नक्षत्रदान (nakSatradAna)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
वाचस्पत्यम्
Sanskritनक्षत्रदान नक्षत्रभेदे दानम् । नक्षत्रभेदे द्रव्यभेदस्यदाने तच्च हेमा० दा० उक्तं यथा भारते“नारद उवाच कृत्तिकासु महाभाग! पायसेन समर्पिषा ।सन्तर्प्य ब्राह्मणान् साधून् लोकान् प्राप्नोत्यनुत्तमान् ।रोहिण्यां पाण्डवश्रेष्ठ! माषैरत्नेन सर्पिषा । पयोनु-पानाद्दातव्यमानृण्यार्थं द्विजातये । दोग्ध्रीं सवत्सान्तुनरो नक्षत्रे सोमदैवते ५ । दत्त्वादित्यविमानस्थः स्वर्गंप्राप्नोत्यनुत्तमम्” सोमदैवतं नक्षत्रं, मृगशीर्षम् । “आर्द्रायांकृशरं दत्त्वा तिलमिश्रं समाहितः । नरस्तरतिदुर्गाणि क्षुरधारांश्च पर्वतान् । पूपं पुनर्वसौ दत्त्वाघृतपूर्णं सुपाचितम् । यशस्वी रूपसम्पन्नो बह्वन्नेजायते कुले । पुष्ये तु काञ्चनं दत्त्वा कृतं चाकृतमेवच । अनालोकेषु लोकेसु सोमवत् स विराजते” । कृतंघटितम् अकृतमघटितम् । “अश्लेषासु तथा रौप्यंवृषभं यः प्रयच्छति । स सर्वमयनिर्मुक्तः शास्त्रवानभि-जायते । मघासु तिलपूर्णानि वर्द्धमानानि मानवः ।प्रदाय पशुमांश्चैव पुत्रवांश्च प्रजायते । फाल्गुनीपूर्वसमयेब्राह्मणानामुपोषितः । मक्ष्यान् फाणितसंयुक्तान् दत्त्वासौभाग्यमृच्छति । घृतक्षीरसमायुक्तं विधिवत् षष्टि-फौदनम् । उत्तराविषये दत्त्वा स्वर्गलोके महीयते ।यद्वा प्रदीयते दानमुत्तराविषये नरैः । सदा फलमन-न्तञ्च भवतीह विनिश्चयः” । फाल्गुनीपूर्वसमये, पूर्व-फल्गुनीसमय इत्यर्थः । फाणितं गुडविकारः उत्तरा-विषये उत्तरफाल्गुनीसमय इत्यर्थः । “हस्ते हस्ति-रधं दत्त्वा चतुर्युक्तसुपोषितः । नरस्तरति दुर्गाणिक्षुरधारांश्च पर्वतान्” । चतुर्युक्तं, चतुर्भिर्हस्तिभिर्युक्तम् ।“चित्रायां वृषभं दत्त्वा पुण्याङ्गाङ्गां च भारत! । चर-त्यप्चरसां लोके रमते नन्दने वने” । पुण्याङ्गाङ्गामितिशुभलक्षणलक्षितशरीरां धेनुमित्यर्थः । “स्वातीष्यथ धनंदत्त्वा यदिष्टतममात्मनः । प्राप्नोति लोकान् सुशुभा-निह चैव महद्यशः । विशाखायामनड्वाहं धेनुं दत्त्वाथदुग्धदाम् । सप्रासङ्गञ्च शकटं सधान्यं वस्त्रसंयुतम्” ।प्रासङ्गो युगान्तरणाष्ठम् । “पितॄन् देवांश्च प्रीणाति प्रेत्यचानन्त्ययक्षुते । न च दुर्गाण्यवाप्नोति स्वर्गलोकं चगच्छति । दत्त्वा यधोक्तं विप्रेभ्यो वृत्तिमिष्टा स विन्दति ।नारकीयांश्च स क्लेक्षान्नाप्नोतीति विनिश्चयः । अनुराधासुप्रावारवस्त्रीत्तरमुपोषितः । दत्त्वा युगशतं चापि नरःस्वर्गे महीयते” । प्रावारः प्रवारपटः, वस्त्रोत्तरंपरिधानवस्त्रादिकम् । “कालशाकन्तु विप्रेभ्यो दत्त्वामर्त्त्यः समूलकम् । ज्येष्ठायां मृत्युमुत्साद्य गति-मिष्टाञ्च गच्छति । मूले मूलफलं दत्त्वा ब्राह्मणेभ्यःसमाहितः । स्वपितॄन् प्रीणयेदेव गतिमिष्टाञ्च गच्छति ।