| YouTube Channel

धृष (dhRSa)

 
शब्दसागरः
English
धृष r. 5th cl. (ञि आ) ञिधृषा (धृष्णोति) To be proud, to be confident or
presumptuous. r. 1st and 10th cls. (धर्षति धर्षयतिते) To overcome, to
overbear, to resist impatiently, to be impatient. (उ) धृषु r. 1st cl.
(धर्षति)
1. To collect.
2. To hurt or kill. (ङ) धृषङ् r. 10th cl.
(धर्षयते) To neutralise, paralyse or make powerless. प्रागल्भ्ये स्वा०
प० अक० सेट् संहतौ अक० हिंसे सक० भ्वा० प० सेट् क्रोधे अभिभवे वा
चुरा उभ० पक्षे भ्वा० प० सक० सेट् सामर्थ्यबन्धने चुरा० आत्म० अक० सेट्
Wilson
English
धृष r. 5th cl. (ञि-आ) ञिधृषा (धृष्णाति) To be proud, to
be confident or presumptuous. r. 1st and 10th cls. (धर्षति धर्षयति) To
overcome, to overbear, to resist impatiently, to be impatient. (उ) धृषु
r. 1st cl. (धर्षति)
1 To collect.
2 To hurt or kill. (ङ) धृषङ् r. 10th cl. (धर्षयते) To
neutralise, paralyse or make powerless.
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
धृष्
मूलधातुः:
धृष
धात्वर्थः:
प्रसहने
गणः:
चुरादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
उभयपदी
रूपम्:
धर्षयति
अनुबन्धादिविशेषः:
आधृषीयः
धातुप्रदीपः
Sanskrit
धृषँ धृष प्रसहने
- धर्षयति धर्षति अन्यत्र धृष्णोति 294
शब्दकल्पद्रुमः
Sanskrit
धृष, कि अमर्षे क्रोध इति यावत् इतिकविकल्पद्रुमः
(चुरां-पक्षे भ्वां-परं-सकं-सेट् ।)आ, धर्षितं धृष्टं तेन कि, धर्षयति धर्षति ।अमर्ष इह अभिभवः इति भट्टमल्लः नधर्षति निजाः प्रजाः तमेव धर्षयत्येकं यस्तासुप्रतिकूलतीति हलायुधः इति दुर्गादासः
धृष, संहतौ हिंसे इति कविकल्पद्रुमः
(भ्वां-परं-संहतौ अकं-हिंसे सकं-सेट् उदि-त्वात् क्त्रावेट् ।) उ, धर्षित्वा धृष्ट्वा संहतिः ।समूहः इति दुर्गादासः
धृष, शक्तिबन्धे इति कविकल्पद्रुमः
(चुरां-आत्मं-सकं-सेट् ।) शक्तेर्ब्बन्धनं शक्ति-बन्धः ङ, धर्षयते वह्निं पयः इति दुर्गा-दासः
धृष, ञि प्रागल्भ्ये इति कविकल्पद्रुमः
(स्वां-परं-अकं-सेट् ।) ञि, धृष्टोऽस्ति आ, धर्षितं धृष्टं तेन न, धृष्णोति गुरोरग्रे यः ।इति हलायुधः इति दुर्गादासः
वाचस्पत्यम्
Sanskrit
धृष संहतौ अक० हिंसे
सक०
भ्वा०
पर०
सेट् धर्षतिअधर्षीत् दधर्ष उदित् धर्षित्वा धृष्ट्वा “धृषशसीवैयात्ये” पा० वैयात्ये एव अनिटोविधनात् क्त्वोवेट्कत्वेऽपि संहत्यर्थे बधार्थे नित्यमिट् धर्षितः
