यादौ षष्ठ्याद्यर्थः स्वामित्वादिकं तच्चप्रकृत्यर्थचैत्रादिविशेषणतया भासते स्वामित्वप्रकारेणचैत्रादेरेव धनादौ स्वत्वादिसम्बन्धेनान्वयः विभ-क्त्यर्थविशेष्यतापन्नप्रातिपदिकार्थस्य प्रातिपदिकार्थेसाक्षादपि भेदान्वयबोघोपगमात् नामार्थयोर्भेदेनान्वयेप्रकारीभूतविभक्त्यर्थोपस्थितेस्तन्त्रत्वात् अथ वा षष्ठ्या-द्यर्थः स्वामित्वादिकं प्रकृत्यर्थविशेष्यतयैव भासते धना-देस्तदनाश्रयत्वेऽपि तन्निरूपकतया निरूपकतासम्बन्धेनतत्र तदन्वय इति प्राचाम्मतं दूषयति षष्ठ्यादेश्चेतिआदिपदात् द्वितीयातृतीयापरिग्रहः चैत्रादिनिरू-पितमिति स्वामित्वादिकमित्यादिना कर्मवत्त्वक्रियाज-न्यत्वादिपरिग्रहः निरूपितत्वसम्बन्धेन चैत्रादिरूपप्रकृ-त्यर्थान्वयीत्यर्थः तन्निष्ठमिति आश्रयतासम्बन्धेन विशे-षणतया चैत्राद्यन्वयि आधेयतासम्बन्धेन चैत्रादिरूपविशे-षणेनान्वयि वेत्यर्थः स्वामित्वमित्यादिना कर्तृत्वकर्मत्वा-दिपरिग्रहः तस्येति चैत्रस्य चैत्रनिष्ठस्वामित्वादेश्चे-त्यर्थः धनाद्यवृत्तित्वेनेति वृत्त्यनियामकस्वत्वनिरूपक-त्वादिसम्बन्धेन धनादिसम्बन्धत्वेऽपि धनाद्यवृत्तितये-त्यर्थः धनादौ आश्रयतासम्बन्धेन चैत्रादेस्तन्निष्ठस्वामि-त्वादेश्चाभावसत्त्वेनेति शेषः इति प्रसङ्गात् भवन्मते अवा-धिततादृशचैत्राद्यभावबोधकस्य इत्यादिप्रयोगस्य प्रामा-ण्यप्रसङ्गात् ननु स्वामित्वादेः प्रकृत्यर्थविशेष्यतापक्षेस्तामित्वादेर्निरूपकतासम्बन्धावच्छिन्नाभावस्येव प्रकृत्यर्थ-विशेषणतापक्षे तद्विशिष्टप्रकृत्यर्थचैत्रादेः स्वत्वादिसम्बन्धा-वच्छिन्नाभावस्य नञा प्रत्यायनोपगमान्न तत्रातिप्रसङ्गाव-काशः तादृशाभावस्य धनादौ बाधात् इत्यत आहनिरूपकत्वादेरिति आदिपदात् स्वत्वादिपरिग्रहः प्रति-योगितानवच्छेदकत्वादिति वृत्त्यनियामकतयेत्यादिः ।वृत्त्यनियामकसम्बन्धावच्छिन्नसंसर्गाभावस्याप्रामाणिकत्वात्येन सम्बन्धेनायमिह इतिप्रत्ययस्तत्सम्बन्धमादायैव नायमिति प्रत्ययः, निरूपकतासम्बन्धेनात्र स्वामित्वमितिप्रत्ययाभावात् तेन सम्बन्धेन नात्र स्वामित्वमितिप्रत्ययस्याभावः अतएव धनमात्रे स्वामित्वमात्रस्याश्रयतासम्ब-न्धावच्छिन्नाभावसत्त्वेन चैत्रीयधने चैत्रनिष्ठस्वामित्व-मिति धनेषु चैत्रीयत्वस्य स्वामित्वे चैत्रनिष्ठत्वस्याव्यावर्त्तकतया व्यवह्रियते अपि तु धने स्वामित्व-मित्येवम् अन्यथा निरूपकतासम्बन्थावच्छिन्नस्वामित्वा-भावतात्पर्य्येण तथा व्यवहारस्य दुर्वारतापत्तेः अतएवकृतिमत्त्वरूपकर्तृत्वसम्बन्धस्य वृत्त्यनियामकतया नपचतीत्यत्र तत्सम्बावच्छिन्नक्रियाभाववोधासम्भवेन पच-तीत्यादौ कृतिमत्त्वसम्बन्धेन पाकादेः कर्त्तर्य्यन्वयबोधंनोपजगाम उपजगाम तु जानातीत्यादावाश्रयतासम्ब-न्धेन ज्ञानादेरिति भावः” गदाधरः ।(७) “यत्र चेति ययोरित्यर्थः संसर्गमर्य्यादया लभा इतिभेदान्वये निराङ्क्षतयेत्यादिः तादृशौ प्रातिपदिकाद्यर्थौतत्रेति तत्पदार्थे तत्पदार्थसंसर्गाभावबोधे अनुयोगिनिअनुयोगिवाचकपदोत्तरं सप्तम्यपेक्षेति तत्राभावस-म्बन्धस्याधारतारूपस्य संसर्गत्वासम्भवेन तदर्थकवि-भक्तिं विना तद्भानासम्भवादिति भावः ननु सप्तम्य-न्तभूतलादिपदेन नञर्थाभावे आश्रयतासम्बन्धेनभूतलादिवृत्तित्वबोधवत् तादृशपदेनेदं चैत्रस्येत्यादौषष्ठ्याद्यन्तपदेनेव प्रथमान्तार्थविशेषणक नञर्थाभावेऽपिकदाचित् प्रतियोगितया स्वार्थान्वयबोधस्य जननात् घटा-द्यभावो भूतले, भूतलवृत्तित्वाभाववान् घट इति द्विविधएव भूतले घटैत्यादिवाक्यजन्यबोधः एवञ्च तादृश-वाक्यात् कदाचित् प्रथमबोधः कदाचिच्च द्वितीय इत्यत्रकिं नियामकमित्याकाङ्क्षायां तात्पर्य्यभेदस्य तन्नियमकत्व-मित्याह तत्र चेति तत्र भूतले घट इत्यादिस्थले” गदा(८) “ननु सर्वत्र सप्तम्यन्तार्थस्याभावनिष्ठतयैवान्वयोऽस्तुन तु कदाचिदपि तत्प्रतियोगितया विनिगमकञ्चाग्रेव्यक्तीभविष्यतीत्यत आह अतएवेति कदाचित् सप्त-भ्यन्तार्थप्रतियोगिकाभावस्यापि नञा बोधनादेवेत्यर्थः ।पृथिव्यां गन्धे जले इत्यादौ इत्यादिद्विविधवाक्येप्रतीतेरेकविशेष्यकत्वानुभवः गन्धाद्येकविशेष्यकप्रतीतिज-नकत्वानुभवः जले इत्यतो गन्धाभावस्यैव जल-वृत्तित्वबोधोपगमे तत्प्रतीतावभावस्यैव विशेष्यतयापृथिव्यां गन्ध इत्यतश्च तद्विशेष्यकबोधानुत्पत्त्या तयोरेकविशेष्यक बोधजनकत्वानुभवो विरुध्यतेति भावः” गदा० ।