| YouTube Channel

ध्वन्स (dhvansa)

 
शब्दकल्पद्रुमः
Sanskrit
ध्वन्स, गतौ भ्रंशे इति कविकल्पद्रुमः
(भ्वां-आत्मं-गतौ सकं-भ्रंशे अकं-सेट् उदि-त्वात् क्त्रावेट् ।) उ, ध्वंसित्वा ध्वस्त्वा ऌ, अध्वसत् ङ, ध्वंसते भ्रंशः अधःपतनम् ।इति दुर्गादासः
वाचस्पत्यम्
Sanskrit
ध्वन्स गतौ
सक०
भ्रंशे नाशे अधःपतने अक०
भ्वा०
आत्म०सेट् ध्वसंते दध्वसे--दध्वंसे ऌदत् अध्वसत् ।उदित् ध्वंसित्वा ध्वस्त्वा ध्वस्तः ध्व सस्यातीतत्वाऽभा-वेऽपि तदुत्पत्त्यनुकूलव्यापारस्यं कारणविशेषसंयोगस्यअतीतत्वात् तथा व्यवहारः वैयाकरणमते सर्वत्र“फलव्यापारयोर्धातुः” हर्य्युक्तेः फलव्यापारयोर्धात्वर्थ-त्वात् तयोश्च सामानाधिकरण्ये धातोरकर्मकत्वम् नाशस्यप्रतियोगितया कारणसमवधानस्य एकत्र घटादौ सत्त्वा-दकर्मकत्वम् “फलव्यापारयोरेकनिष्ठतायामकर्मकः” इतिएतन्मते “आश्रये तु तिङः स्मृताः” हर्य्युक्तेः आश्रयरूपार्थस्य कर्त्तृत्वं तच्च निरुक्तव्यापाराश्रयत्वेन घटादा-वव्याहतमेव तिङर्थवर्त्तमानत्वादेः कारणसमवधानरूप-व्यापारेऽन्वयसम्भवान्न काचिदनुपपत्तिः नैयामिकमतेनाशमात्रस्यैव धात्वर्थत्वेऽपि तदुत्पत्तौ लक्षणा उत्पत्तिश्चआद्यक्षणसम्बन्धस्तस्य चातीतत्वादिनैव ध्वस्तः ध्वंसतेइत्यादि प्रयोगः अस्य कर्त्तृत्वं प्रतियोगित्वं तनाशान्वयि तथा वर्त्तमानाद्युत्पत्तिकनाशप्रतियोगीघटादिरिति बोधः व्युत्पत्तिवैचित्र्याच्च उत्पत्तेर्नाश एवान्वयः प्रतियोगिनि इति बोध्यम् सां-ख्यादिसत्कार्यवादे नाशः तिरोहितावस्थेति भेदः ।“तदप्यध्वसदासाद्य माहेन्द्रं लक्ष्मणेरितम्” प्राणादध्वंसिरे गात्रं तस्तम्भे प्रिये हते” भट्टिः आर्षेक्वचित् प० “भूतो देवानामब्रीदुग्ररूपो ध्वंसेत्युच्चैस्त्रिःप्लुतेन स्वरेण” भा० आ० ७९ अ० मालिन्यादिभावेच “कृशा विवर्णा मलिना पांशुध्वस्तशिरोरुहा” भा०व० ६४ अ० “रविजेन बुधे ध्वस्ते” वृ० सं० १७ अ०