| YouTube Channel

ध्वारणम् (dhvAraNam)

 
कृदन्तरूपमाला
Sanskrit
1 {@“ध्वृ हूर्च्छने”@} 2 “हूर्च्छनम् = कौटिल्यम्।
‘भ्रातृव्यमेव तदपध्वरति।’ इत्यादौ हिंसायामपि दृश्यते।” इति मा।
धा।
वृत्तिः।
ध्वारकः-रिका, ध्वारकः-रिका, 3 दुध्वूर्षकः-र्षिका, 4 दाध्वरकः-रिका
ध्वर्ता-ध्वर्त्री, ध्वारयिता-त्री, दुध्वूर्षिता-त्री, दाध्वरिता-त्री
ध्वरन्-न्ती, ध्वारयन्-न्ती, दुध्वूर्षन्-न्ती
-- 5 ध्वरिष्यन्-न्ती-ती, ध्वारयिष्यन्-न्ती-ती, दुध्वूर्षिष्यन्-न्ती-ती
-- 6 -- ध्वारयमाणः, ध्वारयिष्यमाणः, -- दाध्वर्यमाणः, दाध्वरिष्यमाणः
7 प्रध्वृत्-प्रध्वृद्-प्रध्वृतौ-प्रध्वृतः
-- -- ध्वृतम्- 8 विध्वृतः, ध्वारितः, दुध्वूर्षितः, दाध्वरितः-तवान्
9 ध्वरः, 10 दध्वरिवान्, ध्वारः, दुध्वूर्षुः, दाध्वरः
ध्वर्तव्यम्, ध्वारयितव्यम्, दुध्वूर्षितव्यम्, दाध्वरितव्यम्
ध्वरणीयम्, ध्वारणीयम्, दुध्वूर्षणीयम्, दाध्वरणीयम्
ध्वार्यम्, 11 ध्वर्यः, ध्वार्यम्, दुध्वूर्ष्यम्, दाध्वर्यम्
ईषद्ध्वरः-दुर्ध्वरः-सुध्वरः
-- -- 12 ध्वर्यमाणः, ध्वार्यमाणः, दुध्वूर्ष्यमाणः, दाध्वर्यमाणः
ध्वारः, ध्वारः, दुध्वूर्षः, दाध्वरः
ध्वर्तुम्, ध्वारयितुम्, दुध्वूर्षितुम्, दाध्वरितुम्
ध्वृतिः, ध्वारणा, दुध्वूर्षा, दाध्वरा
ध्वरणम्, ध्वारणम्, दुध्वूर्षणम्, दाध्वरणम्
ध्वृत्वा, ध्वारयित्वा, दुध्वूर्षित्वा, दाध्वरित्वा
प्रध्वृत्य, प्रध्वार्य, प्रदुध्वूर्ष्य, प्रदाध्वर्य
ध्वारम् २, ध्वृत्वा २, ध्वारम् २, ध्वारयित्वा २, दुध्वूर्षम् २, दुध्वूर्षित्वा २, दाध्वरम्
दाध्वरित्वा २।
प्रासङ्गिक्यः
01
=>
(९४४)
02
=>
(१-भ्वादिः-९३९। सक। अनि। पर।)
03
=>
[[३। सनि, ‘अज्झनगमां सनि’ (६-४-१६) इति दीर्घे, ‘उदोष्ठ्यपूर्वस्य’ (७-१-१०२) इत्युत्त्वे, रपरत्वे, ‘हलि च’ (८-२-७७) इति दीर्घः।]]
04
=>
[[४। संयोगादित्वात्, ‘यङि च’ (७-४-३०) इति गुणः। अभ्यासकार्यम्। ‘दीर्घोऽ- कितः’ (७-४-८३) इत्यभ्यासस्य दीर्घः।]]
05
=>
[[५। स्यप्रत्यये, ‘ऋद्धनोः स्ये’ (७-२-७०) इतीडागमः।]]
06
=>
[पृष्ठम्०८२६+ २६]
07
=>
[[१। क्विपि, तुगागमः। एवं ल्यप्यपि ज्ञेयम्।]]
08
=>
[[आ। ‘घृणाऽस्तु ते विध्वृतश्रदैत्यस्रुतास्रसिक्तायुधविश्वसोतः।।’ धा। का। २। ३४।]]
09
=>
[[२। पचाद्यचि रूपमेवम्। ध्वरः = हिंसा कौटिल्यं वा यत्रेति अध्वरः = यज्ञः।]]
10
=>
[[३। क्वसुप्रत्यये, ‘वस्वेकाजाद्घसाम्’ (७-२-६७) इतीडागमे रूपमेवम्।]]
11
=>
[[४। ‘छन्दसि निष्टर्क्यदेवहूयप्रणीयोन्नीयोच्छिष्यमर्यस्तर्याध्वर्य--’ (३-१-१२३) इति निपातनात् यत्प्रत्यये रूपम्। छन्दस्येवायम्।]]
12
=>
[[५। ‘गुणोऽर्तिसंयोगाद्योः’ (७-४-२९) इति यकि गुणः।]]