नगरं (nagaraM)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Apte 1890
Englishनगरं [नगा इव प्रासादाः संत्यत्र बा° र
cf. P. V. 2. 107 Vārt.] A town, city (opp. ग्राम)
नगरगमनाय मतिं न करोति Ś. 2.
Comp.
अधिकृतः,
अधिपः,
अध्यक्षः {1} the chief magistrate of a town, head police-officer. {2} governor or superintendent of a town.
अभ्याशः
सः the vicinity of a town.
उपांतः a suburb, the skirt of a town.
ओकस् m. a townsman.
काकः ‘a town-crow’, an expression of contempt.
कीर्तनं repeating the name of a god while wandering through a city.
घातः an elephant.
जनः {1} townsfolk. {2} a citizen.
प्रदक्षिणा carrying an idol round a city in procession.
प्रांतः a suburb.
मर्दिन् m. an intoxicated elephant.
मार्गः a principal road, high-way.
रक्षा superintendence or government of a town.
रक्षिन् m. {1} the superintendent of a town. {2} a town-watchman.
स्थः a townsman, citizen.
Wordnet
Sanskrit नगरं, नगरी, पुरम्, पुरी, नगरम्, नगरी, पट्टनम्, पट्टम्, पुरिः
नगरवासिनः।
"पुरवासिनः नेतायाः हत्यायाः विरोधं कुर्वन्ति।"
शब्दकल्पद्रुमः
Sanskritनगरं, नगा इव प्रासादादयः सन्ति यत्र ।(“नगपांसुपाण्डुभ्यश्च ।” ५ । २ । १०७ । इत्यस्यवार्त्तिकोक्त्या रः ।) बहुलोकवासस्थानम् ।शहर इति भाषा । तत्पर्य्यायः । पूः २ पुरी ३पुरिः ४ पुरम् ५ नगरी ६ पत्तनम् ७ पट्टनम् ८पट्टनी ९ पुटभेदनम् १० पटभेदनम् ११ स्थानी-यम् १२ निगमः १३ इत्यमरभरतौ ॥
कट-कम् १४ पट्टम् १५ । इति शब्दरत्नावली ॥
केचित्तु नगरपत्तनस्थानीयानां भेदमाहुः । तत्रपुरादित्रयं पुरे । पत्तनादिद्वयं पत्तने । स्थानी-यादिद्बयं स्थानीये । इति मन्यन्ते । यत्राष्टशत-ग्रामीयव्यवहारस्थानं मध्यवर्त्ति तत् नगरम् ।यत्र राजा तत्परिचारकाश्च तिष्ठन्ति तत् पत्त-नम् । प्राकारादिना दुर्गं योजनविस्तीर्णं नगरंस्थानीयम् । केचित्तु पुरनगरयोरपि भेदमाहुः ।बहुग्रामीयव्यवहारस्थानं पुरम् । तत्र प्रधान-भूतं नगरम् । इति भरतः ॥
* ॥
अथ नगरनिर्म्माणकालः ।“स्थिरराशिगते भानौ चन्द्रे च स्थिरभोदये ।शुद्धे काले दिने चैव नगरं कारयेन्नृपः ॥
” * ॥
तस्य लक्षणं भविष्योत्तरे ।“दीर्घं वा चतुरस्रं वा नगरं कारयेन्नृपः ।तत्त्र्यस्रं वर्त्तुलं वापि कदाचिदपि कारयेत् ॥
दीर्घं पादैकप्रसरञ्चतुरस्रं समोचितम् ।त्रिभिः पादैः समं त्र्यस्रं वर्त्तुलं बलयाकृति ॥
दीर्घं स्याद्दीर्घकालाय सुखसम्पत्तिहेतवे ।चतुरस्रं चतुर्वर्गफलाय पृथिवीभुजः ॥
त्र्यस्रं त्रिशक्तिनाशाय वर्त्तुलं बहुरोगकृत् ।राज्ञः स्वहस्तैर्दशभी राजहस्त उदाहृतः ॥
