| YouTube Channel

नक्षत्रजात (nakSatrajAta)

 
वाचस्पत्यम्
Sanskrit
नक्षत्रजात
न०
नक्षत्रे तद्विशेषे जातं जन्म वृ० सं० उक्तेनक्षत्रविशेषे जन्मनि तत्सूचितफलं तत्रोक्तं यथा“प्रियभूषणः सुरूपः सुमगो दक्षोऽश्विनीषु मतिमांश्च ।कृतनिश्चयसत्यारुग् दक्षः सुखितश्च भरणीषु बहुभुक्परदाररतस्तेजखी कृत्तिकासु विख्यातः रोहिण्यांसत्यशुचिः प्रियंवदः स्थिरसुरूपश्च चपलश्चतुरो भीरुःषटुरुत्माही धनी मृगे भोगी शठगर्वितचण्डकृतघ्न-हिंस्रपापश्च रौद्रर्क्षे दान्तः सुखी सुशीलो दुर्मेधारोगभाक् पिपासुश्च अल्पेन सन्तुष्टः पुनर्वसौजायते मनुजः शान्तात्मा मुभनः पण्डितो धनीधर्मसंश्रितः पुष्ये शठसर्वभक्षपापः कृतघ्नधूर्तश्चभौजङ्गे बहुभृत्यधनो भोगी सुरपितृभक्तो महोद्यमःपित्र्ये १० प्रियवाग्दाता द्युतिमान् अढनो नृपसेवकोभाग्ये ११ सभगो विद्याप्नधनो भोगी सुखभाग् द्वितीय-फल्गुन्याम् उत्साही धृष्टः पानपोऽघृणी तस्करोहस्ते चित्राम्बरमाल्यधरः सुलोचनाङ्गश्च भवतिचित्रायाम् दान्तो बणिक् कृपालुः प्रियवाग् धर्माश्रितःखातौ ईर्ष्युर्लुब्धो द्युतिमान् वचनपटुः कलह-कृद्विशाखासु आट्यो विदेशवासी क्षुधालुरटनोऽनुरा-धासु ज्येष्ठासु बहुमित्रः सन्तुष्टो धर्मकृत् प्रचुर-कोपः मूले मानी घनवान् सुखी हिंस्रः स्थिरोभोगी इष्टानन्दकलत्रो वीरो दृढसौहृदश्च जलदेवे २० ।वैश्वे २१ विनीतधार्मिको बहुमित्रकृतज्ञसुभगश्च श्रीभा-श्छ्रवणे श्रुतवान् उदारदारो धनान्वितः ख्यातः दाता-ढ्यशूरगीतप्रियो धनिष्ठासु धनलुब्धः स्फुटवागव्यसनीरिपुहा साहसिकः शतभिषासु दुर्ग्राह्यः भद्रपदासू-द्विग्नः स्त्रीजितधनपटुर्दाता वक्ता सुखी प्रजावान्जितशत्रुर्धार्मिको द्वितीयासु २६ सम्पूर्णाङ्गः सुभगःशूरशुचिरर्थवान् पौष्णे २७”