धेट् (dheT)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
In this section, you'll find information about the dhatus (verbal roots) related to your search. This includes details like dhatu information, forms, and any available commentaries.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Shabdartha Kaustubha
Kannadaधेट् - पाने (भ्वा० पर० सक० अनि०) धयति ।
पदविभागः - > धातुः
कन्नडार्थः - > ಕುಡಿ /ಚೀಪು /ನೆಕ್ಕು /ಹೀರು
प्रयोगाः - > "अदाद्वसामधासीच्च रुधिरं वनवासिनाम्"
उल्लेखाः - > भट्टि० १५-२९
धातुपाठः (Krishnacharya)
Sanskrit धे
धेट्
पाने
भ्वादिः
सकर्मकः
अनिट्
परस्मैपदी
धयति
टित्वं
धातुप्रदीपः
Sanskritधेट् पाने
- धयति । दधौ । अधासीत् । अदधत् ।अधात् । धाता । उद्धयः । स्तनन्धयी । धय इति केचित् धायः । धात्री ।। 906 ।।
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
क्षीरतरङ्गिणी
Sanskritधेट् पाने
- टकार स्तनन्धयीत्यादौ ङीबर्थः (द्र0 काशिका 2329) धयति विभाषा घेट्श्व्योः (3149) चङ् अदधत्, अधासीत् विभाषा घ्राधेट्शा (2478) इति सिज्लुक् अधात् पाघ्रा (31137) इति शः-उद्धयः नासिकास्तनयोर्ध्माधेटोः (3229) खश्-स्तनन्धयः नाडीमुष्ट्योश्च (3230) मुष्टिन्धयः दाधेट्सिशदशदो रुः (32159) धारुर्गाः धः कर्मणि ष्ट्रन् (32181) धात्री धेट् इच्च (उ0 334) धेनुः ध्यायतेस्तु (1647) धीः, क्ते (6466) धीतः 872
धातुवृत्तिः
Sanskritधेट् (अर्थः) पाने
एतदादयो जयत्यन्ता अनुदात्ता उदात्तेत्तः ( धयति दधौ दधतुः दथुः दधाथ दधिथ दधिव ) ( सूत्रम्) आदेच उपदेशे शिति (इति सूत्रम्) इति एजन्तो यो धतुरुपदेशे तस्यात्वमिति सर्वत्राकारे "आत औ णल" इति औत्वे वृद्धिः, अन्यत्र क्ङित्यजादावार्द्धधातुके "आतो लोपः'' इत्याल्लोप डटि च तस्य "द्विर्वचनेचि''इति स्थानिवत्त्वाद्धाशब्दस्य द्विर्वचनं, क्रादिनियमादिट्. थलि भारद्वाजनियमादिड्विकल्पः ( धाता धास्यति धयतु अधयत् धयेत् आशिषि धेयात् ) "एर्लिङि'' घुमास्थागापाजहातिसामित्येकारः ( सूत्रम्) दाधा ध्वदाप् (इति सूत्रम्) इति दाण् दाने, देङ् रक्षणे, डुदाञ् दाने, दो अवखण्डने, धेट् पाने, बुधाञ् धारणादौ एते धुसंज्ञकाः, दाप् शोधने दैप् लवन इत्येतौ वर्जयित्वा प्रकृतिवदनुकारणं भवतीत्यात्वेनैजन्तानुकरणग्रहणार्थं दैपः