धृञ् (dhRJ)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
In this section, you'll find information about the dhatus (verbal roots) related to your search. This includes details like dhatu information, forms, and any available commentaries.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Shabdartha Kaustubha
Kannadaधृञ् - धारणे (भ्वा० उभ० सक० अनि०) धरति ।
पदविभागः - > धातुः
कन्नडार्थः - > ಧರಿಸು
धृञ् - धारणे (भ्वा० उभ० सक० अनि०) धरति ।
पदविभागः - > धातुः
कन्नडार्थः - > ನೆನಪಿನಲ್ಲಿಡು
धातुपाठः (Krishnacharya)
Sanskrit धृ
धृञ्
धारणे
भ्वादिः
सकर्मकः
अनिट्
उभयपदी
धरति-ते, धारयति
ऋकारान्तः, ञित्
टिप्पनी: धरति(धरतीत्यादि) भरतिवत् "धारेरुत्तमर्ण'' इत्यत्र धृञ् अनवस्थाने इति तौदादिकस्य ग्रहणमिति न्यासपदमञ्जर्यादिषु "इङ्धार्योः'' इत्यत्राप्यस्येति न्यासे, "अध्यायन्याय'' इति निपातनमस्त्यस्येति वृत्तिकारेण दर्शितम् धारयतीति ( धारयः ) "अनुपसर्गाल्लिम्पविन्द'' इत्यादिना शे शपि गुणयौ वसु धारयतीति ( वसुन्धरा ) "संज्ञायां भृतॄवृजि'' इति खचि "खचि ह्रस्वश्च'' इति ह्रस्वत्वे मुमागमः ( धारा ) धारा प्रपातन इति भिदादिपाठादङि गुणो दीर्घत्वं च द्रवद्रव्यनिपातनं धारेतिन्यासे खइगधारादावुपमानात् प्रयोगः ( धर्मः )
धातुप्रदीपः
Sanskritधृञ् धारणे
- धरति । धरते । पचादिपाठादच्-भूधरः । दुर्धरः । धर्मः । कल्याणधर्मा । धृङ् अवध्वंसन इत्यस्याकर्त्रभिप्राये क्रियाफलेऽपि धरत इति ।। 904 ।।
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
धातुवृत्तिः
Sanskritधृञ् (अर्थः) धारणे
(धरतीत्यादि) भरतिवत् "धारेरुत्तमर्ण'' इत्यत्र धृञ् अनवस्थाने इति तौदादिकस्य ग्रहणमिति न्यासपदमञ्जर्यादिषु "इङ्धार्योः'' इत्यत्राप्यस्येति न्यासे, "अध्यायन्याय'' इति निपातनमस्त्यस्येति वृत्तिकारेण दर्शितम् धारयतीति ( धारयः ) "अनुपसर्गाल्लिम्पविन्द'' इत्यादिना शे शपि गुणयौ वसु धारयतीति ( वसुन्धरा ) "संज्ञायां भृतॄवृजि'' इति खचि "खचि ह्रस्वश्च'' इति ह्रस्वत्वे मुमागमः ( धारा ) धारा प्रपातन इति भिदादिपाठादङि गुणो दीर्घत्वं च द्रवद्रव्यनिपातनं धारेतिन्यासे खइगधारादावुपमानात् प्रयोगः ( धर्मः ) "अर्त्तिस्तुदृसृधृभायाम्रदियक्षिम्योमन्'' इति मन् धर्मं चरति ( धार्मिकः ) ( सूत्रम्) धर्मं चरति (इति सूत्रम्) इति द्वितीयान्तात् चरतीत्यर्थे ठक् तत्र [ अधर्माच्चेति वक्तव्यम् ] इत्युक्तत्वात् ( आधार्मिकोपि ) धर्मेण प्राप्यं, ( धर्म्यम् ) ( सूत्रम्) नौवयोधर्म (इति सूत्रम्) इति तृतीयान्तात् प्राप्तेर्थे यत्, धर्मदनपेतमपि ( धर्म्यम् ) "धर्मपषथ्यर्थ'' इति यत् कल्याणो धर्मो ऽस्येति ( कल्याणधर्मा ) ( सूत्रम्) धर्मादनिच् केवलात् (इति सूत्रम्) इति धर्मात्तात् बहुव्रीहेरनिच् अत्र केवलादिति बहुव्रीह्माक्षिप्तस्य पूर्वपदस्य विशेषणत्वेन पूर्वपदीभवतः केवलादन्यनिरपेक्षात्परो यो धमेशब्दस्तदन्तात् बहुव्रीहेरिति सूत्रार्थः तेन परमस्स्वोधर्मोस्य परमस्वधर्म इति त्रिपदे बहुव्रीहावनिच् न भवति अत्रान्यपहापेक्षयैव स्वशब्दः पूर्वपदं भवति [ सर्वनामसंख्ययोरुपसंख्यानम् ] इति स्वशब्दस्य पूर्वनिपातो न भवति आहिताग्न्यादेराकृतिगणत्वात् यदा स्वो धर्मः स्वधर्मः परमः स्वधर्मोत्योति बहुब्रीहिस्तदा यद्यपि पूर्वपदं केवलं भवति तथापि ततः परो न धर्मशब्द