| YouTube Channel

नक्षत्रगण (nakSatragaNa)

 
Shabdartha Kaustubha
Kannada
नक्षत्रगण
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಕ್ಷಿಪ್ರ ಮೊದಲಾದ ಸಂಜ್ಞೆಗಳುಳ್ಳ ನಕ್ಷತ್ರಗಳಸಮೂಹ
वाचस्पत्यम्
Sanskrit
नक्षत्रगण
पु०
नक्षत्रघटितो गणः समुदायभेदः दृ० सं उक्तेनक्षत्रविशेषाणां समूहात्मके गणभेदे तत्र गणभेदस्यसंज्ञाभेदाःकार्यविशेषोपयोगिसं वृ० सं० ९८ अ० उक्तं यथा“त्रीण्युत्तराणि तेषां रोहिण्यश्च ध्रुवाणि तैः कुर्यात् ।अभिषेकशान्तितरुनगरधर्मवीजध्रुवारम्भान् मूलशिव-शक्रभुजगाधिवानि तीक्ष्णानि तेषु सिद्ध्यन्ति अभि-धातमन्त्रवेतालबन्धवधभेदसम्बन्धाः उग्राणि पूर्वभ-रणीपित्र्याण्युत्सादनाशशाठ्येषु योज्यानि बन्ध-विषदहनशस्त्रघातादिषु सिद्ध्यै लघु हस्ताश्विन-पुष्याः पण्यरतिज्ञानभूषणकलासु शिल्पौषधयाना-दिषु सिद्धिकराणि प्रदिष्टानि मृदुवर्ग स्त्वनुराधाचि-त्रापौष्णैन्दवानि मित्रार्थे सुरतबिधिवस्त्रभूषणमङ्गल-गीतेषु हितानि हौतभुजं सविशाखं मृदुतीक्ष्णं ६तद्विमिश्रफलकारि” त० तारासङ्घे