पित्त्वमर्थवद्भवति ( अदधत् अदधताम् ) ( सूत्रम्) विभाषा धेट्श्वयोः (इति सूत्रम्) इति कर्तृवाचिनि लुङि च्लेर्विभाषा चङि "आतो लोप इटि च'' इतृयाल्लोपस्य स्थानिवत्त्वात् "चङि'' इति धाशब्दस्य द्विर्वचनम् ङभावे सिचि "यमरमनमाताम्'' इति सकि सिचश्चेटि (अधासीत् अधासिष्टामित्यादि) यदा "विभाषा घ्राधेद्शाछासः'' इति घ्रादिभ्यः परस्मैपदपरस्य सिचो लुक्. तदा (अधातु अधाताम् अधुरित्यादि) ( सूत्रम्) आतः (इति सूत्रम्) इति झेर्जुस् सिज्लुगन्ताद्यदि भवति आत एवेति नियमार्थमिदं सूत्रमित्युक्तम्, यदा कर्मव्यतिहारे तङ तदा(व्यतिधयते व्यतिदधे) इत्यादि ( सूत्रम्) आदेव उपदेशे (इति सूत्रम्) इत्यत्र शितीति कर्मधारये नञः तत्पुरुषे श एव इत् शित् न शित् अशित इति तेन यस्मिन् विधिस्तदादावल्प्राहण इतीत्संज्ञकशकारादावय पर्युदास इति एशि आत्वमेव भवति तङि "विभाषा धेट्श्व्योः'' इति वा चिङ ( अदधत अदधेताम् ) ( सूत्रम्) स्थाध्वोरिच्च इति (इति सूत्रम्) आत्मनेपदपरस्य सिचः कित्त्वे धातोश्चेत्वे "हस्वादङ्गात्'' इति ज्ञल्परत्वेन सिचो लोपेन ( व्यत्यधि व्यत्यधिषत ) सिचः कित्त्वात् गुणो न भवति इत्वविधानं तु गुणविधानार्थमेव स्यात् "स्याध्वोरिच'' इति एकारस्याविधानमपि हस्वादिति सिचो लोपार्थं लध्वर्थञ्च स्यात् इदं चेत्वं न सिचीत्युच्यते, किं तर्हि इकारश्चान्तादेशः सिच् किद् भवति इत्येतावत् तेनास्य सिज्निमित्तत्वात् संनिपातपरिभाषया सिलोपो न स्थादिति नाशुङ्कनीयम् कर्मणि लुङ्येकवचने ( अधायि ) ( सूत्रम्) आतो युक् चिण्कृतोः (इति सूत्रम्) इति युक् चिणि ञ्णिति कृति परे आकारान्ताङ्गस्य युगित्यर्थेः द्विवचनादौ चिण्वदिट्पक्षे युकि ( अधायिषातामित्यादि अन्यदा ( अधिषातामित्यादि धित्सति ) "सनिमीमा'' इत्यादिना इसिः "सः स्यार्द्धधातुके'' इति तत्वे "अत्र लोपोभ्यासस्य'' इति लोपः( देधीयते) घुमास्थागापजहातिसां हल्''इति एषां हलादौ किङत्यार्द्धधातुके परे आकारस्येकार इतीकारो द्विर्वचनं, ( दाधेति ) ईटि "आद्गुणः'' अन्यदा ( दधाति दाद्धः ) ( सूत्रम्) दनाभ्यतयोरातः (इति सूत्रम्) अनयोराकारस्य क्ङिति सार्वधातुके लोप इति लोपे "झषस्तथोः '' इति धत्वे जश्त्वम् "ई हल्यधोः'' इतीत्वमत्रैवाधोरिति निषेधान्न भवति आकरलोपस्य पूर्वस्मादपि विधाविति स्थानिवद्भावः पूर्वत्रासिद्धे न स्थानिवदिति निषिध्यते अत एव हि