(९) “नञर्थाभावनिष्ठाधेयताबोधकत्वं सप्तम्याः खण्डयतांमतमुपन्यस्यति केचित्त्विति विशेष्ये विशेषणस्याभाव इतिनञोऽसत्त्वे यत्पदार्थे यत्पदार्थो विशेषणतया यत्र भासतेतत्र नञा तत्पदार्थे तत्पदार्थाभावो विशेषणतया प्रता-य्यते इत्यर्थः तथा भूतले घट इत्यतो घटे भूतल-वृत्तित्वस्य विशेषणतया बोधात् भूतले घट इत्यतो-ऽपि घटे भूतलवृत्तित्वाभाव एव विशेषणतया प्रतीयतेन तु घटाभावे भूतलवृत्तित्वम् एकाकारवाक्यस्य द्विविधबोधजनकत्वोपगमे नञ्पदे सप्तम्यन्तभूतलादिपदसमभि-व्याहारज्ञानस्य द्विविधकारणत्वकल्पनापत्तेः उभय-साधारणतत्कार्यतावच्छेदकैकस्य सम्भवेऽपि तादृशवाक्यधर्मिकद्विविधवाक्यार्थतात्पर्यज्ञानस्य पृथक्कारणतयातत्कारणताधिक्यस्य दुर्वारत्वादिति भावः एतन्मतेयुक्त्यन्तरमाह अतएवेति घटो नास्तीत्यादाविवेत्यादिनाघटौ स्तः घटा सन्तीत्यादिपरिग्रहः वचनैक्यनियमइति विशेष्यविशेषणपदयोः समानवचनत्वनियमेन सु-प्तिङोर्वचनसाम्ये नियम इत्यर्थः भूतले घटोऽस्तीत्यादौभूतलाद्यस्तित्वविशेष्यत्वे तदैक्येन तद्घटोऽस्तोत्यादौभावस्य भूतलाद्यस्तित्वविशेष्यत्वे घटौ स्तैत्यादौ द्विव-चनाद्यनुपपत्तेरिति भावः” गदाधरः ।(१०) “गतिश्चिन्तनीया सत्ताशब्दस्य सत्तासमवाये सत्ताप्रतियो-गिकत्वविशिष्टसमवायानुयोगित्वे वा लक्षणया उपपत्तिप्र-कारश्चिन्तनीयः यथाश्रुतार्थेऽनुपपत्तिं दर्शयति जातीतिअप्रसिद्धेरिति तदभावस्य सत्तायां नञा बोधयितुमश-क्यत्वादिति शेषः इदञ्चात्र समवायेन वृत्तेः सप्त-म्यन्तार्थत्वे बोध्यम् वृत्तिसामान्यस्य सप्तम्यर्थतोपगमे-ऽप्रसिद्धिविरहेण तत्पक्षे बाधमाह सम्बन्धान्तरेणेतिएकार्थसमवायेनेत्यर्थः” गदाधरः ।(११) “मतान्तरमाह सप्तम्यर्थेति भूतले घटो नास्ति, जातौन सत्तास्तीत्यादौ भूतलजात्याद्यस्तित्वरूपसप्तमीसमभि-व्याहृतक्रियापदपर्यन्तार्थस्याश्रयतयान्वयी योऽभावःप्रतियोगितासम्बन्धेन प्रकारीभवतस्तस्य विशेष्यतयाप्रतियोगी भासत इत्यर्थः एवञ्च परम्परया क्रियाविशेष्यप्रतियोगिवाचकघटादिसमानवचनत्वं क्रियापदस्य निर्व-हतीति द्रष्टव्यम् येन रूपेण प्रतियोगिनो विशेषणत्वंतद्रूपावच्छिन्नविशेषितैव प्रतियोगिता सम्बन्धतया भा-सते अतो घटादिमति विशेषाभावमादायात्र घटो ना-स्तीत्यादयो व्यवहाराः” गदाधरः ।(१२) “यजति ये यजामहं नानुयाजेष्वित्यादौ अनुया-जाख्ययागविशेषभिन्नयागेषु ये यजामहे पदवन्तं मन्त्रंकरोति उच्चारयतीत्याकारकबोध उत्पद्यत इत्यर्थःकारणसत्त्वे कार्य्योत्पादस्यावश्यं भावादिति भावः अत्रनञा निषेधबोधने बाधकमाह एकवाक्यत्वेति एकवि-धेयार्थकत्वानुरोधादित्यर्थः अत्र नञाऽन्योन्याभावबो-धनेऽनुयाजभिन्नेषु यागेषु ये यजामहेपदवन्मन्त्रक-रणरूपैकार्थविधानसम्भवेनैकविधेयार्थकत्वरूपैकवाक्यत्वंसम्भवति तत्र नञा निषेधवोधने नैवं यागेषु ये य-जामहेपदवन्मन्त्रविधानं अनुयाजेषु तन्निषेधविधान-मिति विधेयीभूतार्थद्वैविध्यात् एकविधेयीभूतैकार्थत्वस्यसम्भवे नानाविधेयार्थकत्वरूपविभिन्नवाक्यत्वकल्पनायाअन्याय्यत्वेन तत्रेष्टापत्तिकरस्याशक्यत्वादिति भावः”रघुदेवः ।(१३) “तत्र नञा निषेधबोधने दूषणान्तरमाह ये यजामह-मित्यादेरित्यादि तत्रादिना करोतेः क्रियात्वेन कार-कबोधानुरोधात् करोतिपदस्य ये यजामहमिति पदस्यचानुषङ्गकल्पने गौरवाच्चेति तथा चात्र नञा निषेध-वोधने यागेषु ये यजामहं करोति, नानुयाजेषु येयजा-महं करोतीत्यर्थः अनुषङ्गकल्पनं विना तु तादृशबोधोन सम्भवति सकृदुच्चरितेत्यादि व्युत्पत्तिभङ्गप्रसङ्गादितिभावः” रघुदेवः ।(१४) “नन्वत्र नञा निषेधबोधने नानुयाजेष्वित्यत्र सप्तम्यर्था-न्वयो भवति अनुयाजाधिकरणतादृशनिषेधस्य बोधात् ।अन्योन्याभावबोधने तथेति सप्तम्यर्थानन्वयभयेनपूर्वोक्तदोषद्वयमभ्युपेत्यात्र नञा निषेधबोधकत्वमवश्यम-भ्युपेयमित्यत आह विशेषणबिभक्तिस्त्विति तथा चात्रनञान्योन्यमावबोधनेऽपि विशेषणविभक्तेः प्रयोगसाधु-त्वरूपप्रयोजनसम्भवेन नैरर्थक्यमिति भावः” रघुदेवः ।(१५) “ननु सर्वत्र विशेषणविभक्तेः प्रयोगसाधुत्वे नीलो घटइत्यादावभेदसम्बन्धेनैव घटे नीलस्यान्वयबोधः नसम्भवति नामार्थयोः साक्षादन्वयस्याव्युत्पन्नत्वादित्यतआह नामार्थयोरित्यादि भेदेन अभेदादितिरिक्तसम्बन्धेन तन्त्रत्वात् हेतुत्वात् तथा चाभेदातिरिक्तसम्ब-न्धावच्छिन्ननामार्थनिष्ठप्रकारतानिरूपितविशेष्यतासम्ब-न्धेन शाब्दबुद्धिं प्रति विषयतासम्बन्धेन विभक्तिप-दज्ञानजन्योपस्थितेर्हेतुत्वस्य कल्पनान्नोक्तानुपपत्तिः त-त्राभेदसम्बन्धेनैकनामार्थोपर्य्यपरनामार्थस्य प्रकारतयातादृशशाब्दबोधस्योक्तकार्यतावच्छेदकसम्बन्धेन तत्रोत्प-त्त्यभावात् मतान्तरमाह लाघवेनेत्यादि लाघवञ्चतत्र जनकतावच्छेदककोटावमेदातिरिक्तसम्बन्धावच्छिन्न-त्वानिवेशेन तयोः नामार्थयोः तथात्वम् विभक्तिजन्यो-पस्थितेस्तन्त्रत्वम्” रघुदेवः ।