| YouTube Channel

ध्वंसनं (dhvaMsanaM)

 
शब्दकल्पद्रुमः
Sanskrit
ध्वंसनं,
क्ली,
(ध्वंस + भावे ल्युट् ।) ध्वंसः (यथा, भागवते २३ ।“इति वाव जगतीपतिरीश्वरेच्छयाधिनि-वेशितकर्म्माधिकारोऽखिलजगद्बन्धध्वंसनापरानु-भावस्य भगवतः इति
”) गमनम् अधःपत-नम् इति ध्वन्सधातोर्भावेऽनट्प्रत्ययः
(ध्वंसय-तीति ध्वंस + णिच् + ल्युः ध्वंसके, त्रि ।यथा, महाभारते १५६ ।“प्रजापतिमिवौदार्य्ये तेजसा भास्करोपमम् ।महेन्द्रमिव शत्रूणां ध्वंसनं शरवृष्टिभिः
”)