| YouTube Channel

धेनुः (dhenuH)

 
Apte
English
धेनुः [dhēnuḥ],
f.
[धयति सुतान्, धीयते वत्सैर्वा, धे-नु इच्च Tv.]
A cow, milch-cow
धेनुं धीराः सूनृतां वाचमाहुः
U.*
5.31.
The female of a species (affixed to the names of other animals in this sense)
as खड्गधेनुः, वडवधेनुः
&c.
The earth. (Sometimes at the end of
comp.
धेनु forms a diminutive
as असिधेनुः, खड्गधेनुः).
Any offering or present to Brāhmaṇa instead of or in the shape of a cow such as गुडधेनु, घृतधेनु, तिलधेनु, जलधेनु, क्षीरधेनु, मधुधेनु, शर्कराधेनु, दधिधेनु, रसधेनु, स्वरूपधेनु
Matsya
P.
A mare
यथा धेनुः किशोरेण MS.* 7.4.7. (तद्यथा कृष्णकिशोरा धेनुरिति यद्यपि धेनुशब्दो गोधेन्वां दृष्टप्रवृत्तिस्तथाप्यभि- धानसामान्यादश्वधेन्वामपि भागीति किशोरेण लिङ्गेन अश्वधेन्वां विज्ञायते ŚB.).
Comp.
-दक्षिण
a.
(a sacrifice) whereat a cow is given as a fee.
दुग्धम् cow's milk.
a kind of gourd (Mar. चिबुड). -मक्षिका a gadfly.
Apte 1890
English
धेनुः f. [धयति सुतान्, धीयते वत्सैर्वा, धे-नु इच्च Tv.] 1 A cow, milch-cow
धेनु धीराः सूनृतां वाचमाहुः U. 5. 31.
2 The female of a species (affixed to the names of other animals in this sense)
as खड्गधेनुः, वडवधेनुः &c.
3 The earth. (Sometimes at the end of comp. धेनु forms a diminutive
as असिधेनुः, खड्गधेनुः).
4 A gift, present.
Comp.
मक्षिका a gadfly.
Apte Hindi
Hindi
धेनुः
स्त्री*
- "धयति सुतान्, धीयते वत्सैर्वा- धे + नु इच्च तारा*"
"गाय, दुधार गाय"
धेनुः
स्त्री*
- "धयति सुतान्, धीयते वत्सैर्वा- धे + नु इच्च तारा*"
किसी जाति की स्त्री
धेनुः
स्त्री*
- -
पृथ्वी
धेनुः
स्त्री*
- "धयति सुतान्+धे+नु, इच्च"
गाय
धेनुः
स्त्री*
- "धयति सुतान्+धे+नु, इच्च"
दूध देने वाली गौ
धेनुः
स्त्री*
- "धयति सुतान्+धे+नु, इच्च"
पृथ्वी
धेनुः
स्त्री*
- "धयति सुतान्+धे+नु, इच्च"
घोड़ी
Wordnet
Sanskrit
Synonyms:
स्त्रीगवी, धेनुः, तुम्बा, निलिम्पा, रोहिणी, पयस्विनी
noun
पयोयुक्ता गौः।
"रामेण स्त्रीगवी क्रीता।"
Synonyms:
गौः, माहेषी, सौरभेयी, उस्रा, माता, शृङ्गिणी, अर्जुनी, अघ्न्या, रोहिणी, माहेन्द्री, इज्या, धेनुः, अघ्ना, दोग्ध्री, भद्रा, भूगिमही, अनडुही, कल्याणी, पानवी, गौरी, सुरभिः, मबा, निलिनाचिः, सुरभी, अनड्वाही, अधमा, बहुला, मही, सरस्वती, उस्रिया, अही, अदितिः, इला, जगती, शर्करी
noun
ग्राम्यपशुविशेषः, यः सास्नालाङ्गुलककुदखुरविषाणी तथा तस्याः दुग्धं मनुष्याय पुष्टीकारकम् इति मन्यन्ते।
"हिन्दुधर्मीयाणां कृते गौः अवध्या अस्ति।"
शब्दकल्पद्रुमः
Sanskrit
धेनुः,
स्त्री,
(धयति लेढि सुतान् धीयते वत्सैरितिवा धेट पाने + “घेट इच्च ।” उणां ३४ ।इति नुः इश्चान्तादेशः ।) नवप्रसूता गौः तत्-पर्य्यायः नवसूतिका इत्यमरः ।७१
नवप्रसूतिका इति शब्दरत्नावली
दानीयदशधेनवो यथा, --“यास्तु पापविनाशिन्यः पठ्यन्ते दशधेनवः ।तासां स्वरूपं वक्ष्यामि नामानि धनाधिप !