अध इति दधातिः पर्युदस्यते धयतेस्त्यवं पयुदासो ऽस्मात् झषन्तात्परस्मैपदपरयोरभावान्न भवति न चयङ्लुकि संभावात्तदार्थोयं पर्युदासः स्यादिति वाच्यम् दधातौ चरितार्थत्वात् तथा च तत्र वृत्तिः दधातिं वर्जयित्वेति काश्यपवषगणौ ( दाधमि दाधामि दाध्वः ) लोटि हौ ( सूत्रम्) ध्वसोरेद्धावभ्यासलोपश्च (इति सूत्रम्) इति अन्तस्यैकारोभ्यासलोपश्च अत्र लोपस्य शित्त्वात्सर्वाश्शेत्वम् तेन ( धेहीति ) भवति लङि ( अदाधात् अदाद्धाम् अदाघुः ) अदाघुः) "सिजभ्यस्त'' इति झेर्जुस् नित्यम् परत्वात् "लङः शाकटायनस्यैव'' एवेति आकारान्तनिबन्धनो विकल्पो नाशङ्क्यः अस्मात्परत्वान्नित्यत्वाच्च "श्नाभ्यस्तयोरातः'' इति पूर्वमेवाल्लोपे आकारान्तस्याभावात्, लिङि ( दाध्यात् ) "श्नाभ्यस्त'' इत्याल्लोपः आशिषि "एर्लिङि'' इत्येत्वं ( दाधेयात् लुडि अदाधात् ) "गातिस्थ'' इति नित्यं सिचो लुक् "विभाषा ध्राधेट्'' इति विकल्पस्तु सानुबन्धकनिदशान्न भवति अत एव "विभाषाघेट्श्वयोः' इति चङपि न भवति ( धापयति धापयते शिशुम् ) आत्वे पुक् पादिषु [ धेट उपसंख्याम् ] इति "निगरणचलन'' इति परस्मैपदं निषिध्यते ( अदीधपत् ) इत्यत्राकाराश्रसयः पुक् तस्योपधात्वसंपादनेन "णौ चङि'' इति ह्रस्वस्य निमित्तं न स्यादिति नाशङ्कयम् "मारणतोषणनिशामनेषु ज्ञा' इति जानातेर्णौ पुकि हस्वार्थात् मित्त्वविधानाल्लिङ्गात् ( उद्धयः धयः ) ( सूत्रम्) पाघ्राध्माधेट्दृशः (इति सूत्रम्) इति उपसृष्टादनुपसृष्टाच्च कर्त्तरि शः (स्तनंधयः नासिकंधयः ) "नासिकास्तनयोर्ध्माघेटोः'' इति खशि मुमागमः नासिकायाः "खित्यनव्ययस्य'' इति ह्रस्वश्च घेटष्टित्त्वमवयवे ऽचरितार्थत्वात् ( स्तनंधयीति ) समुदाये ङीबर्थम् अत्र हरदत्तः स्तनन्धयीत्यत्रैव ङीबिष्यते नान्यत्रेत्याहुरिति इदं खश्प्रत्ययान्तोपलक्षणमित्येके तथा च क्षीरस्वामी स्तनन्धयीत्यादौ ङीबर्थं इति वर्द्धमानोपि शुनिन्धयी स्तन न्धयी खश्प्रत्ययान्त एव ङीबिति ( नाडिन्धयः मुष्टिंधयः) "नाडिमुष्ट्योश्च'' इति खश् ( शुनिंधयः ) खश्प्रकरणे [ वातशुनीतिलशर्धेष्वज्धेट्तुदजहातिभ्य उपसंख्यानम् ] इति शुनिशब्द उपपदे खश् ( घटं ( 1 ) ( 1 ) घटिमिति 2 पु प घटीति 2 पु पा धयः खरिंधयः खरी गर्दभी, वातन्धयः ) [ खरीघटचातेषु ] भाष्ये वक्तव्यात् खश् केचित्तु खरीश्ब्दस्थाने खारीशब्दं परिमाणवचनं पठन्ति, वातशब्दो