| YouTube Channel

नक्षत्रचक्रं (nakSatracakraM)

 
शब्दकल्पद्रुमः
Sanskrit
नक्षत्रचक्रं,
क्ली,
(नक्षत्राणां चक्रं यत्र ।) मन्त्र-ग्रहणोक्तषट्चक्रान्तर्गतचक्रविशेषः तथा चबृहच्छ्रीक्रमे ।“उत्तराद्दक्षिणाग्रान्तु रेखां कुर्य्याच्चतुष्टयीम् ।दश रेखाः पश्चिमाग्राः कर्त्तव्या वीरवन्दिते !
अकारादिक्षकारान्तान् द्विचन्द्रवह्निवेदकान् ।भूमीन्दुनेत्रचन्द्रांश्च अश्लेषान्तं खगौ प्रिये !
द्विभूनेत्रनेत्रयुग्मांश्चेन्दुनेत्राग्निचन्द्रकान् ।मघादिज्येष्ठपर्य्यन्तं द्बितीयं नवतारकम्
वह्निभूमीन्दुचन्द्रांश्च युग्मेन्दुनेत्रवह्निकान् ।वेदेन भेदिता वर्णा रेवत्यंशगताः क्रमात्
”निबन्धे ।“पूर्व्वोत्तरात्रयञ्चैव भरण्यार्द्रा रोहिणी ।इमानि मानुषाण्याहुर्नक्षत्राणि मनीषिणः
ज्येष्ठा शतभिषामूलाधनिष्ठाश्लेषकृत्तिकाः ।चित्रामघाविशाखाः स्युस्तारा राक्षसदेवताः
अश्विनी रेवती पुष्यः स्वाती हस्तः पुनर्व्वसुः ।अनुराधा मृगशिरः श्रवणा देवतारकाः
”तथा ।“स्वजातौ परमा प्रीतिर्म्मध्यमा भिन्नजातिषु ।रक्षोमानुषयोर्न्नाशो वैरं दानवदेवयोः
”गणापवादमाह गवाक्षतन्त्रे ।“प्रणवस्त्र्यक्षरी माया व्योमव्यापी षडक्षरः ।प्रासादो बहुरूपी सप्त साधारणाः स्मृताः
”शारदायाम् ।“जन्म सम्पत् विपत् क्षेमः प्रत्यरिः साधको वधः ।मित्रं परममित्रञ्च जन्मादीनि पुनः पुनः
”जन्मत्रिपञ्चसप्तानि वर्ज्जनीयानि नक्षत्राणि ।तथा राघवभट्टः ।“रसाष्टनवभद्राणि युगयुग्मगतान्यपि ।इतराणि भद्राणि नक्षत्राणि
स्वनक्षत्रादेव-नक्षत्रं गणनीयम् तदज्ञाने स्वनामाद्यक्षर-सम्बन्धिनक्षत्राद्गणनीयम् तथा ।“प्रादक्षिण्येन गणयेत् साधकाद्यक्षरात् सुधीः
”इति तन्त्रसारः