नखं (nakhaM)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दकल्पद्रुमः
Sanskritनखं, (नह्यते इव शरीरे । नह बन्धे +“नहेर्हलोपश्च ।” उणां ५ । २३ । इति खःहलोपश्च ।) अङ्गुलीकण्टकः । नह इतिहिन्दी भाषा । तत्तु उपधातुविशेषः गर्भस्थ-बालकस्य षष्ठमासे भवति । इति सुखबोधः ॥
तत्पर्य्यायः । पुनर्भवः २ कररुहः ३ नखरः ४इत्यमरः । २ । ६ । ८३ ॥
कामाङ्कुशः ५ करजः६ पाणिजः ७ अङ्गुलीसम्भूतः ८ पुनर्नवः ९ ।इति राजनिर्घण्टः ॥
कराग्रजः १० करकण्टकः११ स्मराङ्कुशः १२ रतिरथः १३ करचन्द्रः १४कराङ्कुशः १५ । इति शब्दरत्नावली ॥
* ॥
रतिक्रीडायां नखाघातस्थानानि यथा, --“नखाघातः प्रदातव्यो यथास्थानानि कर्म्मसु ।पार्श्वयोः स्तनयोश्चैव ऊरौ चैव नितम्बके ॥
कक्षस्थले च कर्णान्ते कपाले बाहुमूलके ।ग्रीवायां कण्ठदेशे च नखाघातं समाचरेत् ॥
तथा सर्व्वशरीरेषु नखं दद्यात् शनैः शनैः ॥
”इति कामशास्त्रम् ॥
“न नखैर्विलिखेद्भूमिं गाञ्च सद्वेशयेन्नहि ।न स्वाङ्गे नखवाद्यं वै कुर्य्यान्नाञ्जलिना पिबेत् ॥
”इति कूर्म्मे उपविभागे १५ अध्यायः ॥
नखं, (नखमिव आकृतिरस्त्यस्येति ।अच् ।) नखीनामगन्धद्रव्यम् । नखी इतिख्यातः । तत्पर्य्यायः । शुक्तिः २ शङ्खः ३ खुरः४ कोलदलम् ५ । इत्यमरः । २ । ४ । १३० ॥
करजाख्यः ६ अश्वखुरः ७ नखः ८ व्याघ्रनखः९ नखी १० ।“द्विधा शङ्खनखाख्योऽन्यः शुक्त्याख्यो वदरीच्छदः ।”इति रत्नमालायाम् । १४४ ॥
कररुहः ११ सिम्बी १२ शफः १३ चलः १४कोशी १५ करजः १६ हनुः १७ नागहनुः १८पाणिजः १९ वदरीपत्रः २० रूप्यः २१ पण्य-विलासिनी २२ सन्धिनालः २३ पाणिरुहः २४ ।इति राजनिर्घण्ठः ॥
व्याघ्रायुधम् २५ चक्रकार-कम् २६ शङ्खनखः २७ नखरी २८ । इति शब्द-रत्नावली ॥
अपि च । अथ नखनखीगन्ध-द्रव्यम् ।“नखं व्याघ्रनखं व्याघ्रायुधं तञ्चक्रकारकम् ।नखं स्वल्पं नखी प्रीक्ता हनुर्हट्टविलासिनी ॥
नखद्वयं ग्रहश्लेष्मवातास्रज्वरकुष्ठहृत् ।लघूष्णं शुक्रलं वर्ण्यं स्वादुव्रणविषापहम् ॥
अलक्ष्मीमुखदौर्गन्ध्यं हृत्पाकरसयोः कटुः ॥
”इति भावप्रकाशः ॥
स्वल्पनखस्य पर्य्यायः । नखी १ हनुः २ हट्ट-विलासिनी ३ । तयोर्गुणाः । ग्रहश्लेष्मवातास्र-ज्वरकुष्ठनाशित्वम् । लघुत्वम् । उष्णत्वम् । शुक्र-लत्वम् । वर्ण्यत्वम् । स्वादुत्वम् । व्रणविषालक्ष्मी-मुखदौर्गन्ध्यनाशित्वम् । पाकरसयोः कटुत्वञ्च ।इति भावप्रकाशः ॥
कण्डुभूतविनाशित्वम् ।इति राजनिर्घण्टः ॥
रक्षोघ्नत्वम् । इति राज-वल्लभः ॥
* ॥
“शैलरुहं व्याघ्रनखं हनुहट्टविलासिनी ।शुषिराञ्जनकेशी च कपोताङ्घ्रिर्नली खुरः ॥
स्वल्पपत्रस्त्वसौ शुक्तिर्नखरी वदरीच्छदा ।महांस्त्वसौ शङ्खनखः शङ्खाख्यो गन्धसारणः ॥
”इति भरतधृतवाचस्पतिः ॥
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
