| YouTube Channel

धेनुमूल्य (dhenumUlya)

 
वाचस्पत्यम्
Sanskrit
धेनुमूल्य
न०
त० प्रायश्चित्तरूपधेनुदानस्य निष्क्रय-रूपे मूल्यभेदे तच्च प्रायश्चित्ततत्त्वे व्यवस्थापितं यथा“अथ धेनुमूल्यव्यवस्था संवर्त्तः “प्राजापत्य-व्रताशक्तौ धेनुं दद्यात् पयस्विनीम् धेनोरभावेदातव्यं तुल्यं मूल्यं संशयः” पयस्विनीमितिविशेषणं दुग्धोपयोगाय सा वत्सं विना सम्भवति ।अतः सवत्साया एव दानं मुख्यं तदभावे यथोचितंतन्मूल्यं तदभावे पुराणत्रयम् “द्वात्रिंशत्पणिकागावोवत्सः पौराणिको भवेत्” कात्यायनवचनात् ।षटुत्रिंशन्मतमिति कृत्वा पठन्ति “धेनुः पञ्चभिराद्यानांमध्यानां त्रिपुराणिकी कार्षापणैकमूल्या हि दरि-द्राणां प्रकीर्त्तिता” अत्र पुराणत्रयलभ्यं गोतमीक्तंहिरण्यादिकमेव देयं तद् यथा “हिरण्यं गौर्वासो-ऽश्वोभूमिस्तिला घृतषन्नमिति देयानि” एतान्येवा-नादेशे विकल्पेन क्रियेरन्निति अन्यथा इदमनर्थकंस्यात् इति” प्रायश्चित्तविवेकः तच्चिन्त्यं हिरण्यंगौरित्यादिना गोर्विकल्पकत्वेन हिरण्यादिकमुक्तं नतु गोमूल्यत्वेन ततश्च “द्वात्रिंशत्पणिका गावः” इत्यादि-वचनात् कार्षापणत्रयदानमेव युक्तम् तत्र “ताम्रिकःकार्षिकः पणः” इति याज्ञवल्क्यवचनेन “गुञ्जाः पञ्चा-द्यमाषकः ते षोडशाक्षः कर्षोऽस्त्री पलं कर्षचतु-ष्टयं” इत्यमरसिंहोक्तेन अशीतिरत्तिकापरिमितताम्रेपणशब्दः सङ्केतितः तावत्संख्यकवराटकैर्लभ्यतइति वराटकेष्वपि तथा व्यवहारः एतन्मूलकं भवि-ष्यमत्स्यसूक्तयोर्वचनम् “अशीतिभिर्वराटकैः पण इत्य-भिवीयते पुराणं ते षोडशभिः रजतं सप्तभिस्तुनैः” गोतमोक्तपरिगणनीयनियमस्तु अनादिष्टेप्राथमिककल्पाय आदिष्टे तत्तद्रव्यप्राधान्यं हिरण्यादेरानुकल्पिकत्वमिति विशेषः अतएव यमेन सामान्यतोदानमुक्तं यथा “शोषणेन शरीरस्य तपसाऽध्ययनेनच पापकृन्मुच्यते पापात् दानेन दमनन च” ।अतः कार्षापणत्रयलभ्यं रजतादि दीयते यत्तु मिता-क्षरायाम् “गवासभावे निष्कः स्याचदर्द्धं पादएवच” इति स्मरणान्निष्कादिकमुक्तं तच्छक्ततमाद्यपेक्षयातत्रापि “चतुःसौवर्णिको निष्क्रः” इति मनूक्तनिष्कस्यन ग्रहणम् अत्यन्तविसदृशमूल्यत्वात् साष्टशतसुवर्णनिष्क-वत् किन्तु दीनारनिष्कस्य ग्रहणं तथा चामरः ।“साष्टे शते सुवर्णानां हेम्न्युरोभूषणे पले” दीना-रेऽपि निष्कोऽस्त्री” इति दीनार उक्तो विष्णु-गुप्तेन “दीनारोरोपकैरष्टाविंशत्या परिकीर्त्तितः ।सुवर्णसप्ततितमो भागोरोपक उच्यते” सुवर्णस्त्वशी-तिरत्तिकापरिमितं हेम तथा मनुः “पञ्चकृष्ण-लकोमाषस्ते सुवर्णस्तु षोडश” इति अत्र काञ्चनं व्यक्त-माहामरसिंहः “सुवर्णविस्तौ हेम्नोऽक्षः” इति ।एवञ्च सप्तमांशाधिकहेमरत्तिका रोपकः तदष्टाविंशत्याद्वात्रिंशद्रत्तिकापरिमितोदीनारो निष्कः” प्रा० त० रघु०