अथ पूर्वास्वाषाढासु दधिपात्राण्युपोषितः । कुलवृत्तोप-सम्पन्ने व्राह्मणे वेदपारगे । प्रदाय जायते श्रेष्ठकुलेबहुगुणाकुले । पुत्रपौत्रैः परिवृतः पशुमान् धनवां-स्तथा । उदमन्यं ससर्पिष्कं प्रभूतमधुफाणितम् ।दत्त्वीत्तरास्यापाढासु सर्वलोकानवाप्नुयात्” । उदमन्यःउदकमिश्राः सक्तवः । फाणितं दुग्धखण्डविकारः ।“दुग्धन्त्यभिजितो योगे दत्त्वा मधुवृतप्लुतम् । धर्मनिष्ठोमनीषिभ्यः स्वर्गलोके महीयते” । अयमर्थः । उत्तरा-षाढानक्षत्रचतुर्थपादः श्रवणस्याद्यघटिकाचतुष्टयमभि-जिद्योगः । “श्रवणे कम्बलं दत्त्वा वस्त्रान्तरितमेव च ।श्वेतेन याति यानेन स्वर्गलोकानसंवृतान् । गोप्रयुक्तंधनिष्ठसु यानं दत्त्वा समाहितः । वस्त्रमस्मिन्नवं दत्त्वाप्रेत्य राज्यं प्रपद्यते । गन्धं शतभिषायोगे दत्त्वासागुरुचन्दनम् । प्राप्नोत्यप्सरसां लोकं प्रेत्य गन्धांञ्चशाश्वतान् । पूर्वभाष्ट्रपदायोगे राजमाषान् प्रदाय वै ।सर्वभक्ष्यफलोपेतः स वै प्रेत्य सुखी भवेत् । औरभ्र-मुत्तरायोगे यस्तु मांसं प्रयच्छति । पितॄन् प्रीणातिसकलान् प्रेत्यानन्त्यं रुमश्नुते” । उरभ्रो, मेषस्तस्यमांसमौरभ्रम् । “कांस्योपदोहनीं धेनुं रेवत्यां यः प्रय-च्छति । स प्रैत्य कामानादाय दातारमुपतिष्ठति ।रथमश्वसमायुक्तं दत्त्वाश्विन्यां नरोत्तभः । हस्त्यश्वरथ-सम्पन्ने वर्चखी जायते कुले । भरणीषु द्विजातिभ्य-स्तिलधेनुं प्रदाय वै । गाः प्रसूताश्च प्राप्नोति नरः प्रेत्ययशस्तथा । भीष्म उवाच । इत्येष लक्षणोद्देशः प्रोक्तोनक्षत्रयोगतः । देवक्या नारदेनेह स्तुषाभ्यः साऽव्रवीदि-दम्” । विष्णुधर्मोत्तरे “कृत्तिकासु सुवर्णस्य दानं बहु-फलं स्मृतम् । रक्तवस्त्रस्य रोहिण्यां सौम्ये ५ भे लवणस्यच । कृशरस्य तथार्द्रायामादित्ये ७ रजतस्य च । घृतस्यतु तथा पुष्ये गन्धानामथ सर्पभे ९ । तिलानाञ्च तथापैत्र्ये १० प्रियगोर्भगदैवते ११ । आर्यम्णे १२ चाज्यपूपानांसावित्रे १३ पायसस्य तु । चित्रायां चित्रवस्त्राणां सक्तूनांवायुदैवते १५ । ऐन्द्राग्न्ये १६ चैव लोहानां मैत्रे १७ माल्य-फलस्य च । छत्रस्य च तथा शाक्रे १८ मले मूलफलस्य च ।हेम्नश्च मधुयुक्तस्य दानमाप्ये २० महाफलम् । विश्वेश्वरे २२ऽन्नपानस्य श्रवणे वसनस्य च । धान्यस्य वासवे २३ विप्राबारुणे २४ चौषधस्य च । आजे २५ पुराणवीजानां सस्यानांतदनन्तरे २६ । गोरसानां तथा पौष्णे २७ स्रानानामथ-याश्विने । तिलानाञ्च सदा दानं भरणीषु महाफलम्” ।
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