राजहस्तैश्च दशभी राजदण्ड उदाहृतः ।राजदण्डैश्च दशभी राजच्छत्रमुदाहृतम् ॥
राजच्छत्रैश्च दशभी राजकाण्ड उदाहृतः ।राजकाण्डैश्च दशभी राजपूरुष उच्यते ॥
राजधानी तु कथिता दशभी राजपूरुषैः ।राजधानी दशगुणा राजक्षेत्रमुदाहृतम् ॥
सप्तैव परिमाणानि प्रोक्तानि पुरपत्तने ।भयत्राभोगसम्पत्तिमर्त्त्यकीर्त्तिसुखार्थिनाम् ।राजक्षेत्रेण नृपतिः पूरपत्तनमारभेत् ॥
लक्ष्मीर्जयः क्षमा सौख्यं पञ्चत्वं भङ्ग एकता ।समृद्धिवित्तं नाशश्च मङ्गलञ्च बलं क्षयः ।साम्राज्यं भोगसम्पत्तिरिति षोडश कीर्त्तिताः ॥
यथार्थसंज्ञा नगरा मुनिना तत्त्ववेदिना ॥
”इति युक्तिकल्पतरुः ॥
* ॥
अपि च ।“नृपावासः पुरी प्रोक्ता विशाम्पुरमपीष्यते ।एकतो यत्र तु ग्रामो नगरञ्चैकतः स्थितम् ॥
मिश्रन्तु खर्व्वटं नाम नदीगिरिसमाश्रयम् ।विप्राश्च विप्रभृत्याश्च यत्र चैव वसन्ति हि ॥
स तु ग्राम इति प्रोक्तः शूद्राणां वास एव च ।पण्यक्रियादिनिपुणैश्चातुर्वर्ण्यजनैर्युतम् ॥
अनेकजातिसम्बन्धं नैकशिल्पसमाकुलम् ।सर्व्वदैवतसम्बन्धं नगरन्त्वभिधीयते ॥
”इति विष्णुपुराणटीकार्या श्रीधरस्वामिधृतभृगु-वचनम् ॥
* ॥
अन्यच्च ।“नगरं सर्व्वतोभद्रं कर्त्तव्यं रोधकं हि वा ।स्वस्तिकं मध्यगं कार्य्यं कुमारीपुरमेव वा ॥
चतुष्पथचतुर्युक्तं सर्व्वकामसुखावहम् ।छिन्नकर्णं विनासञ्च दुःस्थितं कृशदुर्ब्बलम् ॥
नगरं न प्रशंसन्ति गर्त्तविद्धं विभेदितम् ।अग्रतः स्वल्पप्रासादं छिन्नघ्राणं विदुर्बुधाः ॥
द्बिमुखं कर्णहीनन्तु कृशमध्यं कृशं विदुः ।दुःस्थितं निम्नयाम्यन्तु नैरृतं धनदुर्ब्बलम् ॥
सौम्यं सर्व्वसुखाह्लादपूरितं वारुणं वशम् ।याम्यमायुःप्रदं पूर्णनगरं प्रीतिवर्द्धनम् ॥
ईशवासवसंपूर्णं सर्व्वारोग्यसुखप्रदम् ।मध्यञ्चतुष्पथोपेतं न च तं पीडयेत् क्वचित् ॥
ब्रह्मस्थानं हि तं विप्र शिवस्तत्र सदा स्थितः ।चतुर्व्विंशतिनाड्यस्तु हस्तान्यष्टशतं परम् ॥
अत्र मध्यं प्रशंसन्ति ह्रस्वोत्कृष्टविवर्ज्जितम् ।अथ किष्कुशतान्यष्टौ प्राहुर्मुख्यं निवेशनम् ॥
नगरार्द्धञ्च विष्कम्भं खेटं ग्रामं ततोऽर्द्धतः ।नगराद्योजनं खेटं खेटाद्ग्रामोऽर्द्धयोजनः ॥
द्विक्रोशं परमा सीमा क्षेत्रसीमा चतुर्धनुः ।त्रिंशद्धनूंषि विस्तीर्णो देशो मार्गस्तु तैः कृतः ॥
विंशद्धनुर्ग्राममार्गः सीमामार्गो दशैव तु ।धनूंषि दश विस्तीर्णः श्रीमान्राजपथः कृतः ॥
नृवाजिरथनागानामसम्बाधः सुसञ्चरः ।धनूंषि चैव चत्वारि शाखारथ्यास्तु निर्म्मिताः ॥
त्रिकराश्चोपरथ्यास्तु द्विकराप्युपरथ्यिका ।जङ्घापथश्चतुष्पादस्त्रिपादस्य गृहान्तरम् ॥
वृतीपादस्त्वर्द्धपादः प्राग्वंशपादकः स्मृतः ॥
”इति देवीपुराणम् ॥
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