(१६) “नन्वेवं सति नीलो घट इत्यादौ कथं विशेषणविभक्ति-जन्योपस्थितिं विनाप्यभेदान्वयबोधस्तत्राह विशेषणवि-भक्तिस्त्विति अभेदार्थिका सर्वत्राभेदार्थिका तथा तत्रविभक्तिजन्याभेदोपस्थितिं विनाऽभेदानङ्गीकार इतिभावः” रघुदेवः ।(१७) “ननु यत्र विशेषणविभक्तेरभावस्तत्रका गतिरित्यत आहनीलोत्पलमित्यादि तथा तत्रापि यावत् लुप्तविभक्तेरनुसन्धानं नास्ति तत्र तावत् नाङ्गीक्रियत एव शाब्दबोध इति भावः मतेत्वित्यनेनास्वरसः सूचितः चतन्मतेऽपि नीलोत्पलमित्यादौ लुप्तविभक्तेरनुसन्धानंविनाप्यनुभवसिद्धस्य शाब्दबोधस्यापलापो द्रष्टव्यः” रघुदेवः(१८) “न राज्ञ इत्यादि राज्ञः पुरुष इत्यादौ यथा पुरुषेषष्ठ्यर्थस्वत्वस्याभावः प्रतीयते तथात्रापि (नानुयाजेष्वित्यत्र)प्रयोगे सप्तम्यार्थस्याभेदाभावः प्रतीयत इत्यर्थः चैवंसति एतन्मते नञोऽन्योन्याभावत्वेन शक्तिकल्पनमनर्थकम्सर्वत्र संसगांभावशक्तित एव नञ्जन्यशाब्दबोधनि-र्वाहात् भूतलं घट इत्यादौ विशेषणविभक्त्यर्थाभेदस्यसंसर्गाभाव एव नञा प्रत्याय्यत इत्यभ्युपगमादिति वा-च्यम् तत्र भेदत्वप्रकारकशाब्दबोधस्यानुभवसिद्धतयाऽपलापमात्रेण निराकरणासम्भवेन तेन रूपेणापि नञःशक्तिकल्पनस्यावश्यकत्वादिति” रघुदेवः ।(१९) “केचित्तु यजतिषु ये यजामहं करोति नानुयजेष्वि-त्यादौ नञो निषेधबोधकत्वेऽनुयाजेषु येयजामहेवन्मन्त्रविकल्पापत्तिः यजतिषु येयजामह करोतीत्यनेनयागसामान्ये तत्प्राप्त्या, तदन्तर्गतानुयाजेष्वपि प्राप्तत्वात्नानुयाजेष्वित्यनेन तत्र तस्य प्रतिषिद्धत्वाच्चेति, तत्र नञन प्रतिषेधबोधकत्वं किन्तु भेदबोधकत्वमिति नानुयाजे-ष्वित्यादौ नजो भेदबोधकत्वे युक्तिमाहुः तन्मतं दूष-यितुमुपन्यस्यति यत्त्विति करणनिषेध इति नानु-याजेष्वित्यादौ नञा येयजामहेपदवन्मन्त्रकरणनिषेध-बोधने इत्यर्थः विकल्पापत्तेरिति अनुयाजेषु तादृशम-न्त्रकरणाकरणापत्तेरित्यर्थः उपदर्शितरीत्या तादृशम-न्त्रकरणस्य विहितनिषिद्धत्वादिति भावः” रघुदेवः ।(२०) “विशेषनिषेध इत्यादि व्राह्मणेभ्यो दधि दातव्यं नकौण्डिन्याय दातव्यमित्यादौ विशेषनिषेधस्थलीयस्यब्राह्मणेभ्यो दधि दातव्यभितिसामान्यविधेः कौण्डि-न्यातिरिक्तव्राह्मणसम्प्रदानकदघिदानबोधकत्वव्यवस्थावत्प्रकृतेऽपि यजतिषु येयजामहं करोतीति सामान्यविधे-रप्यनुयागातिरिक्तयागे ये यजामहेपदवन्मन्त्रकरणप्रति-पादकत्वंनानुयाजे तथाविधमन्त्रकरणस्याप्राप्त्या पिक-ल्पासम्भवादिति भावः” रघुदेवः ।(२१) “ननु ब्राह्मणेभ्यो दधि दातव्यं कौण्डिन्याय दातव्य-मित्यादावपि सामान्यविधेर्न विशेषेतरपरत्वम् चतथा सति कौण्डिन्यस्य दधिदानप्रसक्त्या विकल्पापत्ति-रिति वाच्यं तत्र नञोभेदबोधकत्वमभ्युपेत्य वाक्यैकवा-क्यतया कौण्डिन्यान्यब्राह्मणसंप्रदानकदधिदानप्रतिपाद-नाभ्युपगमेन कौण्डिन्थस्य तदप्राप्त्या तन्निषेधाप्राप्त्या चविकल्पानवकाशात् तत्र सामान्यविधेर्विशेषेतरपरत्वकल्प-नस्य निर्युक्तिकत्वात् प्रकृतस्थले नञोनिषेधबोधकत्वेनविकल्पापत्तिर्दुर्द्धरैवेत्यत आह चेति विरुद्धैक-वचनत्वादिति यथैकनामार्थेऽपरनामार्थान्योन्यभाव-बोधकनञ्स्थले विशेषणविशेष्यवाचकपदयोः समानविभक्तिकत्वं तन्त्रम् तथा समानबचनत्वस्यापि तन्त्रत्वेनप्रकृते तदभावात्तथा बोधासम्भवादिति भावः” रघुदेवः ।(२२) “नन्वेकनामार्थेऽपरुनामार्थस्यान्योन्याभावबोधे विशेष-णवाचकपदविशेष्यवात्वकपदयोः समानवचनस्य तन्त्रत्वेप्रमाणाभाव इत्यत आह हि खल्वित्यादि नामा-र्थयोरभेदान्वयबोधे विशेषणबोधकपदविशेष्यबोधकप-दयोः समानधचनत्वस्य तन्त्रत्व एव नञ्जन्यान्योन्या-भावबोधे तयोस्तदायाति नञ्जन्यान्योन्याभावविषयकशाब्दबोधं प्रत्येकपदार्थेऽपरपदार्थस्याभेदान्वयबोधकै-कपदसमभिव्याहृतापरपदे नञ्समभिव्याहारज्ञानस्यहेतुत्वादित्यतस्तत्प्रदर्शितं महतो राज्ञ इत्यनेन नन्वेक-पदार्थेऽपरपदार्थान्योन्याभावविषयकशाब्दबुद्धिं प्रवि वि-शेषणबोधकपदविशेष्यबोधकपदयोः समानवचनत्वनिया-मकत्वकल्पने एकोनद्वावित्यादौ नञोऽन्योन्याभावविष-यकशाब्दबोधानुदयप्रसङ्ग इति तत्र तदनभ्युपगमआवश्यकस्तथा ब्राह्मणेभ्यो दधि दातघ्यं कौण्डि-न्याय दातघ्यमित्यादौ नञान्योन्याभाववोधने बाधकाभावइत्यतः पूर्वोक्तदोषोद्धारपुरःसरं दोषान्तरमाह एको नद्वावित्यादिवदित्यादिना अत्र नित्यद्विवचनाद्यन्तश-ब्दातिरिक्तस्थले तथाविधनियमस्वीकारे तु पूर्वोक्तदोष-स्यैव दुरुद्धरतेति सूचनार्थमुक्तं कथञ्चिदिति ब्राह्म-णेभ्यो दधि दातव्यं कौण्डिन्यायेत्यादिनैव कौण्डिन्यभिन्नब्राह्मणसम्प्रदानकदधिदानबोधसम्भवात् द्वितीयदात-व्यपदं निरर्थकमिति भावः” रघुदेवः ।