| YouTube Channel

नक्षत्रव्रत (nakSatravrata)

 
वाचस्पत्यम्
Sanskrit
नक्षत्रव्रत
न०
नक्षत्रनिमित्तं व्रतम् शा० त० नक्षत्रनिमित्रेव्रतभेदे तत्र मामान्यतः कालनिर्णयः ति० त० उक्तो यथा“नक्षत्रद्वेधे तु बौधायनमार्कण्डेयौ “तन्नक्षत्रमहोरात्रंयस्मिन्नस्तं गतोरविः यस्मिन्नुदेति सविता तन्नक्षत्रंटिनं स्मृतम् पूर्वार्द्धमहोरात्रसाध्योपवासनक्तैकभक्तेषु“तत्रैवोपबसदृक्षं यन्निशीथादधोभवेत् उपवासे यदृक्षंस्यात् तद्धि नक्तैकभक्तयोः” इति स्कन्दपुराणात् निशी-थादध इत्यनेन अर्द्धरामपूर्वकालत्वेन सूर्य्यास्तमयकाल-स्यापि लाभात् “उपोषितष्यं नक्षत्रं येनास्तं यातिसास्करः यत्र वा युज्यते राम! निशीथे शशिना सह”हति विष्णुधर्मोत्तराच्च उपवासवन्नक्तव्रतादीनामहोरा-त्रसाध्यता अहोरात्रसाध्यभोजनद्वयस्यैकतरपरित्याग-सहितकालविशेषनियामकत्वात् यस्मिन्नुदेतीति तुदिवसकर्त्तव्यस्नानदानादाविति बोध्यं, पितृकार्येऽपि शु-क्लकृष्णपक्षाभ्यां व्यवस्थामाह बौधायनः “सा तिथिस्तच्चनक्षत्रं यस्मिन्नभ्युदितो रविः वर्द्धमानस्य पक्षस्य हीने-त्वस्तमयं प्रति” हीने चन्द्रस्य हीनत्वात् कृष्णपक्षे बर्द्ध-मानस्य चन्द्रस्य बर्द्धमानत्वेन शुक्लपक्षस्य जालमाधवी-योऽप्येवम्” ति० त० रघु० ।तदुव्रतानि हेमा० व्र० भविष्यपु० उक्तानि यथा“इत्येते कथिताः कृष्ण! तिथियोगा मया तव नक्षत्र-देवताः सर्वाः नक्षत्रेषु व्यवस्थिताः इष्टान् कामान्प्रयच्छन्ति यथास्थानं सुरेश्वर! चन्द्रमा यत्र नक्षत्रेयदा समधितिष्ठति उक्तस्तु देवयज्ञस्तु तदा सफलीभवेत् देवताश्च प्रवक्ष्यामि नक्षत्राणां यथातथम् ।नक्षत्राणि सर्वाणि यज्ञञ्चैव पृथक् पृथक् अश्चिन्या-मश्विनाविष्ट्वा दीर्घायुर्जायते वरः व्याधिभिर्मुच्यतेक्षिपं योऽत्यर्थं व्याधिपीडितः भरण्यां यमराडिष्टःकृतमैरसितैः शुभैः तथा गन्धादिभिः शुभ्रैरपमृत्युंविमोचयेत् अनलः कृत्तिकायान्तु ऋद्धिं संपूजितःपराम् रक्तमाल्यादिभिर्दद्याद्घृतहोमेन ध्रुवम् ।प्रजाः प्रजापतिः प्रीत इष्टो दद्यात्पशूंस्तथा रो-हिण्यां देवशार्दूल! गोजन्महा जगत्पते! मृगशीर्षेतथा सोमं जातिमारोग्यमेव आर्द्रायान्तु शिवंपूज्य पशून् विजयमेव सितैः पद्मादिभिर्दिव्यैर्देवत्वंपयसा वै पुत्रान् पुनर्वसौ दद्याच्चरुणा तर्प्यिता-ऽदितिः तिष्ये वृहस्पतिर्बुद्धिं विपुलं सुखमेव तु ।भोगान् गन्धादिभिर्नागा अश्लेषायां प्रपूजिताः तर्पि-ताश्च प्रयच्छन्ति भक्षाद्यैर्मधुरैः शुभैः मधासु पितरःपुष्टिं वृतपायसतर्पिताः पूर्वायां ११ विजय दद्याद्भगोदेवः सुतर्पितः भक्त्या प्रपूजितो दद्यादुत्तरायां १२ तथा-र्य्यषा भर्त्तारमीप्सितं नार्य्याः पुंसश्च प्ररयोषितम् ।नीरोगत्वं तथायुष्यं सम्पद चारुरूपताम् पुष्प-वस्त्रार्चितो हस्ते दद्यात्तेजोनिधिस्तथा चित्रासुपूजितन्त्वष्टा दद्यादारोग्यमेव स्वात्यां संपूजितोवायुः पुत्रानिष्टान् प्रयच्छति इन्द्राग्नी तु विशाखायांपीतरक्तैः प्रपूज्य धनं राज्यञ्च लज्ज्वेह तेजखीनिवसेत्सदा रत्नैर्मित्रमनूराधास्वेवं संपूज्य भक्तितः ।प्रियो जनानां सर्वेषां चिरञ्जीवति सर्वदा ज्येष्ठायापूर्ववत्त्विन्द्रमिष्ट्वा पुष्टिमवाप्नुयात् गुणैः सर्वैस्तु संपूर्णःकर्मणा वचनेन मूले निरृतिमिष्ट्वा भक्ष्यैस्तुपललादिभिः पूर्ववत् फलमाप्नोति स्वस्थाने ध्रुवोभवेत् अथ इष्ट्वा जले २० चैतैर्हुत्वा तत्रैव पूर्ववत् ।सन्तापान्मुच्यते क्षिप्रं शारीरान्मानसात्तथा आषाडासुतथा विश्वं विरिञ्च्युत्तरयोगनः संपूज्य श्रियमाप्नोतिपरं विजयमेव तु श्रवणे पूजितो विष्णुः सर्वात्कामान् प्रयच्छति धनिष्ठासु वसूनिष्ट्वा मयं प्राप्नु-यात् कचित् महतोऽपि भयात्तीर्णो गन्धपुष्पादिभिःशुभैः वरुणं शतभिषास्वर्च्य व्याधिभिर्मुच्यते नरः ।अजं भाद्रपदायान्तु २५ शुबस्फटिकसन्निभम् संपूज्य मुक्ति-माप्नोति भात्र कार्य्या विचारणा उत्तराया २६ महिर्ब्रध्नंपरां शान्तिमवाप्नुयात् रेवत्यां पूजितः पूषा ददातिविविधान् पशून् सितैः पुष्यैस्तथा दीपैर्धूपैर्विजय-बर्द्धनैः एते वै समाख्याता यज्ञाः संक्षेपतो मया ।नक्षत्रदेवतानां हि साधकानां हिताय वं तस्माहित्ता-नुसारेण भवन्ति फलदायकाः गन्तुमिच्छेद्यदान्यत्रक्रियापारस्य एव नक्षत्रदेवतायज्ञं कृत्वादौसर्वमाचरेत् एवं कृते हि तत्सर्वं यात्राफलमवाप्नु-यात् क्रियाफलन्तु संपूर्णमित्युक्तं भानुना स्वयम् ।”