| YouTube Channel

ध्वजः (dhvajaH)

 
Apte
English
ध्वजः [dhvajḥ], [ध्वज्-अच्]
A flag, banner, standard, ensign
R.*
7.4
17.32
आरोहति यः स्वस्य वंशस्याग्रे ध्वजो यथा
Pt.*
1.26
ध्वजं चक्रे भगवानुपरि स्थास्यतीति तम्
Mb.
A distinguished or eminent person, the flag or ornament (at the end of
comp.
)
as in कुलध्वजः 'the head, ornament, or distinguished person of a family'.
A flagstaff.
A mark, emblem, sign, a symbol
वृषभ˚, मकर˚
&c.
the attribute of a deity.
The sign of a tavern.
The sign of a trade, any trademark.
The organ of generation (of any animal, male or female).
One who prepares and sells liquors
Ms.*
4.85
सुरापाने सुराध्वजः Ms.
A house situated to the east of any object.
Pride.
Hypocrisy.
A skull carried on a staff (as a mark of ascetics) or as a penance for the murder of a Brāhmaṇa
see खट्वाङ्ग.
(In prosody) An iambic foot. (ध्वजीकृ to hoist a flag
(fig. ) to use as a plea or pretext.)
part of a sword
श्रेष्ठखड्गाङ्गयोरपि Nm.
Comp.
-अंशुकम्, -पटः, -टम् a flag
तमाधूतध्वजपटं व्योमगङ्गोर्मिवायुभिः
R.*
12.85. -आरोपणम्, -आरोहणम् raising a flag. -आरोहः a kind of ornament on a flag
काञ्चना मणिचित्राङ्गा ज्वलन्त इव पावकाः अर्चिष्मन्तो व्यरोचन्त ध्वजारोहा सहस्रशः
Mb.
* 6.16.12. (v. l. ).-आहृत
a.
seized on the battle-field
Ms.*
8.415.-उच्छ्रयः hypocrisy
Mb.
* 3.3/3.1. -उत्थानम् a festival in honour of Indra. -गृहम् a room in which banners are kept. -द्रुमः the palm tree. -प्रहरणः air, wind. -भङ्गः, -पातः inability to beget children. -यन्त्रम् any contrivance to which a flag-staff is fastened. -यष्टिः a flag-staff
संक्रमध्वजयष्टीनां प्रतिमानां भेदकः
Ms.*
9.285.
Apte 1890
English
ध्वजः [ध्वज्-अच्] 1 A flag, banner, standard, ensign
R. 7. 40
17. 32
Pt. 1. 26.
2 A distinguished or eminent person, the flag or ornament (at the end of comp.)
as in कुलध्वजः ‘the head, ornament, or distinguished person of a family.’
3 A flag-staff.
4 A mark, emblem, sign, a symbol
वृषभ°, मकर° &c.
5 The attribute of a deity.
6 The sign of a tavern.
7 The sign of a trade, any trademark.
8 The organ of generation, (of any animal, male or female).
9 One who prepares and sells liquors.
10 A house situated to the east of any object.
11 Pride.
12 Hypocrisy.
13 A skull carried on a staff (as a mark of ascetics).
14 (In prosody) An iambic foot. (‘ध्वजीकृ to hoist a flag
fig. to use as a a plea or pretext).
Comp.
अंशुकं,
पटः,
टं a flag
R. 12. 85.
आहृत a. seized on the battle-field.
उत्थानं a festival in honor of Indra.
गृहं a room in which banners are kept.
द्रुमः the palm tree.
प्रहरणः air, wind.
भंगः
पातः inability to beget children.
यंत्रं any contrivance to which a flag-staff is fastened.
यष्टिः a flag-staff
Ms. 9. 285.