(२३) “अतएवेति यतएव विशेषनिषेधस्थले सामान्यविधेर्वि-शेषेतरपरत्वम् अतएवेत्यर्थः अन्यथाऽमावास्यायां पि-तृभ्यो दद्यादित्यनेन रात्रौ श्राद्धकरणप्राप्त्या रात्रौश्राद्धं कुर्वीतेत्यनेन तत्र श्राद्धकरणनिषेधस्य प्राप्त्यातत्र तत्करणस्य विहितप्रतिषिद्धत्वाभ्यां विकल्पापत्तेर्दुवारत्वादिति भावः” रघुदेवः ।(२४) “ननु अत्राप्यन्योन्याभावार्थकतया रात्रीतरकाले श्राद्ध-करणस्य विधानसम्भवेन सर्वसामञ्जस्ये व्यर्थं तत्र नञोनिषेधार्थकत्वकल्पनमित्यत आह हीति तत्रापि रात्रौश्राद्धं कुर्वीतेत्यत्रापि रात्रीतरपरता नञोन्यान्याभावार्थकतया रात्रीतरकाले श्राद्धकरणस्य बोधकतेत्यर्थः ।तथा व्यर्थं प्रतिषेधार्थकत्वकल्पनमिति भावः” रघुदेवः ।(२५) “रात्रिभिन्न इत्यादि रात्रौ श्राद्धं कुर्वीतेत्यादौ नञोन्योन्याभावार्थकतया रात्रीतरकाले श्राद्धकरणविधाना-भ्युपगमेऽमावास्यायां पितृभ्यो दद्यादित्यनेन रात्रौश्राद्धप्रसक्तेस्तत्करणापत्तेर्दुरवारत्वादित्यर्थः” रघुदेवः ।(२६) “ननु तथाविधिवाक्ययोर्वाक्यैकवाक्यतया रात्रीतरा-मावास्यायां कुर्वीतेत्यर्थकत्वाभ्युपगमे पूर्वोक्तकल्पोक्तदोषइत्यत आह खल्वित्यादि रात्रौ श्राद्धं कुर्वीते-त्यतो भिन्नं वाक्यान्तरमस्ति तेन क्रियारहितश्राद्धवि-घायकवाक्येन” रघुदेवः ।(२७) “नापीदम् इदं रात्रौ श्राद्धं कुर्वीतेति वाक्यम् ।पृथक्क्रियारहितम् अनुषङ्गिकक्रियातिरिक्तक्रिया-रहितम् केवलं क्रियारहितमित्युक्तौ नानुयाजेष्वितिवाक्यमपि तथा, तत्रानुषङ्गिककरोतिक्रियासत्त्वादतःपृथगित्युक्तम् तथा तयोरेवैकवाक्यतासम्भवेरात्रीतरवाक्यं क्रियारहितं भवति अन्यथा तयोरेक-तरवाक्ये क्रियापदस्य वैयर्थ्यापत्तेः श्राद्धकरणप्राप-कवाक्यान्तरस्याभावेन प्रकृतवाक्यद्वयस्यैव क्रियापदवत्त-यैकवाक्यत्वाभावेन पूर्वोक्तदोषो दुर्द्धर एवेति भावःरघुदेवः ।(२८) ननु रात्रौ श्राद्धं कुर्वीतेत्यादौ नञोनिषेधबोधकत्वंन सम्मवति त्वन्मते विशेषनिषेधस्थले सामान्यविधेर्विशेषे-तरपरत्वनियमेनामावास्याया पितृभ्यो दद्यादित्यादिसामान्यविधेः रात्रीतरामावास्वाकाले श्राद्धकरणस्य वि-धायकत्वेन तत्र श्राद्धकरणप्रापकवाक्यान्तरस्य चाभावेनतत्र तस्याप्रसक्तत्वाद्दर्शितसामान्यविधेर्विशेषान्तरपरत्वं ना-भ्युपगम्यते चेत्तदा तत्र तत्पाप्तौ तु विकल्पापत्तिरित्या-शङ्कते अथ रात्रावित्यादिना उपहासपूर्वकं समाधानमाह साधीयानिति तथा प्रसक्तं हि प्रतिषिध्यतइति नियमे प्रमाणाभावेनाप्रसक्तस्यापि निषेधे बाधकाभावेन रात्रौ श्राद्धं कुर्वीतेत्यादौ नञोनिषेध-बोधकत्वाभ्युपगमे क्षतिविरह इति भावः” रघुदेवः ।(२९) “निषेधविधेरिति तादृशनियममस्वीकृत्याप्रसक्तस्यापिनिषेधाभ्युपगमे इत्यादि पूरणीयम् वैयर्थ्यमिति प्रस-क्तस्यैव प्रतिषिद्धत्वमिति नियमे तु तत्र तदकरणस्यैवनिषेधविधेः प्रयोजनत्वसम्भव इति तादृशनियमाभ्युपग-मोऽत्यावश्यकस्तस्य विशेषविशेषनियन्त्रितत्वान्न दोषइति भावः तात्पर्य्यानवबोधादिति रात्रीतरामा-वास्याकालाधिकरणश्राद्धकरणबोधतात्पर्य्याऽनिर्णयपसक्तंयद् रात्रिश्राद्धकरणं तद्वारणस्य तत्प्रयोजनत्वादित्यर्थः ।रात्रौ श्राद्धकरणनिषेधबोधकवाक्याभावेऽमावास्यायांपितृभ्यो दद्यादित्यादिवाक्यतो रात्रीतरामावास्याकालेश्राद्धकरणस्य बोधासम्भवः तथाविधतात्पर्यनिर्णवाभावात्तथा रात्रावपि श्राद्धकरणं प्रसज्येत रात्रौ श्राद्धकर-णस्य निषेधविधौ तु तथाविधवाक्यार्थपर्य्यालोचनक्रमेणतथाविधविधेरुपदर्शितार्थे तात्पर्यनिर्णयसम्भवेन तस्मात्तादृशबोधसम्भवेन रात्रौ तदप्राप्तौ तत्र तत्करणाप्रसक्तिरिति भावः” रघुदेवः ।(३०) “एवं सति विकल्पस्थलस्य दुर्लभत्वापत्तिरित्यत आह एक-विषयतयेत्यादि अनन्यगतिकतया विकल्पं विना गत्य-न्तराभावतया तथा तत्र विकल्पं विना प्रकारान्तरा-सम्भवेनावश्यं तत्र विकल्पस्वीकारेण विकल्पस्थलदुर्ल-भत्वापत्तिरिति भावः” रघुदेवः ।(३१) “ननु नातिरात्रे षोडशिनं गृह्णातीत्यत्र नञा इष्टसा-धनत्वस्यैवाभावः प्रतीयते प्रकारान्तरस्याभावात् तच्च नसम्भवति षोडशिग्रहणबिधिविरोधादित्याशङ्क्य उपपा-दयति अत्र चेति षोडशिनं गृह्णातीत्यत्र चेत्यर्थः”रघुदेवः ।