| YouTube Channel

नक्तञ्चरः (naktaJcaraH)

 
Wordnet
Sanskrit
Synonyms:
असुरः, दैत्यः, दैतेयः, दनुजः, इन्द्रारिः, दानवः, शुक्रशिष्यः, दितिसुतः, पूर्वदेवः, सुरद्विट्, देवरिपुः, देवारिः, कौणपः, क्रव्यात्, क्रव्यादः, अस्रपः, आशरः, रात्रिञ्चरः, रात्रिचरः, कव्वूरः, निकषात्मजः, यातुधानः, पुण्यजनः, नैर्ऋतः, यातुः, रक्षः, सन्ध्याबलः, क्षपाटः, रजनीचरः, कीलापाः, नृचक्षाः, नक्तञ्चरः, पलाशी, पलाशः, भूतः, नीलाम्बरः, कल्माषः, कटप्रूः, अगिरः, कीलालपः, नरधिष्मणः, खचरः
noun
धर्मग्रन्थैः वर्णिताः ते जीवाः ये धर्मविरोधिनः कार्यान् अकरोत् तथा देवानां ऋषीणां शत्रवः आसन्।
"पुराकाले असूराणां भयेन धर्मकार्ये काठीन्यम् अभवत्।"
Synonyms:
उलूकः, ऊलूकः, पेचकः, कौशिकः, वायसारातिः, दिवान्धः, दिवाभीतः, निशाटः, नक्तञ्चरः, निशादर्शी, नक्तचारू, रजनीचरः, काकभीरुः, कावरुकः, घूकः, वक्रनासिका, रक्तनासिकः
noun
पक्षिविशेषः यः निशायाम् अटति।
"उलूकः निशाचरः अस्ति।"
शब्दकल्पद्रुमः
Sanskrit
नक्तञ्चरः,
पुं,
(नक्तं चरतीति चर + “चरेष्टः ।”३ १६ इति टः ।) राक्षसः इतिहलायुधः
गुग्गुलुः इति जटाधरः
चौरः ।पेचकः (रात्रिचरमात्रे, त्रि यथा, मार्क-ण्डेयपुराणे २९ २० ।“नक्तञ्चरेभ्यो भूतेभ्यो बलिमाकाशतो हरेत्
”)