प्रथमा गुडधेनुः स्याद्घृतधेनुरथापि वा ।तिलधेनुस्तृतीया चतुर्थी जलसंज्ञिका
क्षीरधेनुश्च विख्याता मधुधेनुरथापि वा ।सप्तमी शर्कराधेनुर्दधिधेनुरथाष्टमी
रसधेनुश्च नवमी दशमी स्यात् स्वरूपतः
कुम्भाः स्युर्द्रवधेनूनामितरासान्तु राशयः ।सुवर्णधेनुमप्यत्र केचिदिच्छन्ति मानवाः
नवनीतेन तैलेन तथान्ये तु महर्षयः ।एतदेव विधानं स्यात्त एवोपस्कराः स्मृताः
मन्त्रावाहनसंयुक्ताः सदा पर्व्वणि पर्व्वणि ।यथाश्राद्धं प्रदातव्या भुक्तिमुक्तिफलप्रदाः
गुडधेनुप्रसङ्गेन सर्व्वास्तव मयोदिताः ।अशेषयज्ञफलदाः सर्व्वपापहराः शुभाः
व्रतानामुत्तमा यस्माद्बिशोकद्वादशीव्रतम् ।तदङ्गत्वेन चैषात्र गुडधेनुः प्रशस्यते
अयने विषुवे पुण्ये व्यतीपातेऽथवा पुनः ।गुडधेन्वादयो देयास्तूपरागादिपर्व्वसु
”इति मत्स्यपुराणे ७६ अध्यायः
पूर्व्वोक्तधेनूनां दानविधयस्तत्तच्छब्दे द्रष्टव्याः
*
अथ कपिलाधेनुदानादिफलम् ।होतोवाच ।“अथातः संप्रवक्ष्यामि कपिलाधेनुमुत्तमाम् ।यत्प्रदानान्नरो याति विष्णुलोकमनुत्तमम्
पूर्व्वोक्तेन विधानेन दद्याद्धेनुं सवत्सकाम् ।सर्व्वालङ्कारसंयुक्तां सर्व्वरत्नसमन्विताम्
कपिलायाः शिरोग्रीवे सर्व्वतीर्थानि भामिनि ! ।पितामहनियोगाच्च निवसन्ति हि नित्यशः
प्रातरुत्थाय यो मर्त्यः कपिलागलमस्तकात् ।च्युतन्तु भक्त्या पानीयं शिरसा वन्दते शुचिः
तेन पुण्यतोयेन तत्क्षणाद्दग्धकिल्विषः ।त्रिंशद्बर्षकृतं पापं दहत्यग्निरिवेन्धनम्
कल्यमुत्थाय यो मर्त्यः कुर्य्यात्तासां प्रदक्षिणम् ।प्रदक्षिणीकृता तेन पृथिवी स्यात् वसुन्धरे !
प्रदक्षिणेन चैकेन श्रद्धायुक्तेन तत्क्षणात् ।दशजन्मकृतं पापं तस्य नश्यत्यसंशयम्
कपिलायास्तु मूत्रेण स्नात्वा चैव शुचिव्रतः ।स गङ्गादिषु तीर्थेषु स्नातो भवति मानवः
तेन स्नानेन चैकेन भावयुक्तेन वै नरः ।यावज्जीवकृतात् पापात् मुच्यते नात्र संशयः
गोसहस्रन्तु यो दद्यादेकाञ्च कपिलां नरः ।सममेतत् पुरा प्राह ब्रह्मा लोकपितामहः
गवामस्थि लङ्घेत मृते गन्धे दूषयेत् ।यावज्जिघ्रति तं गन्धं तावत् पुण्यैस्तु पूर्य्यते
गवां कण्डूयनं श्रेष्ठं तथा परिपालनम् ।तुल्यं गोशतदानस्य भयरोगादिपालने
तृणोदकानि यो दद्यात् क्षुधितानां गवाह्निकम् ।सोऽश्वमेधफलं दिव्यं लभते मानवोत्तमः
विमानैर्विविधैर्द्दिव्यैः कन्याभिरभिरर्च्चितैः ।सेव्यमानस्तु गन्धर्व्वैर्दीप्यमानो यथाग्नयः
*
एकादशप्रकारकपिलालक्षणं यथा, --“सुवर्णकपिला पूर्व्वं द्वितीया गौरपिङ्गला ।तृतीया चैव रक्ताक्षी चतुर्थी गुडपिङ्गला
पञ्चमी बहुवर्णा स्यात् षष्ठी श्वेतपिङ्गला ।सप्तमी श्वेतपिङ्गाक्षी अष्टमी कृष्णपिङ्गला
नवमी पाटला ज्ञेया दशमी पुच्छपिङ्गला ।एकादशी खुरश्वेता एतासां सर्व्वलक्षणा
सर्व्वलक्षणसंयुक्ता सर्व्वालङ्कारसुन्दरी ।ब्राह्मणाय दातव्या सर्व्वमुक्तिप्रदायिनी ।भुक्तिमुक्तिप्रदा तेषां विष्णुमार्गप्रदायिनी
”इति कपिलामाहात्म्यम्
*
अथोभयमुखीधेनुदानादिविधानम् ।होता उवाच ।“अतःपरं महाराजोभयमुख्याः समासतः ।विधानं यद्बरारोहे ! धरण्याः कथितं पुरा ।तदहं संप्रवक्ष्यामि तव पुण्यफलञ्च यत्
धरण्युवाच ।यत्त्वया कपिला नाम पूर्व्वमुत्पादिता प्रभो ! ।होमधेनुः सदा पुण्या सा ज्ञेया कतिलक्षणा ।कियन्त्यः कपिलाः प्रोक्ताः स्वयमेव स्वयम्भुवा
प्रसूयमाना दानेन किं पुण्यं स्याच्च माधव ! ।एतदिच्छाम्यहं श्रोतुं विस्तरेण जगद्गुरो !
