| YouTube Channel

धैर्य्य (dhairyya)

 
शब्दसागरः
English
धैर्य्य
n.
(-र्य्यं) Steadiness, firmness.
E.
धीर firm. ष्यञ्
aff.
Yates
English
धैर्य्य (र्य्यं) 1.
n.
Steadiness, firmness.
Wilson
English
धैर्य्य
n.
(-र्य्यं) Steadiness, firmness.
E.
धीर firm, ष्यञ्
aff.
वाचस्पत्यम्
Sanskrit
धैर्य्य
न०
धीरस्य भावः कर्म वा ष्यञ् धृतौ “स्थिराचित्तोन्नतिर्या तु तद्धैर्य्यमिति संज्ञितमिति” भूपालकोषः ।२ अप्रमादे अत्याकुलत्वे विघ्नाद्युपस्थितावपि प्रारब्धा-परित्यागहेतावन्तःकरणवृत्तिविशेषे निर्विकारचि-त्तत्वे “मनसो निर्विकारत्वं धैर्य्यं सत्स्वपि हेतुषु”एतदभिप्रायेण “विकारहेतौ सति विक्रियन्ते येषां नचेतांसि तएव धीराः” इति कुमा० उक्तम् “कुर्य्यां हर-स्यापि पिनाकपाणेर्वैर्य्यच्युतिं के मम धन्विनोऽन्ये”कुमा० “अवधीर्य धैर्यकलिता दयितम्” माघः नाय-कयोर्गुणभेदे धीरताशब्दे दृश्यम् पुरुषगुणभेदेयथा “शोभा विलासो माधुर्य्यं गाम्भीर्य्यं धैर्य्यतेजसी ललितौदार्य्यमित्यष्टौ सत्वजाः पौरुषा गुणाः”इत्युद्दिश्य “व्यवसायादचलनं धैर्य्यं विघ्ने महत्यपि”सा० द० लक्षितम् उदाहृतञ्च “श्रुताप्सरोगीतिरपिक्षणेऽणिन् हरः प्रसंख्यानपरो बभूव आत्मेश्वराणां नहि जातु विघ्नाः समाधिभेदप्रभवो भवन्ति” स्वार्थेघ्यञ् पुरुषमेधयज्ञे हौम्यदेवभेदे
पु०
तदुपक्रमे“मेधायै रथकारं धैर्य्याय तक्षाणम्” यजु० ३०