Hindi
Hindi
झंडा (पु)
Apte Hindi
Hindi
ध्वजः
पुं*
- ध्वज् + अच्
"ध्वज, झण्डा, पताका, वैजयन्ती"
ध्वजः
पुं*
- ध्वज् + अच्
"पूज्य या प्रमुख व्यक्ति, झंडा या भूषण"
ध्वजः
पुं*
- ध्वज् + अच्
वह बांस जिसमें झण्डा लहराता है।
ध्वजः
पुं*
- ध्वज् + अच्
"चिह्न, निशान, लक्षण, प्रतीक"
ध्वजः
पुं*
- ध्वज् + अच्
देवता की उपाधि
ध्वजः
पुं*
- ध्वज् + अच्
पथिकाश्रम का चिह्न
ध्वजः
पुं*
- ध्वज् + अच्
व्यवसाय का चिह्न- व्यवसाय लक्षण
ध्वजः
पुं*
- ध्वज् + अच्
जननेन्द्रिय
ध्वजः
पुं*
- ध्वज् + अच्
कलाल
ध्वजः
पुं*
- ध्वज् + अच्
किसी वस्तु से पूर्व की ओर स्थित घर
ध्वजः
पुं*
- ध्वज् + अच्
घमंड
ध्वजः
पुं*
- ध्वज् + अच्
पाखंड
ध्वजः
पुं*
- ध्वज्+अच्
खड्ग का एक भाग
ध्वजः
पुं*
- ध्वज्+अच्
झंडा
ध्वजः
पुं*
- ध्वज्+अच्
पूज्य व्यक्ति
ध्वजः
पुं*
- ध्वज्+अच्
ध्वजा की यष्टि
ध्वजः
पुं*
- ध्वज्+अच्
"चिह्न, प्रतीक"
Wordnet
Sanskrit
Synonyms:
चिह्नम्, लक्षणम्, व्यञ्जनम्, लिङ्गम्, प्रतिमा, प्रतिरूपम्, सङ्केतः, केतुः, ध्वजः, पताका
noun
सः यः कस्याः अपि समष्टेः सूचकरुपेण विद्यते।
"प्रत्येकस्य राष्ट्रस्य राज्यस्य संस्थायाः वा स्वस्य चिह्नम् अस्ति एव।"
Synonyms:
शिश्नः, पुलिङ्गम्, पुंश्चिह्नम्, उपस्थः, जघन्यम्, नरङ्गम्, पुरुषाङ्गम्, चर्मदण्डः, स्वरस्तम्भः, उपस्थः, मदनाङ्कुशः, कन्दर्पमुषलः, शेफः, मेहनम्, मेढ्रः, लाङ्गुः, ध्वजः, रागलता, लाङ्गूलम्, साधनम्, सेफः, कामाङ्कुशः, व्यङ्गः
noun
अवयवविशेषः, पुरुषस्य जननेन्द्रियम्।
"यावतामेव धातूनां लिङ्गं रूढिगतं भवेत् अर्थश्चैवाभिधेयस्तु तावद्भिर्गुणविग्रहः"
Synonyms:
चिह्नम्, लक्षणम्, ध्वजः, अभिज्ञानम्, प्रज्ञानम्, लिङ्गम्, लक्ष्यम्, व्यञ्जकम्, व्यञ्जकः, सूचकम्
noun
कस्यापि वस्तुनः व्यवच्छेदकः धर्मः।
"वृष्टिविरामस्य चिह्नं दृश्यते।"
Synonyms:
ध्वजः, पताका, ध्वजपटः, ध्वजांशुकः, केतनम्, केतुः, केतुवसनः, वैजयन्तिका, वैजयन्ती, जयन्तः, कदली, कदलिका, उच्छलः
noun
दण्डस्य आधारेण समुत्थिता नानावर्णीया विशिष्टवर्णीया वा पट्टिका यया कस्यापि सत्ता कोऽपि उत्सवः सङ्केतः वा सूच्यते।
"भारतदेशस्य ध्वजः चक्राङ्कितः अस्ति।"
Synonyms:
ध्वजः
noun
एकः वृक्षः
"ध्वजस्य उल्लेखः कोशे वर्तते"
Tamil
Tamil
த்4வஜ: : கொடி, மரியாதைக்கு உரிய மனிதர், அடையாளம்.
