| YouTube Channel

ध्वन्सु (dhvansu)

 
क्षीरतरङ्गिणी
Sanskrit
ध्वन्सुँ ध्वन्सु गतौ
-
धातुवृत्तिः
Sanskrit
ध्वन्सुँ ध्वंसु (अर्थः) गतौ
( स्त्रंसते स्त्रंससे स्त्रं सिता अस्त्रसत् अस्रंसिष्ट ) अङि नलोपः ( सिस्त्रंसिष्टते सनीस्त्रंसीति सनीस्त्रस्तः ) "नीग्वञ्चुस्त्रंसु'' इत्यादिना नीक् (स्त्रसित्वा स्त्रस्त्वा )उदित्त्वादिड्विकल्पः इटपक्षे कित्त्वाभावान्नलोपाभावः( स्त्रस्तम् ) उखायाः स्त्रंसते इति ( उखास्त्रत् ) "क्किप् च''क्किप् च'' इति क्किप् "वस्त्रुस्त्रंसुध्वंसु'' इति पदान्तसकारस्य दकारः (सनीस्त्रस्तः) यङ्लुगन्तात् क्कौ नलोपः दत्वं सानुबन्धकनिर्देशान्न भवति रुत्वविसर्जनीयौ "अत्वसन्तस्य'' इति दीर्घो ऽधातोरिति निषेधान्न भवति (सनीस्त्रंसः) अचपरे यङ्लुकि यङो लुप्तत्वात प्रत्ययलक्षणाभावान्नलोपाभावः (एवं ध्वंसते) इत्यादि अत्र तृतीयं मैत्रेयस्वामिबोधनिन्यासमम्मतारादयः तालव्योष्मान्नं पठन्तो नीग्विधावपि तथा वदन्ति (भ्रंशतइत्यादि) अत्र क्कचित् भ्रशिरपि पठ्यते भ्रशु भ्रुंषु अधःपतनइति दिवादौ देवमैत्रेयादिमते स्रसते इति प्रमादे गतः 744
कृदन्तरूपमाला
Sanskrit
1 {@“ध्वन्सु अवस्रंसने गतौ च”@} 2 ध्वंसकः-सिका, ध्वंसकः-सिका, दिध्वंसिषकः-षिका, 3 दनीध्वसकः-सिका
ध्वंसिता-त्री, ध्वंसयिता-त्री, दिध्वंसिषिता-त्री, दनीध्वसिता-त्री
-- ध्वंसयन्-न्ती, ध्वंसयिष्यन्-न्ती-ती
-- ध्वंसमानः, ध्वंसयमानः, दिध्वंसिषमाणः, दनीध्वस्यमानः
ध्वंसिष्यमाणः, ध्वंसयिष्यमाणः, दिध्वंसिषिष्यमाणः, दनीध्वसिष्यमाणः
4 पर्णध्वत्-पापध्वत्-पापध्वसौ-पापध्वसः
-- -- -- 5 ध्वस्तम्- 6 ध्वस्तः-ध्वस्तवान्, 7 ध्वंसितः, दिध्वंसिषितः, दनीध्वसितः
ध्वंसः, ध्वंसः, दिध्वंसिषुः, दनीध्वंसः
ध्वंसितव्यम्, ध्वंसयितव्यम्, दिध्वंसिषितव्यम्, दनीध्वसितव्यम्
ध्वंसनीयम्, ध्वंसनीयम्, दिध्वंसिषणीयम्, दनीध्वसनीयम्
ध्वंस्यम्, ध्वंस्यम्, दिध्वंसिष्यम्, दनीध्वस्यम्
ईषद्ध्वंसः-दुर्ध्वंसः-सुध्वंसः
-- -- ध्वस्यमानः, ध्वंस्यमानः, दिध्वंसिष्यमाणः, दनीध्वस्यमानः
ध्वंसः, ध्वंसः, दिध्वंसिषः, दनीध्वसः
ध्वंसितुम्, ध्वंसयितुम्, दिध्वंसिषितुम्, दनीध्वसितुम्
8 9 ध्वस्तिः, ध्वंसना, दिध्वंसिषा, दनीध्वसा
ध्वंसनम्, ध्वंसनम्, दिध्वंसिषणम्, दनीध्वसनम्
10 ध्वंसित्वा-ध्वस्त्वा, ध्वंसयित्वा, दिध्वंसिषित्वा, दनीध्वसित्वा
प्रध्वस्य, प्रध्वंस्य, प्रदिध्वंसिष्य, प्रदनीध्वस्य
ध्वंसम् २, ध्वंसित्वा २, ध्वस्त्वा २, ध्वंसम् २, ध्वंसयित्वा २, दिध्वंसिषम् २, दिध्वंसिषित्वा २, दनीध्वसम्
दनीध्वसित्वा २।
प्रासङ्गिक्यः
01
=>
(९४२)
02
=>
(१-भ्वादिः-७५५। सक। सेट्। आत्म।)
03
=>
[[१। यङन्ते सर्वत्र, ‘नीग्वञ्चुस्रंसुध्वंसु--’ (७-४-८४) इत्यादिना अभ्यासस्य नीगा- गमः। उपधानकारस्य यङ्निमित्तको लोपः।]]
04
=>
[[२। क्विपि पदान्तनिमित्तकः, ‘वसुस्रंसुध्वंस्वनडुहां दः’ (८-२-७२) इति सकारस्य दकारः। चर्त्वम्।]]
05
=>
[[३। क्त्वायामिड्विकल्पनात्, निष्ठायाम्, ‘यस्य विभाषा’ (७-२-१५) इतीण्निषेधः। उपधानकारलोपः।]]
06
=>
[[आ। ‘ध्वस्तान्धकारेऽपि पुरे पूर्णेन्दोः सन्निधिः सदा।।’ भ। का। ५। २७।]]
07
=>
[[B। ‘स्निग्धाञ्जनश्यामरुचिः सुवृत्तो वध्वा इवाध्वंसितवर्णकान्तेः।’ शि। पा। ३। ६३।]]
08
=>
[पृष्ठम्०८२५+ २४]
09
=>
[[१। ‘गुरोश्च हलः’ (३-३-१०३) इत्यकारप्रत्ययं बाधित्वा, ‘क्तिन् आबादिभ्यो निष्ठाया- मनिड्भ्यः’ (वा। ३-३-९४) इति क्तिन्।]]
10
=>
[[२। ‘उदितो वा’ (७-२-५६) इति क्त्वायामिड्विकल्पः। इट्पक्षे ‘न क्त्वा सेट्’ (१-२-१८) इति कित्त्वनिषेधात् उपधानकारलोपो न।]]