| YouTube Channel

ध्वजवान् (dhvajavAn)

 
शब्दकल्पद्रुमः
Sanskrit
ध्वजवान्, [त्] त्रि, (ध्वजोऽस्यास्तीति ध्वज +मतुप् मस्य वः ।) केतनयुक्तः ब्राह्मणोब्राह्मणं घातयित्वा तस्यैव शिरःकपालमादायतीर्थान्यनुसञ्चरेत् यथा, --“शिरःकपाली ध्वजवान् भिक्षार्थी कर्म्म वेदयन् ।ब्रह्महा द्बादशाब्दानि मितभुक् शुद्धिमाप्नुयात्
ध्वजवान् कृत्वा शवशिरोध्वजमिति मनुस्मर-णात् अन्यच्छिरःकपालन्दण्डाग्रसमारोपित-ध्वजशब्दवाच्यं गृह्णीयात्
इति मिताक्षरा
(ध्वजः शौण्डिकविपणिपताका विद्यतेऽस्येति ।शौण्डिकः यथा, मनुः ८४ ।“न राज्ञः प्रतिगृह्णीयादराजन्यप्रसूतितः ।सूनाचक्रध्वजवतां वेशेनैव जीवताम्
”)