| YouTube Channel

ध्रज (dhraja)

 
शब्दसागरः
English
ध्रज r. 1st cl. (ध्रजति) To go
also (इ) ध्रञ्जि r. 1st cl. (ध्रंजति) To go or
move. भ्वा० प० सक० सेट्
Wilson
English
ध्रज r. 1st cl. (ध्रजति) To go
also (इ) ध्रञ्जि r. 1st
cl. (ध्रंजति) To go or move.
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
ध्रज्
मूलधातुः:
ध्रज
धात्वर्थः:
गतौ
गणः:
भ्वादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
परस्मैपदी
रूपम्:
ध्रजति
धातुप्रदीपः
Sanskrit
ध्रजँ ध्रज
मानकरूपान्तरम् - ध्रजिँ
ध्रजि
मानकरूपान्तरम् - धृजँ
धृज
मानकरूपान्तरम् - धृजिँ
धृजि
मानकरूपान्तरम् - ध्वजँ
ध्वज
मानकरूपान्तरम् - ध्वजिँ
ध्वजि गतौ
- ध्रजति दध्राज ध्रञ्जति धर्जति दरीधृज्यते धृञ्जति दरीधृञ्ज्यते ध्वजति ध्वञ्जति ।। 214-219 ।।
शब्दकल्पद्रुमः
Sanskrit
ध्रज, गतौ इति कविकल्पद्रुमः
(भ्वां-परं-सकं-सेट् ।) ध्रजति इति दुर्गादासः
ध्रज, गतौ इति कविकल्पद्रुमः
(भ्वां-परं-सकं-सेट् इदित् ।) इ, ध्रञ्ज्यते इति दुर्गा-दासः
वाचस्पत्यम्
Sanskrit
ध्रज गतौ
भ्वा०
पर०
सक०
सेट् ध्रजति अध्राजीत् अध्र-जीत् अयमिदिच्च ध्रञ्जति अध्रञ्जीत् दध्राज दध्रञ्ज ।ध्रज्यते ध्रञ्ज्यते “उपध्रजन्तमद्रयो विधन्नित्” ऋ० ।१४९ “घृणा यो ध्रजसा पत्मना” ऋ० ध्रज-असुन् “ध्रजसा गतिशीलेन” भा०
धातुवृत्तिः
Sanskrit
ध्रजँ ध्रज
मानकरूपान्तरम् - ध्रजिँ
ध्रजि
मानकरूपान्तरम् - धृजँ
धृज
मानकरूपान्तरम् - धृजिँ
धृजि
मानकरूपान्तरम् - ध्वजँ
ध्वज
मानकरूपान्तरम् - ध्वजिँ
ध्वजि (अर्थः) गतौ
( ध्रजति दध्राज ध्रजितेत्यादि अध्रजीत् अध्राजीत् ) "अतो हलादे0'' इति वा वृद्धिः ( दिध्रजिषति दाध्रज्यते दाध्रजीति दाध्रक्ति )"चोः कुः'' झलि पदान्ते "खरि च'' इति चर्त्वम् ( ध्राजयति अदिध्रजत् ध्रञ्जति दध्रञ्ज ध्रञ्जितेत्यादि दिध्रञ्जिषति दाध्रञ्ज्यते दिध्रञ्जिषति दाधृज्यते दाध्रञ्जीति दाध्रङ्क्ति ) लङि तिप्सिपोर्हलङ्यादिलोपे संयोगान्तलोपे ( अदाध्रन् धर्जति दधर्ज धर्जितेत्यादि दिधर्जिषति दरीघृज्यते ) "रीगृदुपधस्य च'' इति रीक् ( दर्ध्रजीति दरिधृजीति दरीधृजीति दर्धर्क्ति दरिधर्क्ति दरीधर्क्ति )" रुग्रिकौ लकि'' इति रुग्रिग्रीकः "नभ्यस्तस्याच्''इति