शब्दकल्पद्रुमः
Sanskrit
ध्वजः,
पुं,
(ध्वजोऽस्त्यस्येति ध्वज + अर्शआदि-त्वादच् ।) शौण्डिकः इति मेदिनी जे, १०
(यथा, मनुः ८५ ।“दशसूनासमं चक्रं दशचक्रसमो ध्वजः ।दशध्वजसमो वेशो दशवेशसमो नृपः
”)
ध्वजः, पुं
क्ली,
(ध्वजति उच्छ्रितो भवतीति ध्वज +पचाद्यच् ।) पतका (यथा, पञ्चतन्त्रे ३२ ।“किं तेन जातु जातेन मातुर्यौवनहारिणा ।आरोहति नयः स्वस्य वंशस्याग्रे ध्वजो यथा
”)खट्वाङ्गम् मेढ्रम् (यथा, सुश्रुते चिकित्सित-स्थाने १९ अध्याये ।“विदग्धैस्तु सिरास्नायुत्वङ्र्मासैः क्षीयते ध्वजः
”)चिह्नम् इति मेदिनी जे, ११
(यथा, महाभारते ३३ १७ ।“तं वव्रे वाहनं विष्णुर्गरुत्मन्तं महाबलम् ।ध्वजञ्च चक्रे भगवानुपरि स्थास्यतीति तम्
”)गर्व्वः दर्पः इति शब्दरत्नावली
पूर्व्वदिशोगृहम् इति हेमचन्द्रः
पताकादण्डः तत्-पर्य्यायः केतनम् इत्यमरटीकायां भरतः
(यथा, महाभारते २७ ।“ततोऽर्ज्जुनः सुशर्म्माणं विद्ध्वा सप्तभिराशुगैः ।ध्वजं धनुश्चास्य तथा क्षुराभ्यां समकृन्तत
”)ध्वजयुक्तिर्यथा, --“सेनाचिह्नं क्षितीशानां दण्डो ध्वज इति स्मृतः ।सपताको निष्पताकः ज्ञेयो द्बिविधो बुधैः
पताका सार्द्धदैर्घ्येण दण्डस्तु पृथिवीभुजाम् ।सपताकध्वजस्याग्रे यदा हस्तं परिन्यसेत्
जयहस्तो ध्वजो नाम नैनं सामान्यमर्हति ।वंशोऽथ वाकुलः शालः पालाशश्चाम्पकस्तथा
नैपो नैम्बोऽथवा दण्डस्तथा वैराजवारणः ।अवद्धादिकसंज्ञानां वर्णरूपप्रकाशितः
सर्व्वेषाञ्चैव वंशस्तु दण्डः सम्पत्तिकारकः
”अ शाः
“प्रतापाय पताकास्तु अष्टावेव प्रकाशिताः ।पञ्चहस्तायता हस्तपरिणाहा जयाभिधा
जया विजया भीमा चपला वैजयन्तिका ।दीर्धा विशाला लोला ज्ञेया हस्तैकवृद्धितः
परिणाहे पादवृद्धिरथ वर्णस्य निर्णयः ।रक्तः श्वेतोऽरुणः पीतश्चित्रो नीलोऽथ कर्वुरः
कृष्णश्चेति पताकानां वर्णरूपप्रकाशितः ।अवद्धादिकसंज्ञानामष्टानामष्टकत्रयम्
कलसो दर्पणश्चन्द्रः पद्मकोषो यथाक्रमम् ।ब्रह्मक्षत्त्रियविट्शूद्रजातीनां संप्रकाशितः
गजादियुक्ता सा प्रोक्ता जयन्ती सर्व्वमङ्गला ।गजः सिंहो हयो द्बीपी चतुर्णां पृथिवी-भुजाम्
हंसादियुक्ता विज्ञेया राज्ञां सैवाष्टमङ्गला ।हंसः केकी शुकश्चासो ब्रह्मादीनां यथाक्रमम्
चामरादिसमायुक्ता सा ज्ञेया सर्व्वबुद्धिदा ।चामरश्चासपक्षाणि चित्रवस्त्रं तथा सितम्
चतुर्णां वेदनयनपक्षेन्दुगणितक्रमात् ।तदग्रे यदि विन्यस्तं पताकाद्वितयं भवेत्
इयं हि सर्व्वतो भद्रा पताका चक्रवर्त्तिनः ।तद्बर्णः पूर्व्ववज्ज्ञेयः प्रमाणं विधिबोधितम्