श्रीवराह उवाच ।शृणुष्व भद्रे ! तत्त्वेन पवित्रं पापनाशनम् ।यं श्रुत्वा सर्व्वपापेभ्यो मुच्यते नात्र संशयः
कपिला अग्निहोत्रार्थे यज्ञार्थे वरानने ! ।उद्धृत्य सर्व्वतेजांसि ब्रह्मणा निर्म्मिता पुरा
पवित्राणां पवित्रञ्च मङ्गलानाञ्च मङ्गलम् ।पुण्यानां परमं पुण्यं कपिला वसुन्धरे !
तपसस्तप एवाग्र्यं व्रतानां व्रतमुत्तमम् ।दानानामुत्तमं दानं निधीनां ह्यतदक्षयम्
पृथिव्यां यानि तीर्थानि गुह्यान्यायतनानि ।पवित्राणाञ्च पुण्यानि सर्व्वलोकेषु सुन्दरि !
होतव्यान्यग्निहोत्राणि सायं प्रातर्द्विजातिभिः ।कपिलाया घृतेनेह दध्ना क्षीरेण वा पुनः
जुहुते ह्यग्निहोत्राणि मन्त्रैश्च विविधैः सदा ।पूजयन्नतिथींश्चैव परां भक्तिमुपागताः
ते यान्त्यादित्यवर्णैश्च विमानैर्द्विजसत्तमाः ।सूर्य्यमण्डलमध्ये ब्रह्मणा निर्म्मिता पुरा
कपिला या पिङ्गलाक्षी सर्व्वसौख्यप्रदायिनी ।सिद्धिबुद्धिकरी देवी कपिलानन्तरूपिणी
पूर्व्वोक्ता यास्तु कपिलाः सर्व्वलक्षणलक्षिताः ।एतादृश्यः समाख्याताः कपिलास्ते वरानने !
सर्व्वा ह्येता महाभागास्तारयन्ति संशयः ।सङ्गमेषु प्रशस्ता सर्व्वपापप्रणाशिनी
अग्निपुच्छा अग्निमुखी अग्निलोमानलप्रभा ।तथाग्नेयी सदा देवी सुवर्णाख्या प्रवर्त्तते
*
शूद्रात् कपिलाप्रतिग्रहे दोषो यथा, --“गृहीत्वा कपिलां शूद्रात् कामतः सदृशो भवेत् ।पतितः द्विजातीनां चाण्डालसदृशो हि सः
तस्मात् प्रतिगृह्णीयात् शूद्राद्विप्रः प्रतिग्रहम् ।दूरात्ते प्रतिहर्त्तव्याः श्वभिस्तुल्या इवाध्वरे
सर्व्वकाले हि सर्व्वे वै वर्ज्जिताः पितृदैवतैः ।असम्भाष्याप्रतिग्राह्याः शूद्रास्ते पापकर्म्मिणः
पिबन्ति यावत् कपिलां तावत्तेषां पितामहाः ।भूमेर्म्मलं समश्नन्ति जायन्ते विड्भुजश्चिरम्
*शूद्रस्य कपिलाक्षीरादिपाने दोषो यथा, --“तासां क्षीरं घृतं वापि नवनीतमथापि वा ।उपजीवन्ति ये शूद्रास्तेषां गतिमथो शृणु
कपिलाजीविनः शूद्राः क्रूरा गच्छन्ति रौरवम् ।रौरवे तु महारौद्रे वर्षकोटिशतं धरे !