धृष प्रागल्भ्ये स्वा०
पर०
अक० सेट् धृष्णोति अधर्षीत् ।दधर्ष “धृषशसी वैयात्ये” पा० निष्ठायामनिट् धृष्टःअस्या आत्त्वं चिन्त्यप्रयोजनमिति स्म भावादि कर्म-णोर्वैयात्ये धृषिर्नास्ति अतएव नियमार्थमिदं सूत्रमिती-त्याह वृत्तिकारः” “विभाषा भावकर्मणोरिति विकल्पेप्राप्ते सूत्रमिदं नित्यतार्थमित्याशङ्क्याह धृषिर्नास्तीति”तदर्थः” तत्त्व० “आलोकयत् काकुत्स्थमधृष्णोत् घोर-अध्वनत्” भट्टिः “तान् दृष्ट्वातिदृढान् धृष्टान् प्राप्तान्परिवृढाज्ञया” भट्टिः
धृष सामर्थ्यबन्धने चुरा० आत्म० अक० सेट् धर्षयते अ-दीधृषत अदधर्षत धर्षयाम् बभूव आस चक्रे “कस्त्वाधर्षयितुं शक्तः” हरिवं० ३१५३ श्लो०
धृष क्रोधे अभिभवे वा
चु०
उभ०
पक्षे
भ्वा०
प०
सक०
सेट् ।धर्षयति ते धर्षति अदीधृषत् अदधर्षत् अधर्षीत् ।धर्षयाम् भूव आस चकार दधर्ष “प्रहस्तस्य पुरोऽ-मात्यान् जिहिंसुर्दधृषुस्तथा” मट्टिः दधृषुरभिभूतवन्तः
क्षीरतरङ्गिणी
Sanskrit
धृषँ धृष अप्रसहने
-(अर्थविवरणम्) अप्रसहनमभिभवः
, अत एव प्रसहन इति युक्तम् धर्षयति, धर्षति, प्रधृष्टः, प्रधर्षितः स्वादौ ञिधृषा प्रागल्भ्ये (526) धृष्णोति 293
धातुवृत्तिः
Sanskrit
धृषँ धृष (अर्थः) प्रसहने
आदित् शाकटायनस्य, ( धर्षयति, घर्षिता, धृषिता ) शाकटायनस्य तु धृष्टः धृष्णोतीति श्नौ आधृषीयः एषु पशबन्धनइति केचित्पठन्ति, तदुक्तं मैत्रेयेण, पश बन्धनइति युजादाविति 308
कृदन्तरूपमाला
Sanskrit
1 {@“धृष प्रसहने”@} 2 आधृषीयः।
‘अप्रसहने’ इति क्षीरस्वामी।
आदित् इति शाकटायनः।
‘एषु पश बन्धने इति केचित् पठन्ति।
तदुक्तं मैत्रेयेण-- ‘पश बन्धने’ इत्यत्र ‘पश बन्धने’ इति युजादौ इति’ मा।
धा।
वृत्तौ।
‘धृषेः प्रसहने यौ स्तां धर्षयेद् धर्षतीत्युभे।।’ 3 इति देवः।
धर्षकः-र्षिका, दिधर्षयिषकः-षिका, धर्षकः-र्षिका, दिधर्षिषकः-षिका, दरीधृषकः-षिका, इत्यादीनि सर्वाण्यपि रूपाणि चौरादिकचृपधातुवत् 4 ज्ञेयानि।
‘धृषा’ इति शाकटायनपक्षे--धृष्टम्-धृष्टः-धृष्टवान्, इति निष्ठायां विशेषः।
कर्मणि क्तप्रत्यये धर्षितः 5 इति भवति।
6
प्रासङ्गिक्यः
01
=>
(९१८)
02
=>
(१०-चुरादिः-१८५१। सक। सेट्। उभ।)
03
=>
(श्लो। १८१)
04
=>
(५५४)
05
=>
[[C। ‘स्त्रियश्चोत्कण्ठन्त्यो ददृशुरजितं मृष्टतनवः नृपस्त्वेतन्नामर्षत रिपुजनाधर्षितबलः।।’ धा। का। ३। ५२।]]
06
=>
[पृष्ठम्०८१०+ २७]