पक्षे गुणः, एवं तसादौ ( दर्धर्क्तः) इत्याद्युदाहार्यम् धर्जयति अदध्रजत् अदीधृजत् उरृद्वा धर्जित्वा) "न क्त्वा सेट्'' इत्यकित्त्वाद्गुणः, धृज्यम्, "ऋदुपधाच्चाक्लृपिचृतेः'' इति क्यप् धर्जः "चजोः कुधिण्ण्यतोर्निष्ठायामनिटः'' इति वार्त्तिकसूत्रेणकुत्वम् ( धृञ्जति दधृञ्ज धृञितेत्यादि दिधृजिषति दरीधृञ्ज्यते ) पूर्ववद्रीक् ( दायधृञ्जीति दाधृङ्क्तीत्यादि धृजिवत् ) लङि तिप्सिपोर्हलङ्यादिलोपसंयोगान्तलोपयोरदाधृन् संयोगान्तलोपस्यासिद्धत्वात् अलघूपधत्वात् प्रत्ययलक्षणेन गुणः ( धृञ्जयति अदधृञ्जत् ध्वजति ध्वञ्जतीत्यादि ) ध्रजधृजिवत् तरङ्गिणीकाश्यपसंमतास्तु आद्यौ व्रजव्रजी इति दन्त्योष्ट्यादी पठ्येते सर्वत्र तवर्गीयादीएव220
कृदन्तरूपमाला
Sanskrit
1 {@“ध्रज गतौ”@} 2 ‘धर्जेद् धृञ्जेद् ध्रजेद् ध्रञ्जेद् ध्वजेद् ध्वञ्जेद् गतौ शपि।’ 3 इति देवः।
ध्राजकः-जिका, ध्राजकः-जिका, दिध्रजिषकः-षिका, दाध्रजकः-जिका
ध्रजिता-त्री, ध्राजयिता-त्री, दिध्रजिषिता-त्री, दाध्रजिता-त्री
ध्रजन्-न्ती, ध्राजयन्-न्ती, दिध्रजिषन्-न्ती
-- ध्रजिष्यन्-न्ती-ती, ध्राजयिष्यन्-न्ती-ती, दिध्रजिषिष्यन्-न्ती-ती
-- -- ध्राजयमानः, ध्राजयिष्यमाणः, -- दाध्रज्यमानः, दाध्रजिष्यमाणः
सुध्रक्-सुध्रग्-सुध्रजौ-सुध्रजः
-- -- -- ध्रजितम्-तः, ध्राजितः, दिध्रजिषितः, दाध्रजितः-तवान्
ध्रजः, ध्राजः, दिध्रजिषुः, दाध्रजः
ध्रजितव्यम्, ध्राजयितव्यम्, दिध्रजिषितव्यम्, दाध्रजितव्यम्
ध्रजनीयम्, ध्राजनीयम्, दिध्रजिषणीयम्, दाध्रजनीयम्
ध्राज्यम्, ध्राज्यम्, दिध्रजिष्यम्, दाध्रज्यम्
ईषद्ध्रजः-दुर्ध्रजः-सुध्रजः
-- -- ध्रज्यमानः, ध्राज्यमानः, दिध्रजिष्यमाणः, दाध्रज्यमानः
ध्राजः, ध्राजः, दिध्रजिषः, दाध्रजः
ध्रजितुम्, ध्राजयितुम्, दिध्रजिषितुम्, दाध्रजितुम्
ध्रक्तिः, ध्राजना, दिध्रजिषा, दाध्रजा
ध्रजनम्, ध्राजनम्, दिध्रजिषणम्, दाध्रजनम्
ध्रजित्वा, ध्राजयित्वा, दिध्रजिषित्वा, दाध्रजित्वा
प्रध्रज्य, प्रध्राज्य, प्रदिध्रजिष्य, प्रदाध्रज्य
ध्राजम् २, ध्रजित्वा २, ध्राजम् २, ध्राजयित्वा २, दिध्रजिषम् २, दिध्रजिषित्वा २, दाध्रजम्
दाध्रजित्वा।
प्रासङ्गिक्यः
01
=>
(९२६)
02
=>
(१-भ्वादिः-२१९। सक। सेट्। पर।)
03
=>
(श्लो। ६०)