(३२) “ननु धात्वर्थान्विते एव विभक्त्यर्थे नञर्थाभावस्यैवान्वयोव्युत्पन्न इत्यतआह व्युत्पन्नश्चेति तथा तादृश-व्युत्पत्तिकल्पने प्रमाणाभाव इति भावः” रघुदेवः ।(३३) “अतएव तादृशव्युत्पत्तेरभावादेव” रघुरदेवः ।(३४) “ननु क्वचिद्धात्वर्थेऽपि विभक्त्यर्थप्रतियोगिकस्याभावस्यक्वचिच्च धात्वर्थाभावे विभक्त्यर्थान्वये नियामकाभाव इत्यतआह नियमस्त्वित्यादि तथा यत्र धात्वर्थे विभक्त्य-र्थाभावबोधे तात्पर्य्यं तिष्ठति विरोधेऽपि नास्तितत्र तथा बोधः यत्र तु धात्वर्थाभावे विभक्त्यर्थान्वयबोधे तात्पर्य्यं तत्र तथैवान्वयबोध इति नियम इतिभावः” रघुदेवः ।(३५) “ननु षोडशिग्रहणस्याङ्गत्वेन इष्टसाधनत्वाभावात् ना-तिरात्रे षोडशिनं गृह्णातीत्यादौ षोडशिग्रहणे इष्टसा-धनत्वाभावबोधनेऽपि ग्रहणविरोधः किन्तु बाधेनतत्रेष्टसाधनत्वस्यान्वयबोधासम्भवः तथा कथं तत्रग्रहणविधिविरोधेन धात्वर्थाभावे इष्टसाधनत्वान्वयबो-धाङ्गीकार इत्यत आह मुख्यफलाजनकत्वेऽपिचेत्यादि तथा तत्रेष्टसाधनत्वाभावान्वयबोधस्य स्वीकारेग्रहणनिषेधविरोधोदुरपह्नव इति भावः” रघुदेवः ।(३६) “ननु ग्रहणाग्रहणयोस्तुल्यफलजनकत्वे कथं बहुदुः-खसाध्ये षोडशिग्रहणे प्रवृत्तिरित्यत आह ग्रहणवि-ध्यन्यथानुपपत्त्या चेति तथा तयोस्तुल्यफलाभा-वेन नोक्ताशङ्काया अवकाश इति भावः” रघुदेवः ।(३७) “प्रतियोग्यनुयोगिभावः प्रतियोगित्वमनुयोगित्वम्आधाराधेयभावः आधारत्वमाधेयत्वम् उभयत्रोभयोत्की-र्त्तनं तुल्यवित्तिवेद्यत्वाभिप्रायेण” रघुदेवः ।(३८) “ननु नञोऽभावार्थकत्वे कथं भूतले घटः भूतलं घटइत्यादौ भूतलेऽधिकरणतासम्बन्धेन नञर्थाभावस्यान्वयो-ऽन्योन्याभावे पतियोगितासम्बन्धेन घटादेर्वान्वयो ना-मार्थयोर्भेदेनान्वयबोधानङ्गीकारादित्यत आह निपातेति ।अव्ययनिपातातिरिक्तेत्यर्थः तथा फलबलान्निपाताव्ययजन्यशाब्दबोधं प्रति प्रकारीभूतविभक्त्यर्थोपस्थिते-र्हेतुत्वस्याकल्पनेनानुपपत्त्यभाव इति भावः” रघुदेवः ।(३९) “अतएवेति यतएव फलबलान्निपाताव्ययजन्यशाब्द-बोधं प्रति प्रकारीभूतविभक्त्यर्थोपस्थितेर्न हेतुत्वमतएवे-त्यर्थः इवाद्यर्थान्वयबोधे चन्द्र इव मुखमित्यादाविवा-द्यर्थान्वयबोधे आदिना नञतिरिक्तनिपातमात्रपरिग्रहः”रघुदेवः ।(४०) “ननु नञोऽभावार्थकत्वेऽघट भूतलमित्यादौ कथं नाना-धर्माभ्यामेकधर्मिबोधकत्वरूपसामानाधिकरण्योपपत्तिरित्य-त आह अघटं भूतलमित्यादि संसर्गाभावाऽन्योन्याभा-वार्थकनञ्भेदेनोदाहरणद्वयम् अघटमित्यत्र नपुंसक-लिङ्गनिर्देशस्तु विद्यते घटो यतेति बहुव्रीहिसमासस्पष्टीकरणाय अन्यथाऽघट इत्युक्ते घटोऽघटइति नञ्तत्पुरुषेऽपि तथा प्रयोगसम्भवे तत्र नञो-ऽन्योन्याभाववत्परतया घटसंसर्गाभाववल्लाक्षणिकनञउदाहरणासम्भव इति ध्येयम् तत्र अभाववत्परताभाववद्बोधकता” रघुदेवः ।(४१) “यैस्तु निपातजन्यशाब्दबुद्धिं प्रत्यपि प्रकारीभूत-विभक्त्यर्थोपस्थितेर्हेतुत्वमुपेयते तन्मतमाह केचित्त्वितिप्रतियोगिपदोत्तरस्य सुप इति भूतले घट इत्यादौघटादिबोधकपदोत्तरसुप इत्यर्थः” रघुदेवः ।(४२) “ननु सर्वत्रप्रतियोगित्वस्य नञ्समभिव्याहृतप्रतियोगिबोधकपदोत्तरसुबर्थत्वे घटीयोऽभावो घटस्येतिप्रयोगापत्तिः तत्रापि घटनिष्ठप्रतियोगित्वस्य स्वरूप-सम्बन्धेनाभावस्य घटाभावेश बिद्यमानत्वात् घट-स्येत्यत्र निरूपकत्वसम्बन्धोवच्छिन्नघटनिष्ठप्रतियो-गितानिष्ठप्रतियोगिताकाभावबोधाभ्युपगमान्न तथा प्र-योगः घटनिष्ठप्रतियोगिताया निरूपकतासम्बन्धेनघटाभावे विद्यमानत्वादिति वाच्यम् वृत्त्यनियामकसं-सर्गस्याभावप्रतियोगितावच्छेदकत्वाभावेन तथोक्तेरश-क्यत्वादित्यत आह अनुयोगित्वं वेति वाकारो व्यवस्थितविकल्पसम्पादकः तथा क्वचित् प्रतियोगित्वं तथाविध-सुबर्थः क्वचिदनुयोगित्वं वेति लब्धम् अतएव पटो नघटाभावस्येत्यादौ पटे घटाभावप्रतियोगित्वाभावबोध-स्यानुभवोऽपि सूपपाद इति ध्येयम्” रघुदेवः ।(४३) “नञुत्तरसुपोऽधिकरणात्वर्थकत्वे सर्वत्र नञुत्तरसुपोऽनु-सन्धानकल्पनं तत्र लक्षणाकल्पनं चेत्युभयकल्पने गौरवम्तदपेक्षया नञ एवाभाववति लक्षणाकरणकल्पनमुचितमित्याशयेनाह नञो वेति” रघुदेवः ।