| YouTube Channel

ध्वजारोपण (dhvajAropaNa)

 
Monier Williams Cologne
English
ध्वजारोपण
n.
raising a flag,
Cat.
वाचस्पत्यम्
Sanskrit
ध्वजारोपण
न०
त० ध्वजस्य देवप्रासादादौ आरोपणेतद्विधिः अग्निपु० १०३ अ० यथा“चूलके ध्वजदण्डे ध्वजे देवकूले तथा प्रतिष्ठा चयथोद्दिष्टा तथा स्कन्द! वदामि ते तडागार्द्धप्रवेशाद्वायद्वा सर्वार्द्धवेशनात् ऐष्टके दारुजः शूलः शैलजे धाम्निशैलजः वैष्णवादौ चक्राढ्यः कुम्भः स्यान्मूर्त्तिमानवः ।स त्रिशूलयुक्तस्तु अग्रचूलाभिधो मतः ईशशूलःसमाख्यातो मूर्ध्नि लिङ्गसमन्वितः वीजपूरकयुक्तोवा शिवशास्त्रेषु तद्बिधः चित्रो ध्वजश्च जङ्घातोयथा जङ्गार्द्धतो भवेत् भवेद्वा दण्डमानस्तु यदि वातद्यदृच्छया महाध्वजः समाख्यातो यस्तु पीठस्य वैवृकः शक्रै १४ र्ग्रहै रसै र्वापि हस्तैर्दण्डस्तु सम्पितः ।उत्तमादिक्रमेणैव विज्ञेयः सूरिभिस्ततः वंशजः शाल-जादिर्वा दण्डः सर्वकामदः” इत्युपक्रमे तत्र दर्शितः