भाष्ये न दृश्यत इति हरदत्तः तत्र हि उकारोऽपि प्रश्लिष्यते उउक इति, धयन्ति तामिति ( धात्री ) स्तनपायिका, "घः कर्मणि ट्रन्'' इति ट्रन्, कर्मणीतीहाभिघेयनिर्देशः, षित्वं ङीषर्यं, धीत्वा "घुमास्थ'' इतीत्त्वम् ( प्रधाय ) "न ल्यपि'' इतीत्वनिषेधः, "ईत्त्वमवकारादौ'' इति भाष्येऽ स्थितमिति क्किप्यपि ( धीः सन्धिः ) "उपसर्गे घोः किः'' इति किप्रत्ययः धीयत इति ( धाना ) "धापृवस्यजनिभ्यो नः'' इति नः ( धेनुः ) "धेट इच्च'' इति नुप्रत्ययः, इकारश्च धातोरिति ङिद्वचनेषु "ङिति ह्रस्वश्च'' इति पक्षे नदीसंज्ञायामाट् ( धेन्वाइति, धेन्वामित्यत्र ) ( सूत्रम्) इदुह्म्याम् (इति सूत्रम्) इति इकारोकाराभ्यां ङेरामादेशः धिसंज्ञापक्षे गुणादौ ( धेनवे, धेनोरिति, धेनावित्यत्र ) ( सूत्रम्) अच्चधेः (इति सूत्रम्) इति डेरौत्वं, घेश्चाकारः धेनुनां समूहो, (धैनुकम् ) "अचित्तहस्तिधेनोष्ठक्'' इति ठकि "इसुसुक्तान्तात् कः'' इति कादेशः "सामूहिकेषु तदन्तविधिरिष्यते' तेन गोधेनूनां समूहो, ( गौधेनुकमिति भवति ) ( सूत्रम्) जङ्गलधेनुवलजान्तस्य विभाषितमुत्तरम् (इति सूत्रम्) इति वृद्धिनिमित्ते तद्धित उत्तरपददस्य वा वृद्धिः, पूर्वपदस्य तु नित्यम् "पोटायुवति''इत्यादिना समासः अधेनूनां समूहो आधैनवमित्यत्राधेनोरन इति तन्निषेधात् प्राग्दीव्यतीय उत्सादिलक्षणोञ् धेनुः बन्धकीकृता, ( धेनुष्या ) आ ( 1 ) ( 1 ) पीतदुग्धेति 2 पु पा हितदुग्धेति यस्याः प्रसिद्धिः "संज्ञायां धेनुष्या'' इति यत् प्रत्ययः षुगागमश्च निपात्यये धेनुर्भविष्यतीति, ( धेनुम्भव्या ) "धेनोर्भव्ये मुम्'' इति मुमागमः 886
कृदन्तरूपमाला
Sanskrit1 {@“धेट् पाने”@} 2 ‘धेटो धयति पानार्थे, धाञो धत्ते दधात्यपि।’ 3 इति देवः।
4 5 धायकः-यिका, 6 धापकः-पिका, 7 धित्सकः-त्सिका, 8 देधीयकः-यिका
9 प्रणिधाता-त्री, धापयिता-त्री, धित्सिता-त्री, देधीयिता-त्री
10 प्रणिधयन्-न्ती, 11 धापयन्-न्ती, धित्सन्-न्ती
-- प्रणिधास्यन्-न्ती-ती, धापयिष्यन्-न्ती-ती, धित्सिष्यन्-न्ती-ती
-- -- धापयमानः, धापयिष्यमाणः, -- देधीयमानः, देधीयिष्यमाणः
12 धाः-धौ-धाः
-- -- -- 13 धीतम्-धीतः-धीतवान्, धापितः, धित्सितः, देधीयितः-तवान्
14 उद्धयः 15 -धयः, 16 नासिकन्धयः- 17 स्तनन्धयः, स्तनन्धयी, 18 नाडिन्धयः- 19 20 मुष्टिन्धयः, 21 शुनिन्धयः, 22 घटिन्धयः-खारिन्धयः-खरिन्धयः- 23 वातन्धयः, 24 धारुः, 25 26 धात्री, 27 पुष्पन्धयः, 28 मुञ्जन्धयः-कूलन्धयः-आस्यन्धयः, 29 क्षीरधाः, धापः, धित्सुः, देध्यः