(४४) “ननु नञोऽन्योन्याभावबोधने विशेषणवाचकपदविशेष्य-वाचकपदयोर्विरुद्धविभक्तिराहित्यं तन्त्रमिति पूर्वमुक्तम्तत्र विरुद्धविभक्तिकत्वं विरुद्धार्थप्रतिपादकविभक्तिक-त्वम् अन्यथा व्यत्ययानुशासनस्थले कर्मत्वाद्यर्थकप्रथमा-न्तपदार्थसाम्याभावेऽपि एकत्वाद्यर्थप्रथमान्तत्वसाम्येनान्व-यबोधापत्तेः तथा प्रतियोगिवाचकपदोत्तरसुपःप्रतियोगित्वाद्यर्थकत्वे घट इत्यादौ नञोऽन्योन्या-भावबोधकत्वासम्भवः तस्य विशेष्यवाचकपदात् भिन्नत्वेनतत्प्रतिपादकविभक्तेर्विशेषणवाचकपदोत्तरविभक्त्यर्थप्रति-योगित्वादिति भवतास्वीकारात् एवं नञर्थसंसर्गाभावेभेदेनेतरपदार्थान्वयानुभवेऽनुयोगिवाचकपदोत्तरं सप्तम्यपे-क्षेति यत्पूर्वमुक्तं तदपि नञुत्तरसुपोऽधिकरणत्वेलक्षणयां भवति एवं नञोऽभाववल्लाक्षणिकत्वे त्वत्-कल्पे तथाविधभेदान्वयबोधाप्रसक्तौ तथाविधाभेदान्वय-बोधे तु तादृशसप्तम्यन्तापेक्षा सम्भवति अघटं भूतल-मित्यादौ तदभावात् एवञ्च क्वचिन्नञान्योन्याभावः प्रति-पाद्यते क्वचित् संसर्गाभावः प्रतिपाद्यते इत्यत्र नियाम-काभावः सर्वत्र तदुभयबोधप्रसङ्गात् इत्यत आह विभ-क्त्यर्थेति विभक्त्यर्थस्यान्योन्याभावबोधने अनुयोगि-वाचकपदसमानविभक्तिकपदार्थस्य, संसर्गाभावबोधने चनञोऽसामार्थ्यमित्यर्थः तथा फलानुरोधेन तत्रतत्तदानुपूर्वीज्ञानस्य हेतुत्वकल्पगान्नानियमप्रसङ्ग इतिभावः” रघुदेवः ।(४५) “तथाविधकार्य्यकारणभावकल्पनं पूर्वमतेऽप्यावश्यक-मित्याह तेनेति तथाविधासामर्थ्यकल्पनेनेत्यर्थः सं-सर्गाभावः संसर्गाभाववदभेदो प्रतीयते तथा चतादृशकार्य्यकारणभावाकल्पने पूर्वमतेऽप्येतेषु स्थलेषु तत्त-दन्वयबोधस्यापत्तिर्दुर्वारेति तादृशकार्यकारणभावकल्पना-वश्यकत्वमिति भावः” रघुदेवः ।इदमत्रावधेयम् प्राप्तिपूर्वकत्वान्निषेधस्येति मीमांसकैर्मन्यतेतेषामाशयः हृदे दहनो नास्तीत्यादौ प्रत्यक्षे अभाव-ज्ञानस्य प्रतियोगिज्ञानसापेक्षतया प्रतियोगिनश्च ज्ञान-लक्षणादिना पूर्वं ज्ञायमानत्वेन तस्याभावो ह्रदेबोधनेऽपि प्राप्तस्य ज्ञातस्य दहनस्य अन्यत्र प्रसक्ता-वपि हृदे वायौरूपवत् निषेधो विरुध्यते शास्त्रीयेतु निषेधे विधीयमानो निषेधः प्राप्तिमुपजीवति प्राप्तिश्चरागतोऽतिदेशशास्त्रतो वा तत्र कलञ्जं भक्षयेदि-त्यादौ रागप्राप्तस्य विषेधः अतिदेशश्चतः प्राप्तयोः“न तौ पशौ करोति” इत्यादौ अघाराज्यभागयोःपशुयागे निषेघः अतिदेशशास्त्रस्यान्यत्र चरितार्थत्वेनअतुल्यबलत्वात् नात्र विकल्पः किन्तु एकविषयतयाऽगत्याषोडशिग्रहणाग्रहणयोर्विकल्पः इति भेदः अप्राप्तस्यविधीयमाननिषेधस्य प्राप्तिश्च प्रतियोगिप्राप्तेरित्येव तत्रप्राप्तिपूर्वकत्वम् तत्र पर्युदासः यथा “न तौ पशौकरोति” इत्यादौ करोतीत्यादेरनुवादत्वेन नानर्थक्यम्“सम्मेदे नान्यतरवैयर्थ्यमिति” न्यायात् तेन आधारा-ज्यभागकरणानुवादेन पशुयागभिन्नत्वमात्रं विधेयम्एवं रात्रौ श्राद्धं कुर्वीतेति वाक्येऽपि क्रियापदस्या-नुवादत्वेन तस्य वैयर्थ्याभावात् तत्र श्राद्धकरणानुवादेनरात्रिभिन्नकालत्वं विधेयम् यथा वा दध्ना जुहोत्यादौहोममनूद्य दधिद्रव्यकरणकत्वमात्रं विधीयते एवं श्राद्ध-करणमनूद्य रात्रीतरकालरूपद्रव्यविधाने क्षत्यभावः ।अन्यथा कुत्र रात्रीतरकालो बिधीयेत अतः रात्रौश्राद्धं कुर्वीतेत्यादि वाक्यस्य श्राद्धकरणनिषेधपरताव्यव-स्थापनं युक्तिसहं “न कलञ्जं भक्षयेदित्यादाविवपण्डापूर्वकल्पनाया तदतिक्रमे दुरदृष्टसाधनत्वकल्पना-याश्चापत्तेर्दुवारत्वात् सकलशिष्टाचारसम्मततस्य रात्रौश्राद्धकरणेऽनिष्टाभावस्य विरोधापत्तेश्च किञ्च इदंवाक्यं केवलश्राद्धानुवादेन रात्रीतरकालविधानं किन्तुयावच्छ्राद्धानुवादेन रात्रीतरकालविधानपरमित्यपिगन्तव्यम् यद्यपि अष्टकासु मघासु चेति मनुवचनेअष्टकादिपदस्य बहुवचनान्ततया निर्देशेन तद्विरुद्धै-कवचनावरुद्धत्वात् भेदपरता सम्भवति पूर्वोक्तव्युत्प-त्तिविरोधात् तथापि सामान्ये औत्सर्गिकमेकवचनंजात्मभिप्रायमिति विरोध इत्यवधेयम् ।क्रियायामिव विभक्त्यर्थेऽपि नञर्थाभावान्वय इतियदुक्तं तत्र कलञ्जं भक्षयेदित्यादौ धात्वर्थे बलवदनि-ष्टाननुन्धित्वरूपविध्यर्थस्य” एकादश्यां भुञ्जीत्यादौभोजनाभाव एव विध्यर्थेष्टसाधनत्वस्य बोध इति विषय-भेदेन व्यवस्था अतएव कलञ्जं भक्षयेदित्यादि निषेध-वाक्यम् एकादश्यां भुञ्जीतेत्यादि निषेधविधिवाक्यमितिभेदः तदेतत् शब्दशक्तिकाशिकायां समर्थितम् “पङ्गुःसमुद्रं तरेदित्यादौ नञादिना समुद्रतरणादेः, पङ्गु-प्रभृतिकृतिसाध्यत्वनिषेधबोधानुरोधादवश्यं कृतिसाध्यत्वंलिङर्थः तथा तृप्तिकामोजलं ताडयेदित्यादौ तृप्ति-कामेष्टसाधनत्वस्य, कलञ्जं भुञ्जीतेत्यादौ कलञ्ज-भक्षणादेः बलवदनिष्टाजनकत्वेऽपीष्टसाधनत्वस्य निषेधा-नुपपत्त्या इष्टसाधनत्वादिकमपि (यथायथम्) चाहोरात्रावच्छेद्यभोजननिवृत्तिरूपस्योपवासस्य कृत्यसाध्यत्वा-दष्टम्यामुपवसेदिति विधेर्बाधः कृत्यधीनसमयसम्बन्धरूपस्यक्षैमिककृतिसाध्यत्वस्य नित्येऽप्यनपायात्, तादृशप्रयोगेभोजनादिप्रतिकूलव्यापारस्यैव वा धात्वर्थत्वात्” इति ।