ततोऽपि मुक्ताः कालेन श्वानयोन्यां व्रजन्ति ते ।श्वानयोन्या विमुक्तस्तु विष्ठायां जायते क्रिमिः
विष्ठास्थानेषु पापिष्ठा दुर्गन्धिषु नित्यशः ।भूयो भूयो जायमानास्तत्रोत्तारं विन्दति
ब्राह्मणश्चैव यो विद्वान् कुर्य्यात्तेषां प्रतिग्रहम् ।ततःप्रभृत्यमेध्यान्तः पितरस्तस्य शेरते
तं विप्रन्तु सम्भाषेन्न चैवैकासनं विशेत् ।स नित्यं वर्ज्जनीयो हि दूरात्तु ब्राह्मणोऽध्वरे
यस्तेन सह संभाषेत्तथा चैकासनं व्रजेत्
प्राजापत्यं चरेत् कृच्छ्रं तेन शुध्यति द्विजः
”अथासन्नप्रसवकपिलादानफलादि ।“एकस्य गोप्रदानस्य सहस्रेण तु पूर्य्यते
किमन्यैर्बहुभिर्दानैः कोटिसंख्यातविस्तरैः ।श्रोत्रियाय दरिद्राय सुवृत्तायाहिताग्नये
आसन्नप्रसवां धेनुं दानार्थं प्रतिपालयेत् ।कपिलार्द्धप्रसूता वै दातव्या द्विजन्मने
जायमानस्य वत्सस्य मुखं योन्या प्रदृश्यते ।तावत् सा पृथिवी ज्ञेया यावद्गर्भं मुञ्चति
धेन्वा यावन्ति रोमाणि सवत्साया वसुन्धरे !
तावत्यो वर्षकोट्यस्तु ब्रह्मवादिभिरर्च्चिताः ।वसन्ति ब्रह्मलोके वै ये वै कपिलाप्रदाः
सुवर्णशृङ्गीं यः कृत्वा रौप्यमुक्ताखुरान्तथा ।ब्राह्मणस्य करे दत्त्वा सुवर्णं रौप्यमेव
कपिलायास्तदा पुच्छं ब्राह्मणस्य करे न्यसेत् ।उदकञ्च करे दद्याद्वाचया शुद्धयादिते
ससमुद्रावृता तेन सशैलवनकानना ।रत्नपूर्णा भवेद्दत्ता पृथिवी नात्र संशयः
पृथिवीदानतुल्येन दानेनैतेन वै नरः ।नन्दितो याति पितृभिर्विष्ण्वाख्यं परमं पदम्
ब्रह्मस्वहारी गोघ्नश्च भ्रुणहा पापदेहकः ।महापातकयुक्तोऽपि वञ्चको ब्रह्मदूषकः
निन्दको ब्राह्मणानाञ्च तथा कर्म्मोपदूषकः ।एतैः पातकयुक्तोऽपि गवां दानेन शुध्यति
यश्चोभयमुखीं दद्यात् प्रभूतकनकान्विताम् ।तद्दिनं पयसाहारः पायसेनापि वा भवेत्
सुवर्णस्य सहस्रेण तदर्द्धेनापि भामिनि ! ।तस्याप्यर्द्धशतेनापि पञ्चाशच्च तदर्द्धकम्
यथाशक्ति प्रदातव्या वित्तशाठ्यं विवर्ज्जयेत्
इमां गृह्णोभयमुखीमुभयत्र शमोऽस्तु वै ।मम वंशविवृद्ध्यर्थं सदा स्वस्तिकरी भव
”गोशरीरे देवतानिवेशो यथा, --“दन्तेषु मरुतो देवा जिह्वायान्तु सरस्वती ।खुरमध्ये तु गन्धर्व्वाः खुराग्रेषु तु पन्नगाः
सर्व्वसन्धिषु साध्याश्च चन्द्रादित्यौ तु लोचने ।ककुदि सर्व्वनक्षत्रं लाङ्गूले धर्म्म आश्रितः
अपाने सर्व्वतीर्थानि प्रस्रावे जाह्नवी नदी ।नानाद्वीपसमाकीर्णाश्चत्वारः सागरास्तथा
ऋषयो रोमकूपेषु गोमये पद्मधारिणी ।रोमसु सन्ति विद्याश्च त्वक्केशेष्वयनद्वयम्
धैर्य्यं धृतिश्च क्षान्तिश्च पुष्टिर्वृद्धिस्तथैव ।स्मृतिर्मेधा तथा लज्जा वपुः कीर्त्तिस्तथैव
विद्या शान्तिर्म्मतिश्चैव सन्ततिः परमा तथा ।गच्छन्तीमनुगच्छन्ति एता गां वै संशयः
यत्र गावो जगत्तत्र देवदेवपुरोगमाः ।यत्र गावस्तत्र लक्ष्मीः सांख्यधर्म्मश्च शाश्वतः
सर्व्वरूपेषु ता गावस्तिष्ठन्त्यभिमताः सदा
गावः पवित्रा मङ्गल्या देवानामपि देवताः ।यस्ताः शुश्रूषते भक्त्या पापेभ्यः प्रमुच्यते
”इति वराहपुराणम्