धातव्यम्, धापयितव्यम्, धित्सितव्यम्, देधीयितव्यम्
प्रणिधानीयम्, धापनीयम्, धित्सनीयम्, देधीयनीयम्
प्रणिघेयम्, धाप्यम्, धित्स्यम्, देधीय्यम्
30 ईषद्धानः-दुर्धानः-सुधानः
-- -- धायः, 31 सन्धिः, धापः, धित्सः, देधीयः
धातुम्, धापयितुम्, धित्सितुम्, देधीयितुम्
32 धीतिः, 33 सुधा, धापना, धित्सा, देधीया
धयनम्, धापनम्, धित्सनम्, देधीयनम्
धीत्वा, धापयित्वा, धित्सित्वा, देधीयित्वा
प्रधाय, प्रधाप्य, प्रधित्स्य, प्रदेधीय्य
धायम् २ धीत्वा २ धापम् २ धापयित्वा २ धित्सम् २ धित्सित्वा २ देधीयम् २
देधीयित्वा २
34 धेनुः।
01 (९२२)
02 (१-भ्वादिः-९०२। सक। अनि। पर।)
03 (श्लो। ६)
04 [पृष्ठम्०८१२+ २५]
05 [[१। ‘आदेच उपदेशेऽशिति’ (६-१-४५) इत्यात्त्वे, ‘आतो युक् चिण्कृतोः’ (७-३-३३) इति युगागमः। एवं घञि णमुल्यपि ज्ञेयम्।]]
06 [[२। ण्यन्ते सर्वत्र आत्त्वे, आदन्तलक्षणः पुगागमो ज्ञेयः।]]
07 [[३। धारूपत्वेनास्य धुसंज्ञकत्वात्, ‘सनि मीमाघु--’ (७-४-५४) इत्यादिना इस्। ‘अत्र लोपोऽभ्यासस्य’ (७-४-५८) इत्यभ्यासलोपः। ‘सः स्यार्धधातुके’ (७-४-४९) इति तकारः। एवं सन्नन्ते सर्वत्र प्रक्रिया।]]
08 [[४। यङन्ते सर्वत्र, ‘घुमास्था--’ (६-४-६६) इत्यादिना ईत्वे, अभ्यासे गुणः।]]
09 [[५। ‘नेर्गदनदपतपदघु--’ (८-४-१७) इत्यादिना नेर्णत्वम्।]]
10 [[६। शतरि, ‘एचोऽयवायावः’ (६-१-७८) इत्ययादेशः।]]
11 [[७। ‘न पादम्याङ्--’ (१-३-८९) इत्यत्र, ‘धेट उपसंख्यानम्’ (वा। १-३-८९) इति वचनात् उभयपदित्वमस्य
\n\n तेन ण्यन्तात् शतृशानचौ।]]
12 [[८। क्विपि, आत्त्वे रूपमेवम्।]]
13 [[९। निष्ठायाम्, ‘घुमास्था--’ (६-४-६६) इति ईत्त्वे, रूपम्। एवम्, क्त्वाप्रमृति- ष्वपि ज्ञेयम्।]]
14 [[१०। सोपसृष्टात्, निरुपसृष्टादपि, ‘पाघ्राध्माधेद्दृशः शः’ (३-१-१३७) इति शप्रत्यये, शित्त्वेन सार्वधातुकत्वात् शप्प्रत्यये, पररूपे, अयादेशे च रूपमेवम्। केचित्तु निरुपसृष्टादेवायं प्रत्यय इति साधयन्ति।]]
15 [[आ। ‘ध्वनीनामुद्धमैरेभिर्मधूनामुद्धयैर्मृशम्।’ भ। का। ६। ७८।]]
16 [[११। ‘नासिकास्तनयोर्घ्माघेटोः’ (३-२-२९) इति खश्प्रत्ययः। ‘खित्यनव्ययस्य’ (६-३-६६) इति ह्रस्वः, ‘अरुर्द्विषदजन्तस्य--’ (६-३-६७) इति मुम्। घेटष्टि- त्त्वात् अवयवेऽचरितार्थस्य टित्करणस्य समुदाय उपयोगात् स्त्रियां ङीप्।]]
