ध्वजभङ्ग (dhvajabhaGga)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दसागरः
EnglishSpoken Sanskrit
English ध्वजभङ्ग dhvajabhaGga fall of the male organ
ध्वजभङ्ग dhvajabhaGga fracture or fall of a banner
ध्वजभङ्ग dhvajabhaGga impotence
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Monier Williams Cologne
EnglishShabdartha Kaustubha
Kannadaध्वजभङ्ग
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ನಪುಂಸಕತ್ವಕ್ಕೆ ಕಾರಣವಾದ ಒಂದು ರೋಗ
शब्दकल्पद्रुमः
Sanskritध्वजभङ्गः, (ध्वजस्य मेढ्रस्य भङ्गः ।) क्लीवत्व-जनकरोगविशेषः । तस्य निदानं यथा, --“अत्यम्ललवणक्षारविरुद्धाशनभोजनात् ।तथाम्बुपानाद्बिषमात् पिष्टान्नगुरुभोजनात् ॥
दधिक्षीरानूपमांससेवनाद्ब्याधिकर्षणात् ।कल्याणीगमनाच्चापि वियोनिगमनादपि ॥
दीर्घरोम्नीं चिरोत्सृष्टां तथैव च रजस्वलाम् ।दुर्गन्धां दुष्टयोनिञ्च तथैव च परिसुताम् ॥
ईदृशीं प्रमदां मोहात् यदि गच्छति मानवःचतुःपदाभिगमनाच्छेफसश्चाभिघाततः ।अधावनाच्च मेढ्रस्य शस्त्रदन्तनखक्षतात् ॥
काष्ठप्रहारनिष्पेषशूकानाञ्च निषेवणात् ।रेतसश्च प्रतीघातात् ध्वजभङ्गः प्रवर्त्तते ॥
”इति चरकः ॥
* ॥
तस्य चिह्नं यथा, --“शुक्रे चिरात् प्रसिच्येत शुक्रं शोणितमेव वा ।तोदोऽत्यर्थं वृषणयोर्मेढ्रं धूपायतीव च ॥
”इति वाभटः ॥
* ॥
अपि च ।“तैस्तैर्भावैरहृद्यैश्च रिरंसोर्मनसि क्षते ।ध्वजः पतत्यधो नॄणां क्लैव्यं सद्यः प्रजायते ॥
भक्ष्यैरम्लोष्णलवणैरतिमात्रोपसेवितैः ।सौम्यधातुक्षयाद्दुष्टः क्लैव्यं तदपरं स्मृतम् ॥
अतिव्यवायशीलो यो न च वाजिक्रियारतः ।ध्वजभङ्गमवाप्नोति स शुक्रक्षयहेतुकम् ॥
असाध्यं सहजं क्लैव्यं मर्म्मच्छेदोद्भवञ्च यत् ।असाध्यानां विशिष्टानां कार्य्यो वाजिकरोविधिः ॥
तस्य चिकित्सा यथा, वैद्यके ।“सुवर्णासुवत्साशुभाधेनुधन्या-घृतं योगयोगे प्रशस्तं सप्रस्थम् ।मृदौ वा दराग्नौ पचेत् पाकशूर-स्तदा तेजपत्रं हरिद्रासुपिष्टम् ॥
विधौ शुद्धिहेतौ समुस्तं सुपिष्टंविधेयं सुगन्धाय वृद्धोपदेशात् ।समूलाश्वगन्धासप्रस्थं विचूर्णंशुभं वारि दत्त्वा गुणं वेदयुक्तम् ॥
यदा शेषभूतं तदा योगयोगेपचेत् पाकविज्ञो भृशं दर्व्विचालात् ।पचेद्गाविदुग्धं घृतस्यापि तुल्यंविदारीं सप्रस्थां तथा तेन वैद्यः ॥
तथा शाल्मलीतोयदत्तं सप्रस्थंवितार्य्यावतिष्ठेद्घृतं योगराजः ॥
”
वाचस्पत्यम्
Sanskritध्वजभङ्ग ध्वजस्य मेढ्रस्य भङ्गः । चरकोक्ते क्लीवताप्रयो-जके रोगभेदे यथा “अत्यम्ललबणक्षारविरुद्धाशन-भोजनात् । तथाम्बुपानाद्विषमात् पिष्ठान्नगुरुभोज-नात् । दधिक्षीरानूपमांससेवनाद्व्याधिकर्षणात् । क-ल्याणीगमनाच्चापि वियोनिगमनादपि । दीर्घरोम्णींचिरोत्सृष्टां तथैव च परिस्रुताम् । ईदृशीं प्रमदांमोहात् यदि गच्छति मानवः । चतुःपदाभिगमना-च्छेफसश्चाभिघाततः । अधावनाच्च मेढ्रस्य शस्त्रदन्त-नखक्षतात् । कष्ठप्रहारनिष्पेषशूकानाञ्च निषे-वणात् । रेतसश्च प्रतीघातान् ध्वजभङ्गः प्रवर्त्तते ।चरकः । तस्य चिह्नं यथा “शुक्रेऽचिरात् प्रसिच्येतशुक्रं शोणितमेव वा । तोदोऽत्यर्थं वृषणयोर्मेढ्रं धूपा-यतीव च” इति वाभटः ।
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
