| YouTube Channel

नक्षत्रपुरुषः (nakSatrapuruSaH)

 
शब्दकल्पद्रुमः
Sanskrit
नक्षत्रपुरुषः,
पुं,
(नक्षत्रैः पुरुष इव ।) व्रत-विशेषः यथा, --“श्रूयतां कथयिष्यामि नक्षत्रपुरुषव्रतम् ।नक्षत्राङ्गाणि देवस्य यानि यानीह नारद !
मूलर्क्षं चरणौ विष्णोर्जङ्घे द्वे रोहिणी स्थिता ।द्वे जानुनी तथाश्विन्यौ संस्थिते रूपधारिणः
आषाढे द्वे तथा चोरू गुह्यस्थं फल्गुनीद्वयम् ।कटिस्थाः कृत्तिकाश्चैव वासुदेवस्य संस्थिताः
प्रोष्ठपद्यद्वयं पार्श्वं कुक्षिभ्यां रेवती स्थिता ।उरःसंस्था त्वनुराधा श्रविष्ठा पृष्ठसंस्थिता
विशाखा भुजयोर्हस्तः करद्बयमुदाहृतम् ।पुनर्व्वसुरथाङ्गुल्यो नखाः सर्व्वं तथोच्यते
ग्रीवास्थिता तथा ज्येष्ठा श्रवणः कर्णयोः स्थितः ।मुखसंस्थस्तथा पुष्यः स्वातिर्द्दन्ताः प्रकीर्त्तिताः
हनू द्वे वारुणश्चोक्तो नासा पैत्र्यमुदाहृतम् ।प्राजापत्यञ्च नेत्राभ्यां रूपद्याम्नः प्रतिष्ठितम्
शिरो रौद्रस्तथा चैव नक्षत्राङ्गमिदं हरेः ।विधानं संप्रवक्ष्यामि यथायोगेन नारद !
संपूजितो हरिः कामान् विदधाति यथेप्सितान् ।चैत्रे मास्यसिताष्टम्यां यदा मूलगतः शशी
भगवन्तं सह लक्ष्म्या पूजयेच्च विधानतः ।नक्षत्रसन्निधौ दद्याद्बिप्रेन्द्राय भोजनम्
जानुनी चाश्विनीयोगे पूजयेदथ भक्तितः ।दोहदे हविष्यान्नं पूर्व्ववद्द्बिजभोजनम्
आषाढाभ्यां तथा द्बाभ्यां द्वावूरू पूजयेद्बुधः ।सलिलं शिशिरं तत्र दोहदे प्रकीर्त्तितम्
फल्गुनीद्वितये गुह्यं पूजनीयं विचक्षणः ।दोहदे पयो गव्यं देयञ्च द्विजभोजनम्
कृत्तिकासु कटिः पूज्या सोपहारैर्ज्जितेन्द्रियैः ।देयञ्च दोहदे विष्णोः सुगन्धिकुसुमोदकम्
पार्श्वे भाद्रपदायुग्मे पूजयित्वा विधानतः ।गुडं सशालिकं दद्याद्दोहदे देवप्रीतिदम्
द्बे कुक्षी रेवतीयोगे दोहदे शुद्धमोदकम् ।अनुराधासु जठरं कुलत्थांस्तत्र दोहदे
श्रविष्ठायां तथा पृष्ठं शालिभक्तञ्च दोहदे ।पुष्ये मुखं पूजयेत दोहदे घृतपायसम्
स्वातियोगे दशनान् दोहदे तिलशक्तुनी ।भुजयुग्मं विशाखासु दोहदे परमोदनम्
हस्ते हस्तौ तथा पूज्यौ यावकं दोहदे स्मृतम् ।पुनर्व्वसावङ्गुलीश्च पटोलं तत्र दोहदे
दातव्यं केशवप्रीत्यै ब्राह्मणस्य भोजनम् ।हनू शतभिषायां वै पूजयेत्तु प्रयत्नतः
प्रियङ्गुरक्तशाल्यन्नं दोहदञ्च मधुद्विषः ।मघासु नासिका पूज्या मधु दद्याच्च भोजनम्मृगोत्तमाङ्गे नयने मृगमांसञ्च दोहदे ।चित्रायोगे ललाटञ्च दोहदे चारु भोजनम्
भरणीषु शिरः पूज्यं चारु भक्तञ्च दोहदे ।सम्पूजनीया विद्बद्भिरार्द्रायोगे शिरोरुहाः
विप्रांश्च भोजयेद्भक्त्या दोहदे गुडार्द्रकम् ।नक्षत्रयोगेष्वेतेषु संपूज्य जगतः पतिम्
ततस्तु दक्षिणां दद्यात् स्त्रीपुंसोश्चारु वाससम्छत्रोपानद्युगञ्चैव सप्त धान्यानि काञ्चनम्
घृतपात्रञ्च गां दोग्ध्रीं ब्राह्मणाय निवेदयेत् ।प्रतिनक्षत्रयोगेन पूजनीया द्विजातयः
नक्षत्रज्ञाय विप्राय पृथग्दद्याच्च दक्षिणाम् ।नक्षत्रपुरुषाख्यं हि व्रतानां व्रतमुत्तमम्
एवं विधानतो ब्रह्मन् ! नक्षत्राङ्गो जनार्द्दनः ।पूजितो रूपधारी यैस्तैः प्राप्ता सुकामिता
एतत्तवोक्तं परमं पवित्रंधन्यं यशस्यं शुभरूपदायि ।नक्षत्रपुंसः परमं विधानंशृणुष्व पुण्यामिह तीर्थयात्राम्
”इति वामनपुराणे ७७ अध्यायः