17 [[B। ‘सत्त्वमेजयसिंहाढ्यान् स्तनन्धयसमत्विषौ।’ भ। का। ६। ९५।]]
18 [[१२। ‘नाडीमुष्ट्योश्च’ (३-२-३०) इति खशू। पूर्ववत् मुम्।]]
19 [पृष्ठम्०८१३+ २८]
20 [[आ। ‘किमत्र बहुना भजद्भवपयोधिमुष्टिन्धयः त्रिविक्रम भवत्क्रमः क्षिपतु मङ्क्षु रङ्गद्विषः।।’ अभीतिस्तवे २७।]]
21 [[१। ‘खश्प्रकरणे--वातशुनीतिलशर्धेषु अजघेट्तुदजहातीनां खश उपसंख्यानम्’ (वा। ३-२-२८) इति वार्तिकात् खश्। ‘खित्यनव्ययस्य’ (६-३-६६) इति ह्रस्वः।]]
22 [[२। ‘घटीखारीखरीषु--’ (वा। ३-२-३०) इति खश्। वार्तिकमिदं भाष्ये न दृश्यते। ‘नाडीमुष्ट्योश्च’ (३-२-३०) इत्यत्र विद्यमानश्चकारोऽनुक्तसमुच्चयार्थकः इति मत्वा सिद्धान्तकौमुद्यादिषूक्तः स्यात्।]]
23 [[३। अत्रापि, बाहुलकात् खश्। वातन्धयः = सर्पः।]]
24 [[४। ‘दाधेट्सिशदसदो रुः’ (३-२-१५९) इति ताच्छीलिको रुप्रत्ययः।]]
25 [[B। ‘श्रद्धालुं भ्रामरं धारुं सद्रुमद्रौ वद द्रुतम्।।’ भ। का। ७। २१।]]
26 [[५। ‘धः कर्मणि ष्ट्रन्’ (३-२-१८१) इति कर्मण्यर्थे ष्ट्रन्। षित्त्वात् स्त्रियां ङीष्। ‘तत्र बाला धयन्त्येनामिति धात्र्युपमातरि। भैषज्यार्थं दधत्येनामिति स्यादामलक्यपि।।’ इति प्र। सर्वस्वे।]]
27 [[६। पुष्पशब्द उपपदे धातोरस्य खश्प्रत्ययविधानाभावात् पृषोदरादित्वेन वा, ‘नाडी- मुष्ट्योश्च’ (३-२-३०) इत्यत्र अनुक्तसमुच्चयार्थकचकारेण वा साधुत्वमिति ज्ञेयम्। एवमेव मुञ्जन्धय इत्यादिष्वपि। पुष्पन्धयः = भ्रमरः। कूलन्धयः = नदी- वेगः। मुञ्जन्धयः = क्रिमिविशेषः। आस्यन्धयः = कामुकः।]]
28 [[C। ‘चक्राङ्गीमदपश्यतोहरचलच्छम्पासमुन्मेषणः पुष्पत्केतकगन्धसिन्धुविलुठत्पुष्पन्धयान्धीकृतैः।’ च। भारते ३। ५३।]]
29 [[७। क्षीरं धयतीति क्षीरधाः। ‘आतो मनिन्--’ (३-२-७४) इति विट्।]]
30 [[८। ‘आतो युच्’ (३-३-१२८) इति ईषदाद्युपपदेषु खलपवादो युच्।]]
31 [[९। ‘उपसर्गे घोः किः’ (३-३-९२) इति किप्रत्यये, ‘आतो लोप इटि च’ (६-४-६४) इत्याकारलोपे रूपमेवम्।]]
32 [पृष्ठम्०८१४+ २५]
33 [[१। ‘आतश्चोपसर्गे’ (३-३-१०६) इति स्त्रियामङ्।]]
34 [[२। ‘धेट इच्च’ (द। उ। १-१४५) इति नुप्रत्यये इकारश्चान्तादेशः। धेनुः = नवप्रसू- ता गौः।]]
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