मीमांसकमतानुसारेण कलञ्जाधिकरणशब्दे १७७७ पृ०नञर्थादिको दर्शितः आग्नायस्य क्रियार्थत्वमित्येकान्ता-श्रयणे दोषकथनावसरे शा० भा० रत्नप्रभयोश्च अत्यन्ताभावएव नञः शक्तिर्भेदादौ लक्षणेत्युक्तं यथा“अपि ब्राह्मणो हन्तव्यः इति चैवमाद्या निवृत्तिरु-पदिश्यते सा क्रिया नापि क्रियासाधनम् इत्यतोनिवृत्त्युपदेशानामानर्थक्यं प्राप्तं तच्चानिष्टम् चस्वभावप्राप्तहन्त्यर्थानुरागेण नञः शक्यमप्राप्तक्रियार्थत्वंकल्पयितुं हननक्रियानिवृत्त्यौदासीन्यव्यतिरेकेण नञ-श्चैष स्वभावो यत् स्वसम्बन्धिनोऽभावं बोधयति अभावश्चौदासीन्यकारणं सा दग्धेन्धनाग्निवत् स्वयमेवोपशा-म्यति तस्मात् प्रसक्तक्रियानिवृत्त्यौदासीन्यमेव ब्राह्मणोन हन्तव्य इत्यादिषु प्रतिषेधार्थं मन्यामहे अन्यत्र प्रजा-षतिव्रतादिभ्यः” शा० भा० ।“नञः प्रकृत्यर्थेन सम्बन्धात् हननाभावो नञर्थःइष्टसाधनत्वं तव्यादिप्रत्ययार्थः इष्टश्चात्र नरकदुःखाभावःतत्परिपालको हननाभाव इति निषेघवाक्यार्थः हन-नाभावो दुःखाभावहेतुरित्युक्तावर्थाद्धननस्य दुःखसाधन-त्वधिया पुरुषो निवर्त्तते नात्र नियोगः कश्चिदस्तितस्य (नियोगस्य) क्रियातत्साधनदध्यादिविषयत्वात् नच हननाभावरूपा नञ्वाच्या निवृत्तिः क्रिया अभाव-त्वान्नापि क्रियासाधनम् अभावस्य भावाहेतुत्वाद्-तस्य सत्त्वरूपत्वाभावाच्चेत्यर्थः अतो निषेधशास्त्रस्यसिद्धार्थे प्रामाण्यमिति भावः विपक्षे दण्डमाह चसा क्रियेति ननु स्वभावतो रागतः प्राप्तेन हन्त्यर्थे-नानुरागेण नञ्सम्बन्धेन हेतुना हननविरोधिनीसङ्कल्पक्रिया वोध्यते सा नञर्थरूपा तत्राप्राप्त-त्वाद्विधीयते अहननं कुर्य्यात् इति तथाच कार्य्यार्थ-मिदं वाक्यमित्याशङ्क्य निषेधति चेति औदासीन्यंहननाभाव इति यावत् तद्व्यतिरेकेण नञः क्रियार्थत्वंकल्पयितुं शक्यमिति योजना मुख्यार्थस्याभावस्य नञर्थत्वसम्भवे तद्विरोधक्रियालक्षणाया अन्या-य्यत्वात् निषेधवाक्यस्यापि कार्य्यार्थत्वे विधिनिषेधभेद्रविप्लवापत्तेश्चेति भावः ननु तदभाववत्तदन्यतद्विरुद्ध-योरपि नञः शक्तिः किं स्यात् अब्राह्मणः अधर्मइति प्रयोगदर्शनादिति चेत् अनेकार्थत्वस्यान्याय्य-त्वादित्याह नञश्चेति गवादिशब्दानान्तु अगत्यानानार्थत्वं स्वर्गेषुवाग्वज्रादीनां शक्यपशुसम्बन्धाभा-वेन लक्षणानवतारात् अन्यविरुद्धयोस्तु लक्ष्यत्वं युक्तंशक्यसमन्धात् ब्राह्मणादन्यस्मिन् क्षत्रियादौ धर्म-विरुद्धे वा पापे ब्राह्मणाद्यभावस्य नञ् शक्यस्यसम्बन्धात् प्रकृते आख्यातयोगात् नञ्प्रसज्यप्रति-षेध एव पर्य्युदासलक्षकमिति मन्तव्यम् यद्धानञः प्रकृत्या सम्बन्धः प्रकृतेः प्रत्ययार्थोपसर्जन-त्वात् प्रधानसम्बन्धाच्चाप्रधानानां, किन्तु प्रकृत्यर्थनिष्ठेनप्रत्ययार्थेनेष्टसाधनत्वेन सम्बन्धोनञः इष्टञ्च स्वापेक्षयाबलवदनिष्टाननुबन्धि यत्तदेव तात्कालिकसुखमात्रंविषयप्रयुक्तं निषिद्धान्नभोगस्यापि इष्टत्वापत्तेः तथाचन हन्तव्यः हननं बलवदनिष्टासाधनत्वे सति इष्टसाधनंन भवतीत्यर्थः अत्र हन्तव्यः इति हनने विशेष्टेष्ट-साधनत्वं भ्रान्तिप्राप्तमनूद्य नेत्यभावबोधने बलबदनिष्ट-साधनं हननमिति बुद्धिर्भवति हनने तात्कालिकेष्टसाधनत्वरूपविशेष्यसत्त्वेऽपि विशिष्टाभावबुद्धेर्विशेषणा-भावपर्य्यवसानात् विशेषणं बलवदनिष्टासाधनत्वमितितदभावोबलवदनिष्टसाधनत्वं नञर्थ इति पर्य्यवसन्नम् ।तद्वुद्धिरौदासीन्यपरिपालिकेत्याह अभावेति चोऽप्य-र्थ्यः पक्षान्तरद्योती प्रकृत्यर्थाभावबुद्धिवत् प्रत्ययार्था-भाववुद्धिरपीत्यर्थः बुद्धेः क्षणिकत्वात्तदभावे सत्यौदासी-न्यात् प्रच्युतिरूपा हनादौ प्रवृत्तिः स्याद् इति तत्राहसा चेति यथाग्निरिन्धनं दग्ध्वा शाम्यति एवं सानञर्थाभावबुद्धिः हननादाबिष्टसाधनत्वभ्रान्तिमूलं रागे-न्धनं दग्ध्वैव शाम्यतीत्यक्षरार्थः रागनाशे कृते प्रच्यु-तिरिति भावः यद्वा रागतः प्राप्ता सा क्रिया रागनाशेस्वयमेव शाम्यतीत्यर्थः परपक्षे तु हननविरोधिक्रियाकार्य्येत्युक्तेऽपि, हननस्येष्टसाधनत्वभ्रान्त्र्यनिरासात्प्रच्युतिर्दुर्वारा तस्मात्तदभाव एव नञर्थ इत्युपसंह-रति तस्मादिति भावार्घाभावेन तद्विषयककृत्य-भावात् कार्य्याभावस्तच्छब्दार्थः यद्वेत्युक्तपक्षे निवृ-त्त्युपलक्षितमौदासीन्यं यत्तद्विशिष्टभावापन्नमेवेति-व्याख्येयं स्वतः सिद्धस्यौदासीन्यस्य नञर्थसाध्यत्वो-पपादानार्थं निवृत्त्युपलक्षितत्वमिति ध्येयम् ।” तस्यवटोर्ब्रतमित्यनुष्ठेयक्रियावाचिना व्रतशब्देन कार्य्यमुप-क्रम्य “नेक्षेतोद्यन्तमादित्यम्” इति प्रजापतिव्रतमुक्तम्अत उपक्रमवलात्तत्र नञईक्षणविरोधिसङ्कल्पक्रिया-लक्षणाऽङ्गीकृता एवमगौरसुरा अधर्म इत्यादीनाम-धात्वर्थयुक्तस्य नञः प्रतिषेधवाचित्वायोगात् अन्यवि-रुद्धलक्षकत्वम् एतेभ्यः प्रजापतिव्रतादिभ्योऽन्यत्राभाव-स्यैव नञर्थता इत्यर्थः” रत्नप्रभा० ।