कानकं राजतं ताम्रं नानाधातुमयं क्रमात् ।कुम्भादिकं प्रशंसन्ति पताकाग्रे महीभुजाम्
तत्रापि रत्नविन्यासो विधेयो राजतक्रमः ।चतुर्भिर्म्मकरास्याद्यैर्युक्ता चेत् सर्व्वसिद्धिदा ।तदा श्रेयस्करी नाम सा पताका विजायते
मकरोऽथ गजः सिंहो व्याघ्रो वाजी मृगः शुकः ।शुचिश्चेति समुद्दिष्टमादित्यादिदशा भुवाम्
इति प्रोक्तः पताकानां निर्णयः पृथिवीभुजाम्
”अथ निष्पताकध्वजः ।“पूर्व्ववद्दण्डनियमस्तत्र दैर्घ्ये विशेषणम् ।दण्डः पक्षाणि पद्मञ्च कुम्भश्च विहगो मणिः
निष्पताको ध्वजो राज्ञां षड्भिरेतैः सुसंस्थितैः ।जयः कपालो विजयः क्षेत्रन्तत्र शिवः क्रमात्
राज्ञः पुरुषमानेन दण्डमानं प्रकीर्त्तितम् ।ऊर्द्ध्वाधःक्रमयोगेन तद्दण्डादिकमुच्यते
केकी चासो मत्स्यरङ्कस्त्रिविधानां महीभुजाम् ।ध्वजाग्रेषु विधेयानि पक्षाणि श्रियमिच्छताम्
पद्मः कुम्भश्च विहगो मणिश्चव यथाक्रमात् ।उपर्य्युपरितो धेयो निष्पताके महीभुजाम्
अष्ट षोडश द्घात्रिंशच्चतुःषष्टिदलाम्बुजम् ।वृत्ताष्टदिग्दलैश्चाढ्यः कुम्भः सम्पत्तिकारकः
हंसश्चासः शुकः केकी पक्षिणश्च यथाक्रमम् ।वज्रञ्च पद्मरागच्च नीलो वैदूर्य्यमेव
ब्रह्मक्षत्त्रियविट्शूद्रजातीनां स्यात् यथाक्रमम् ।कनकं रजतं युग्मं द्बिविधानां महीभुजाम्
निष्पताकध्वजाब्जादिनिर्म्माणे योग इष्यते ।पताका यदिहास्त्येका सर्व्वाग्रे योग्यवर्णिनी
अयं ध्वजो विशालाख्यो विज्ञेयश्चक्रवर्त्तिनः ।तत्रैव चामरे योग्ये विज्ञेयाः सर्व्वसम्पदः
इति राज्ञां समुद्दिष्टमन्येषां ध्वज उच्यते ।नोर्द्ध्वं विंशतिहस्तेभ्यो चार्व्वाक् दशहस्तकात्
हस्तहस्तैकसंवृद्ध्या ध्वजो दशविधो मतः ।सहस्राधिपमारभ्य यावत् स्यादयुताधिपः
सहस्राधिपान्न्यूनो ध्वजधारणमर्हति ।अपि कोटिपतेर्ज्ञेयो ध्वजो विंशतिहस्तकः
तत्रापि वस्त्रवर्णादिनिर्णयः पूर्व्ववन्मतः ।स्थिरता चित्रता चेति निष्पताकध्वजे गुणौ
यदेतदुभयं चिह्नमुभयोः संप्रकाशितम् ।तत्प्रमाणध्वजे ज्ञेयमप्रधाने निर्णयः
निष्पताकध्वजोद्देशः प्रोक्तोऽयं भोजभूभुजा ।एतद्विमृष्य मतिमान् चिरं सुखमवाप्नुयात्
यो दम्भादथवाज्ञानाद्विलङ्घयति मानवः ।स विषीदति नश्येत तस्य कीर्त्तिः कुलं बलम्
”इति युक्तिकल्पतरुः
*
मात्स्ये ।“घण्टावितानवरतोरणचित्रयुक्तंनित्योत्सवप्रमुदितेन जनेन सार्द्धम् ।यः कारयेत् सुरगृहं विधिवद्ध्वजाङ्कंश्रीस्तं मुञ्चति सदा दिवि पूज्यते
”ध्वजयष्ट्यादिमानमाह हयशीर्षपञ्चरात्रम् ।“ध्वजवंशः प्रकर्त्तव्यो निर्व्रणः सगुणो दृढः ।तदूर्द्धं ताम्रजं चक्रं सूक्ष्मं कुर्य्याद्द्विजोत्तम !
