| YouTube Channel

नगरादिसन्निवेश (nagarAdisanniveza)

 
वाचस्पत्यम्
Sanskrit
नगरादिसन्निवेश
पु०
१०६ अ० अग्निपु० उक्तप्रकारे नग-रादिस्थापने यथा“ईश्वर उवाच नगरादिकवास्तुञ्च राज्यादिकविवृद्धये ।योजनं योजनार्द्धं वा तदर्द्धं स्थानमाश्रयेत् अभ्यर्च्यवास्तुनगरं प्राकाराद्यन्तु कारयेत् ईशादित्रिंशत्पदकेपूर्वद्वारं सूर्यके गन्धर्वाभ्यां दक्षिणे स्याद्वारुणेपश्चिमे तथा सौम्यद्वारं सौम्यपदे कार्या हट्टाः सुवि-स्तराः येनेभादि सुखं गच्छेत् कुर्याद्द्वारं तु षट्करम् ।छिन्नकर्णं विभिन्नञ्च चन्द्रार्द्ध्वाभं पुरं हि वज्रसूची-मुखं नेष्टं सकृद् द्वित्रिसमागमम् चापाभं वज्रनागाभंपुरारम्भे हि शान्तिकृत् प्रार्च्य विष्णुहरार्कादी-न्नत्वा दद्याद् बलिं बली आग्नेये स्वर्णकर्मारान्पुरख विनिवेशयेत् दक्षिणे नृत्यवृत्तीनां वेश्या-स्त्रीणां गृहाणि नटानाञ्चक्रिकादीनां कैवर्त्तादेश्च नैरृते रथानामायुधानाञ्च कृपणानाञ्च वारुणे ।शौण्डिकाः कर्माधिकृता वायव्ये परिकर्मिणः ।ब्राह्मणा यतयः सिद्धाः पुण्यवन्तश्च चोत्तरे फलान्ना-दिविक्रयिण ईशाने वणिग्जनाः पूर्वतश्च बला-ध्यक्षा आग्नेये विविधं बलम् स्त्रीणामादेशिनो दक्षेकाण्डीरान्नैरृते न्यसेत् पश्चिमे महामात्यान्कोषपालांश्च कारुकान् उत्तरे दण्डनाथांश्च नायक-द्विजसङ्कुलान् पूर्वतः क्षत्रियान् दक्षे वैश्यान् शूद्रांश्चषश्चिमे दिक्षुवैद्यान् वाजिनश्च बलानि चतुर्दिशम् ।पूर्वेण सुरलिङ्गादीन् श्मशानादीनि दक्षिणे पश्चिमेगोधनाद्यञ्च कषिकर्तॄंस्तथोत्तरे न्यसेत् म्लेच्छांश्चकोणेषु ग्रामादिषु तथा स्थितिम् श्रियं वैश्रवणं द्वारिपूर्वे तौ पश्यतां श्रियम् देवादीनां पश्चिमतः पूर्वा-स्यानि नृहाणि हि पूर्वतः पश्चिमास्यानि दक्षिणेचोत्तराननान् नाकेशविष्ण्वादिधाम रक्षार्थंनगरस्य निर्द्दैवतन्तु नगरग्रामदुर्गगृहादिकम् ।भुज्यते तत् पिशाचाद्यैरोगाद्यैः परिभूयते नग-रादि सदैवं हि जयदं भुक्तिमुक्तिदम् पूर्वायां श्रीगृहंप्रोक्तमाग्नेय्यां वै महानसम् शयनं दक्षिणस्यान्तुनैरृत्यामायुधाश्रयम् भोजनं पश्चिमायान्तु वायव्यांधान्यसङ्गहः उत्तरे द्रव्यसंस्थानमैशान्यां देवतागृ-हम् चतुःशालं त्रिशालं वा द्विशालं चैकशालकम् ।चतुःशालगृहाणान्तु शालालिन्दकभेदतः शत-द्वयन्तु जायन्ते पञ्चाशत् पञ्च तेष्वपि त्रिशालानि तुचत्वारि द्विशालानि तु पञ्चधा एकशालानि चत्वारिएकालिन्दानि वच्मि अष्टाविंशदलिन्दानि गृहाणिनगराणि चतुर्भिः सप्तभिश्चैव पञ्चपञ्चाशदेव तु ।षडलिन्दानि विंशच्च अष्टाभिर्विंशदेव हि अष्टा-लिन्दं भवेदेवं नगरादौ गृहादिषु” गृहशब्दे दृश्यम्