नञः प्रसज्यप्रतिषेधाद्यर्थाभिधाने नियमविशेषस्मरणपूर्वकंसा० द० नञर्थो निर्णीतो यथा“अमुक्ता भवता नाथ! मुहूर्त्तमपि सा पुरा” अत्रा-मुक्तेत्यत्र नञः प्रसज्यप्रतिषेधार्थत्वमिति विधेयत्व-मेवोथितम् यदाहुः “अप्राधान्यं विधेर्यत्र प्रति-षेधे प्रधानता प्रसज्यप्रतिषेधोऽसौ क्रियया सह यत्रनञ्” तथा “नवजलधरः सन्नद्धोऽयं नदृप्तनिशा-चरः” अत्रोदाहरणे तत्पुरुषसमासे गुणीभावे नञःपर्य्युदासतया निषेधस्य विधेयतानवगमः यदाहुः ।“प्रधानत्वं विधेर्यत्र प्रतिषेधेऽप्रधानता पर्य्युदासःस विज्ञेयो यत्रोत्तरपदेन नञ्” तेन “जुगोपात्मान-मत्रस्तो भेजे धर्ममनातुरः अगृध्नुराददे सोऽर्थानसक्तःसुखमन्वभूत्” अत्रात्रस्तादितामनूद्यात्मगोप्रनाद्येव विधे-यमिति नञः पर्युदासतया गुणभावो युक्तः नन्वश्रा-द्वभोजी ब्राह्मणः, असूर्य्यम्पश्या राजदारा इत्यादिवत्कमुक्तेत्यत्रापि प्रसज्यप्रतिषेधो भविष्यतीति चेन्नअत्रापि यदि भोजनादिरूपक्रियांशेन नञः सम्बन्धःस्यात्तदैव तत्र प्रसज्यप्रतिषेधत्वं वक्तुं शक्यं चतथा, विशेष्यतया प्रधानेन तद्भोजिनार्थेन कर्त्रंशेनैवनञः सम्बन्धात् यदाहुः “श्राद्धभोजनशीलो हियतः कर्त्ता प्रतीयते तद्भोजनमात्रं तु कर्त्तरीने-र्विधानतः” इति अमुक्तेत्यत्र तु क्रिययैव सह सम्बन्धइति दोष एव” ।अश्राद्धभोजीत्यादौ असमर्थसमासं वैयाकरणा मन्यन्ते“सुडनपुंसकस्य” पा० सूत्रे नपुंसकस्य नेत्यर्थस्य भाष्यादा-वुक्तत्वात् सामर्थ्याभावेऽपि समास इति हि तेषां राद्वान्तःलाक्षणिकनञर्थनिर्णयः शब्दशक्तिप्रकाशिकायां यथा“अतएवाघटः पट इत्यादावन्यस्य, असुरोदैत्य इत्यादौविरोधिनः, अनिक्षुः शरः इत्यादौ सदृशस्य, अब्राह्मणोवार्द्धुषिक इत्यादावपकृष्टस्य, अनुदरमुदरन्तरुण्या इत्यादौस्वल्पस्य बोधकेन नञ्निपातेन स्वार्थे प्रतियोगित्वादिसम्बन्धेनैव घटादेरनुभावनेऽपि तत्रत्यतत्पुरुषे नाव्याप्तिः ।पटस्याभाव इत्यर्थे प्रसज्यनञा अव्ययीभाव एवसमासः प्रमाणं, तेनापटं वर्त्तते इत्याद्येव तत्र प्रयोग-स्तत्पुरुषस्योत्तरपदलिङ्गकत्वनियमात् इति वृद्धाः ।प्रसज्यनञाप्यपट इत्यादिस्तत्पुरुष एव साधुर्नाव्ययीभावः नञ्तत्पुरुषविधेस्तदपवादकत्वात् अतएव वादि-नामविवाद इत्यादिकः किरणावल्यादौ पुंसि प्रयोगइति तु पक्षधरमिश्राः” ।अत्रायं विशेषः प्रसज्यनञव तत्पुरुषः भावकृदन्त-पदयोग एव घटादिपदयोगे वादिनामविवाद इत्याद्यु-दाहरणेषु भावकृदन्तस्यैवोत्तरपदत्वादिति सम्प्रदायविदः ।नञर्थे तिङर्थान्वयश्च शब्दश० प्र० दर्शितो यथा“न पचत्यपि चैत्रे नायं पूचतीति प्रयोगः स्याद्वर्त्त-मानायाः पाककृतेरभावस्य समयान्तरावच्छेदेन चैत्रेसत्त्वादिति वाच्यं तत्र नञर्थ एव लडर्थवर्त्तमानत्वस्या-न्वयेन वर्त्तमानकालावच्छेद्यस्य पाककृत्यभाववत्त्वस्य चैत्रेषाधेन तदसम्भवात् गुरुमते कलञ्जं भक्षयेदित्यादौ, अस्मन्मतेऽप्यतिरात्रे षोडशिनं गृह्णाति इत्यादौनञ्र्थेऽपि तिङर्थान्वयस्य व्युत्पन्नत्वात् एतेन भाविदिने चैत्रो नापाक्षीदतीतदिने चैत्रो पक्ष्यतीत्यपिस्याद्भाविदिनादौ चैत्रेऽतीतपाककृत्यादेरभावसत्त्वादि-त्यपि समाहितं तत्राप्यतीतादिकालस्य नञर्थ एवान्वये-नातीतादिकालावच्छेद्यत्वविशिष्टस्य पापकृत्यभावस्यभाव्यादिदिनावच्छेदेन चैत्रादावसत्त्वादेव तादृशाप्रयो-गात् अतएव निष्पन्नान्नं पक्ष्यतीत्यादौ निष्प-न्नान्नकर्मकभाविकृतेरप्रसिद्धावपि क्षतिः भविष्यत्का-लावच्छेदेन तादृशान्नकर्मकपाककृतेरभावस्य तत्र बोध्य-त्वादिति युक्तमुत्पश्यामः” किलशब्दोत्तरत्वेऽस्यानु-पृष्टार्थता किलशब्दमुपक्रम्य “न ननु इत्येताभ्यां संप्रयु-ज्यतेऽनुपृष्टे किलैवं ननुकिलैवमिति” निरुक्तकारोक्तेः
Capeller
German
नञ् = 2. (g.)
Stchoupak
French
नञ्
terme de Pāṇini désignant la particule de négation.