प्रासादस्य विस्तारो मानं दण्डस्य कीर्त्तितम् ।ध्वजयष्टिर्देवगृहे ऐशान्यां दिशि देशिकैः
स्थापनीयाथ वायव्ये साम्प्रतं ध्वजमुच्यते ।पट्टकार्पासक्षौमाद्यैर्ध्वजं कुर्य्यात् सुशोभनम्
एकवर्णं विचित्रं वा घण्टाचामरभूषितम् ।किङ्किणीजालकोपेतं वर्हिपत्रविभूषितम् ।शुक्लादिवर्णैर्विप्रादिः क्रमाद्बा कारयेत् ध्वजम्
दण्डाग्राद्धरणीं यावत् हस्तैकं विस्तरेण तु ।महाध्वजन्तु विख्यातं सर्व्वकामप्रदं शुभम्
ध्वजेन रहितो विप्र प्रासादस्तु वृथा भवेत् ।पूजाहोमादिकं सर्व्वं जपाद्यं यत् कृतं नरैः
”शिवसर्व्वस्वे ।“देवेभ्यश्च गृहं दद्याद् वाहनैरुपशोभितम् ।तुरङ्गमेण सूर्य्यस्य हरस्य वृषचिह्नितम्
विष्णवे गरुडाङ्कन्तु दुर्गायै सिंहचिह्नितम् ।कार्य्यं ध्वजपताकाढ्यमन्यथा कथञ्चन
”गरुडलक्षणमाह नारदपञ्चरात्रे ।“उपेन्द्रस्याग्रतः पक्षी गुडाकेशः कृताञ्जलिः ।सव्यजानुगतो भूमौ मूर्द्धादौ मणिमण्डितः
पक्षिजङ्घो नराङ्घ्रिश्च तुङ्गनासो नराङ्गकः ।द्विबाहुः पक्षयुक्तश्च कर्त्तव्यो विनतासुतः
”विष्णुधर्म्मोत्तरे ।“प्रतिपाद्य द्बिजो दद्यात् ध्वजं त्रिदशवेश्मनः ।निर्दहत्याशु पापानि महापातकजान्यपि
”इति प्रतिष्ठातत्त्वम्
*
अथ ध्वजचिह्नविधिः ।“सिंहारूढा ध्वजे यस्य नृपस्य रिपुहा उमा ।द्वारस्था पूज्यते वत्स ! तस्य रिपुजं भयम्
कपिसंस्था महामाया सर्व्वशत्रुविनाशिनी ।वृषे यथेप्सितं दद्यात् कलसे श्रेय उत्तमम्
हंसे विद्यार्थकामन्तु वर्हिणे सुतमिष्टदा ।गरुत्मगा महामाया सर्व्वरोगविनाशिनी
महिषस्था महामारीः शमयेत् ध्वजसंस्थिता ।करिगा सर्व्वकार्य्येषु नृपैः कार्य्या त्रिशूलिनी
पद्मस्था चर्च्चिका रौप्या धर्म्मकामार्थमोक्षदा ।प्रेतस्था सर्व्वभयहा नित्यं पशुनिपातनात्
पूजिता देवराजेन्द्रनीलोत्पलकरावरा ।भवते सिद्धकामस्य चिह्नाग्रे संव्यवस्थिता
गन्धपुष्पार्च्चितं कृत्वा वस्त्रहेमसुचर्च्चितम् ।फलशालियवसूचिबर्द्धमानषिभूषितम्
शोभने उच्छ्रयेल्लग्ने पताकां वा मनोरमाम्
चामरं कलसं शङ्खमातपत्रं वितानकम् ।भवते सिद्धकामस्य नृपस्य फलदायकम्
नमो विश्वेश्वरि दुर्गे ! चामुण्डे चण्डहारिणि ! ।ध्वजं समुच्छ्रयिष्यामि वसोर्धारां सुखावहाम्
”अथ ध्वजदानविधिः ।विश्वेश्वर उवाच ।“यद्येवं सा महाभागा ब्रह्मविष्णुपरापरा ।तदहं श्रोतुमिच्छामि ध्वजदानं विधानतः
अगस्त्य उवाच ।यथा त्वं पृच्छसे वत्स ! तथा शुक्रेण ब्रह्मणि ।पृष्टः पूर्व्वं तथा तेन शम्भुगीतं प्रकाशितम्
शुक्रस्य भावयुक्तस्य तदहन्ते महात्मनः ।कथयामि यथान्यायं ध्वजदानं महाफलम्
शुक्र उवाच ।देव्या ध्वजप्रमाणन्तु विधिदत्तस्य लाञ्छनम् ।दीयते यथा नाथ ! तदशेषं ब्रवीहि नः
ईश्वर उवाच ।अण्डजं कृमिजं वापि ध्वजं केशविवर्ज्जितम् ।नवं समञ्च श्लक्ष्णञ्च प्रासादाद्दण्डवर्द्धितम्
