| YouTube Channel

नकारः (nakAraH)

 
Wordnet
Sanskrit
Synonyms:
नकारः
noun
वर्णमालायाः विंशतितमः वर्णः तवर्गस्य अन्तिमं व्यञ्जनञ्च।
"नकारस्य उच्चारणं दन्तनासिकयोः भवति।"
वाचस्पत्यम्
Sanskrit
नकारः व्यञ्जनवर्णभेदः तवर्गीयपञ्चमवर्णः अस्योच्चारण-स्थानं दन्तमूलं नासिका “दन्त्याऌतुलसाः स्मृताः”“अमोऽनुनासिका नह्रौ” इति शिक्षोक्तेः तस्योच्चारणेआभ्यन्तरप्रयत्नः जिह्वाग्रेण दन्तमूलस्य सम्यक्स्पर्शः अत-एव व्यञ्जनानां स्पर्शवर्णत्वव्यवहारः बाह्यप्रयत्नाश्च संवारनादघोषा अल्पप्राणश्च “खयां यमाः खयः + पौ विसर्गःस्वर एव एते श्वासानुप्रदाना अघोषाश्च विवृण्वते ।कण्ठम्, अन्ये तु घोषाः स्युः संवारा नादभागिनः ।अयुग्मा वर्गयमगा यणश्चाल्पासवः स्मृताः” शिक्षाअस्य वाचकशब्दा वर्णामिधनातन्त्रे उक्ता यथा“नो गर्जिनी क्षमा सौरिर्वारुणी विश्वपावनी मेषश्चसविता नेत्रं दन्तुरो नारदोऽञ्जनः ऊर्द्ध्वगामी द्वि-रण्डश्च वामपादाङ्गुलेर्नखः वैनतेयः स्तुतिर्वत्मभवाऽनर्वानिरागमः वामनो ज्वालिनी दीर्घो निरीहः सुगति-र्वियत् शब्दात्मा दीर्घघोणा हस्तिनापुरमेचकौ ।गिरिनायकनीलौ शिवोऽनादिर्महामतिः” ।अस्य ध्यानं यथा “ध्यानमस्य नकारस्य वक्ष्यते शृणुभाविनि! दलिताञ्जनवर्णाभां ललज्जिह्वां सुलो-चनाम् चतुर्भुजां कोटराक्षीं चारुचन्दनचर्चिताम् ।कृष्णाम्बरपरीधानामीषद्धास्यमुखीं सदा एवं ध्यात्वानकारन्तु तन्मन्त्र दशधा जपेत्” तत्स्वरूपं यथा“नकारं शृणु चार्वङ्गि कोटिविद्युल्लताकृतिम् पञ्च-देवमयं वर्णं स्वयं परमकुण्डली पञ्चप्राणात्मकंवर्णं हृदि भावय पार्वति!” कामधेनुतन्त्रम् ।मातृकावर्णन्यासे अस्य वामपादाङ्गुलिनखे न्यास्यता ।काव्यादौ प्रथमप्रयोगे फलं यथा “दोधः सौख्यं मुदंनः” वृ० व० ढीकोक्तम् ।धातुपाठे ये णादितया पठितास्ते प्रयोगकाले नादि-पूर्वका भवन्ति, सति निमित्ते पुनर्णत्वमापद्यन्ते ये चनादितया पठितास्ते णत्वमापद्यन्ते इति विवेकः
कृदन्तरूपमाला
Sanskrit
1 {@“ओ लडि उत्क्षेपणे”@} 2 अत्र ओकारः इत्संज्ञक इति चान्द्रा आहुः।
धात्ववयव एव ओकार इति क्षीरस्वामिप्रभृतयः।
‘उलडि’ इति पठित्वा ‘उलण्डयति’ इति केचिदु- दाहरन्ति।
एवं बहुधा विप्रतिपत्तिरत्र।
ओकारो धात्ववयव इत्यभ्युपगत्या- स्माभिः पूर्वं 3 ओलण्डक इत्यादीनि रूपाणि ण्यन्तात्, ण्यन्तप्रकृतिक- सन्नन्ताच्च प्रदर्शितानि।
ओकार इत्संज्ञक इति पक्षे-लण्डकः-ण्डिका इत्यादीनि रूपाणि यथासम्भवं स्वयमेवोह्यानि।
‘अनित्यण्यन्ताः चुरादयः’ इत्याश्रित्य ओकारेत्त्वपक्षे ‘ओदितश्च’ 4 इति निष्ठानत्वे लण्ड्नः इत्यपि निष्ठायां प्रदर्शयन्ति।
“दौर्गास्तु क्ते लण्डिन इत्युदाजह्रुः
तच्च पापात् पापीयः।
अव्यवहितस्य 5 नत्वात्” इति क्षीरस्वामी।
युक्तं चैतत्
अन्यथा विन्नादिवत् विदित इत्यत्रापि निष्ठातकारस्य नकारः स्यात्
इत्यलमत्राधुना।
‘ओलण्डितमिवापश्यत् उग्रं समरताण्डवम्’ 6 ‘ओलण्डिताद्रिरपि जालितदिव्यधामा--’ 7 इत्यादिषु ओकारो धात्वयव इत्येव प्रयोगा उपलभ्यन्ते इत्यपीहावधेयम्।
प्रासङ्गिक्यः
01
=>
(१४६७)
02
=>
(१०-चुरादिः-१५४२। सक। सेट्। उभ।)
03
=>
(१३८)
04
=>
(८-२-४५)
05
=>
(निष्ठातकारस्यैव)
06
=>
(यादवाभ्युदयः- १६-६४)
07
=>
(धातुकाव्यम्-३-१४)