| YouTube Channel

नक्तं (naktaM)

 
Apte 1890
English
नक्तं ind. At night, by night
गच्छंतीनां रमणवसतिं योषितां तत्र नक्तं Me. 37
Ms. 6. 19.
Comp.
चरः {1} any animal that goes about at night. {2} a fiend, demon, goblin. {3} a thief.
चर्या wandering by night.
चारिन् m. = नक्तचारिन् q. v.
दिनं night and day.
दिनं,
दिवं ind. night and day.
Monier Williams Cologne
English
न॑क्तं (म् before labials)
ind.
See 1. न॑क्त.
Hindi
Hindi
रात में
शब्दकल्पद्रुमः
Sanskrit
नक्तं, [म्]
व्य,
रजनौ इत्यमरः
(यथा, माघे २१ ।“रथाङ्गपाणेः पटलेन रोचिषा-मृषित्विषः संवलिता विरेजिरे ।चलत्पलाशान्तरगोचरास्तरो-स्तुषारमूर्त्तेरिव नक्तमंशवः
”)
नक्तं,
क्ली,
(नज + क्तः ।) रात्रिः लक्षणयानक्तव्रतम् यथा, --“उपवासात् परं भैक्षं भैक्षात् परमयाचितम् ।अयाचितात् परं नक्तं तस्मान्नक्तेन वर्त्तयेत्
देवैस्तु भुक्तं पूर्व्वाह्णे मध्याह्ने ऋषिभिस्तथा ।अपराह्णे पितृभिर्भुक्तं सन्ध्यायां गुह्यकादिभिः
सर्व्ववेलामतिक्रम्य नक्ते भुक्तमभोजनम् ।वामाचारो महादेवो नक्तेनैवोद्धरेन्नृणाम्
”इति देवीपुराणम्
व्रतविशेषः यथा, --“दशम्याञ्चैकभक्तन्तु शुद्धचित्तो दृढव्रतः ।नक्तं वापि तथा कृत्वा दशम्यां नियतः सदा
क्रियते चासमर्थेन नक्तमेकादशीदिने ।नक्ते चापि विधिः प्रोक्तः फलाहारे तथैव
दिवसस्याष्टमे भागे मन्दीभूते दिवाकरे ।नक्तं तच्च विजानीयात् नक्तं निशि भोजनम्
नक्षत्रदर्शनान्नक्तं गृहस्थेन विधीयते ।यतेर्दिनाष्टमे भागे रात्रौ तस्य निषेधनम्
”इति मात्स्ये एकादशीमाहात्म्यम्
*
अथ नक्तव्रतम् ।“तथा स्कन्दपुराणे ।‘प्रदोषव्यापिनी ग्राह्या सदा नक्तद्रते तिथिः ।उदयात्तु तदा पूज्या हरेर्नक्तव्रते तिथिः
’नियमश्च सामान्यव्रतधर्म्मत्वेनोक्तः ।‘ब्रह्मचर्य्यं तथा शौचं सत्यमामिषवर्ज्जनम्
’इत्यादिर्ग्राह्यः
नक्तलक्षणञ्च भविष्यदेवीपुराणयोः ।‘हविष्यभोजनं स्नानं सत्यमाहारलाघवम् ।अग्निकार्य्यमधःशय्यां नक्तभोजी सदाचरेत्
’एवं नक्तव्रतस्य गुरुत्वेन प्रागुक्तवायुपुराण-वचने नक्तमिति हविष्यान्नादिभोजनस्य काल-परं तु नक्तव्रतपरं तथात्वे उत्तरोत्तरगुरु-व्रतोपदेशप्रस्तावे तदनन्तरं केवलं हविष्यान्नोप-देशानुपपत्तेः स्मृतिः ।‘नक्तं निशायां कुर्व्वीत गृहस्थो विधिसंयुतः ।यतिश्च विधवा चैव कुर्य्यात्तत् सदिवाकरम्
सदिवाकरन्तु तत् प्रोक्तमन्तिमे घटिकाद्वये ।निशानक्तन्तु विज्ञेयं यामार्द्धे प्रथमे सदा
’मार्कण्डेयः ।‘एकभक्तेन नक्तेन तथैवायाचितेन ।उपवासेन दानेन नैवाद्बादशिको भवेत्
’अत्र विष्णुपूजापारणयोरङ्गान्तरापेक्षया प्राधा-न्यमवगम्यते आनुकल्पिकेऽपि आवश्यक-त्वात् ।” इत्येकादशीतत्त्वम्
*
सौरनक्तकालोयथा, --“कुशमूलं यवमात्रं स्वच्छायाद्विगुणे क्षणे ।भक्ष्यं मितौदनं नक्तं शुद्धोपवसनं तथा
”इति विधानसप्तमीप्रकरणे तिथ्यादितत्त्वम्
(महादेवः यथा, महाभारते १३ १७ ९३ ।“नक्तं कलिश्च कालश्च मकरः कालपूजितः
”पुं, पृथोः पुत्त्रः यथा, ब्रह्माण्डे ३६ ।“पृथोश्चापि सुतो नक्तो नक्तस्यापि गयःस्मृतः
”)