समं श्लक्ष्णं मृदुं शुभ्रं शैलं वा धातुजं हि वा
तस्मिन् पटे लिखेत् सिंहं सर्व्वलक्षणलक्षितम् ।रोचना सह चन्द्रेण हेमलेखाद्यदूर्व्वया
प्रासादाद्दोलमानन्तु क्षितिं विस्तरतः करम् ।ध्वजापादेन कर्त्तव्या दर्शयेद्दिक्षु देवताः
सर्व्वा वाहनलाञ्छेन लाञ्छिताः सहजेन ।किङ्किणीचामरोपेता घण्टादर्पणशोभिताः
हुतहोमो महाप्राज्ञः सहकारदलान्वितान् ।महामङ्गलशब्देन देव्याः कुम्भान् प्रपूजयेत्
सुगन्धपुष्पनैवेद्ययथाविभवविस्तरैः ।कन्यका ब्राह्मणान् भोज्य दधिपायसशर्करैः
भूतानान्तु वलिं दत्त्वा तथा तमुपरोहयेत्
सर्व्वकामानवाप्नोति विद्याधरपतिर्भवेत् ।मोदते विविधान् भोगान् सर्व्वविद्यार्थपारगः
अथवा हैमं रौप्यं वा वार्क्षं पार्थिवशैलजम् ।कारयेन्मृगराजन्तु महाकरिमदापहम्
महानखकरोत्खातमुक्ताफलपदप्रदम् ।एवंविधं ततः कृत्वा नवम्यां पूजयेच्छिवाम्
सोपवासः शुचिर्दक्षः सर्व्वसङ्गविवर्ज्जितः ।कन्यकाः पूजयित्वा तु विप्रान् वेदविदस्ततः
देव्या भक्ताः सदाचारास्त्रिकालहवने रताः ।ते यथाशक्तितस्तोष्पा ध्वजारोहणकर्म्मणि
कन्या देव्या स्वयं प्रोक्ताः कन्यारूपा तुशूलिनी ।यावदक्षतयोनिः स्यात्तावद्देवी सुरारिहा
द्विजो ब्रह्मा शिवो विष्णुः स्वकीयव्रतपालकः ।पूजितैस्तैः सदा शुक्र सर्व्वदेवास्तु पूजिताः
दीनान्धकृपणानान्तु अन्नं देयन्तु शक्तितः ।यथा सर्व्वगता देवी तदुद्दिश्याक्षयं भवेत्
नानाभक्ताक्षतदधिदूर्व्वातत्कणिकान्वितम् ।वलिं वै सर्व्वभूतेभ्यो दशदिक्षु निवेदयेत्
वज्रघोणा तथा जप्त्वा अष्टविंशाक्षरापि वा ।सिंहं स्तम्भे समारोप्य सर्व्वमङ्गलशब्दितम्
वेदध्वनिमहामन्त्रकालिकाचण्डिकापरम् ।न्यस्य सिंहं परं ध्यायेद्यादृशं पूर्व्वकल्पितम्
एवन्तु वस्त्रसंवीतं सर्व्वाभरणभूषितम् ।देव्या महाध्वजं न्यस्य शेषाणामपि विन्यसेत्
ब्रह्मविष्ण्विन्द्ररुद्राणां सोमसूर्य्यदिवौकसाम् ।ध्वजदानं महादानं सर्व्वदानोत्तमं मतम्
यावन्नो दीयते शुक्र ! ध्वजः प्रासादमूर्द्धनि ।तावत्तु भवेद्बत्स ! प्रासादो देववाञ्छितः
शून्यध्वजं सदा भूता नानागन्धर्व्वराक्षसाः ।विद्रवन्ति महात्मानो नानावाधाञ्च कुर्व्वते
तस्माद्देवगृहद्वारपुरपर्ष्वतपत्तने ।उच्छ्रिताः शान्तिकामाय ध्वजाः शुक्र ! सदाहिताः
हि चान्यद्ध्वजदानादुत्तमं भारते क्वचित् ।दानमिष्टञ्च पुष्टञ्च देव्या दीपन्तथैव
अनेन विधिना यस्तु ध्वजं शुक्र ! निवेदयेत् ।सर्व्वकामानवाप्नोति नरः शिवतां व्रजेत्
तस्य दर्शनसम्भाषादपि पापरता नराः ।विमुक्ताः सर्व्वपापेभ्यो दिवं यान्ति संशयः
राज्ञा चानेन विधिना देवीलाञ्छनरञ्जिताम् ।शङ्खचक्रवृषभार्क्षहंसवर्हिणवारणैः ।साचारो भक्तिमास्थाय ध्वजयष्टिं समुच्छ्रयेत् ।न तस्य सङ्गरे शुक्र ! व्याधयो वैरिणः ।नैव शस्त्रव्रणपीडा भवेच्छां समुच्छ्रयेत्
”इति देवीपुराणम्