इति समासान्ताभावः निवृत्तधर्मा हीत्यत्र निवृत्तिशब्दो बहुवच्रीहेः पूर्वपदं भवन्नान्यमपेक्षत इति केवलादस्मात् परो धर्मशब्द इति अनिच् सम्भवति एवं ( साध्यसमानधर्मा सपक्ष) इत्याद्यपि निर्वाह्मम् साध्येन समानः सराध्यसमानः, साध्यसमानः धर्मोस्येति ब्राह्मणस्य धर्मो (ब्राह्मणधर्मः) सोऽस्यास्तीति ( ब्राह्मणर्धी ) ( सूत्रम्) धर्मशीलवर्णान्ताच्च (इति सूत्रम्) इति मत्वर्थीयइनिः सिद्धे सति वचनं ठनो निवृत्त्यर्थम् धृञ् धारणे चुरादौ क्षीरस्वामी तद्भाष्यकारस्यानभिमतम् यदाह भिदादौ धारा, प्रपतने वृत्तिरस्येति यद्ययं चुरादिः स्यादस्मादेवाङि धरणान्येति ब्रूयात् एवं हि दीर्घनिपातनक्लेशीपि न भवति, न चास्त्यर्थे भेदः तथा न्यासहरदत्तावपि न सहेते यदाहतुः दीर्घतृवं निपातनादिति तथा "अनुपसर्गाल्लिम्प'' इत्यत्र न्यासे धृञ् हेतुमण्ण्सयन्त उक्तः स पार्थादयस्तूभयथा, यदाह, पारतीरकर्मसमाप्तौ चुरादिण्यन्तः अथ वा पॄ पालनपृरणयोर्हेतुमण्ण्यन्त इत्यादि, हरदत्तोपि धृञ् धारणे धृञ् अनवस्थाने ण्यन्तौ, विद चेतनाख्याननिपातनेषु चुरादिः ज्ञानाद्यर्थानामन्यतमो वा हेतुमण्ण्यन्त इति यदि चुरादिः स्यात् इतरच्चुरादिण्यन्तौ चेति ब्रूयाताम् अत्र के चित् कृञ् करणइति धातुं पठन्ति तदनार्षम् यश्दाहतुर्न्यासकारहरदत्तौ "कः करत् करति' इत्यत्र व्यत्ययेन शबिति किं च यद्ययं स्यात् अकरदित्येवमर्थं "कृमृद्धरुहिभ्यः छन्दसि'' इति करोएरङ्विधानमनथैकं स्यात् अस्मात् लङि शपि अस्य सिद्धे "दन्सि लुङ्लङ्लिटः'' इति लुङादीनामेकत्र विधानात् नास्त्यर्थभेदः 884
कृदन्तरूपमाला
Sanskrit1 {@“धृञ् धारणे”@} 2 ‘धरते धारणेऽर्थे तु धरते धरतीत्युभे।।’ 3 इति देवः।
धारकः-रिका, धारकः-रिका, दिधीर्षकः-षिका, देध्रीयकः-यिका
इत्यादीनि सर्वाण्यपि रूपाणि भौवादिधरतिकवत् 4 ज्ञेयानि।
5 युगन्धाः- 6 जलन्धरः-पुरन्धरः-श्रुतन्धरः-वसुन्धरा, 7 धनुर्धरा, 8 महीध्रः 9, 10 कर्णधारः, 11 आधारः, 12 धारा, 13 धारयः 14 , 15 धारयन्, 16 धुरन्धरः, धर्मः
इमानि रूपाणि अधिकान्यत्रेति विशेषः।
अस्य धातोः उभयपदित्वात् शतरि--धरन्-न्ती, धरिष्यन्-न्ती-ती, इति विशेषः।
01 (९१७)
02 (१-भ्वादिः-९००। सक। अनि। उभ।)
03 (श्लो। २९)
04 (९१३)
05 [[५। ‘संज्ञायां भृतॄवृजिधारिसहितपिदमः’ (३-२-४६) इति कर्मण्युपपदे ण्यन्तात् खच्- प्रत्ययः। युगं धारयतीति युगन्धरः = पर्वतविशेषः। ‘खचि ह्रस्वः’ (६-४-९४) इति ह्रस्वः, ‘अरुर्द्विषदजन्तस्य--’ (६-३-६७) इति मुम्। एवं जलन्धरः, पुरन्धरः, श्रुतन्धरः, वसुन्धरा इत्यादिषु ज्ञेयम्।]]
06 [पृष्ठम्०८०९+ ३०]
07 [[१। धनुर्धरा इत्यत्रापि खजेव। अजन्तत्वाभावात् मुमागमो न।]]
08 [[२। महीं धरतीति महीध्रः = पर्वतः। एवं कुध्रः इत्यपि। ‘कप्रकरणे मूलविभु- जादिभ्य उपसंख्यानम्’ (वा। ३-२-५) इति कप्रत्यये पृषोदरादित्वात् उपधालोपे साधुः।]]
09 [[आ। ‘यियासतस्तस्य महीध्ररन्ध्रभिदापटीयान् पटहप्रणादः।’ शि। व। ३। २४।]]
10 [[३। ‘कर्मण्यण्’ (३-२-१) इत्यणि रूपम्। एवं सूत्रधारः इत्यादिष्वप्यण्।]]
11 [[४। ‘ºअवहाराधारावायानामुपसंख्यानम्’ (वा। ३-३-१२२) इति संज्ञायां घापवादो घञ्।]]
12 [[५। ‘धारा प्रपाते’ (ग। सू। ३-३-१०३) इति भिदादिपाठादङ्। ‘ऋदृशोऽङि--’ (७-४-१६) इति गुणः। निपातनाद् दीर्घः। अन्यत्र धृतिः इत्येव।]]
13 [[६। ‘अनुपसर्गाल्लिम्पविन्दधारिपारि--’ (३-१-१३८) इत्यादिना ण्यन्तादस्मात् शप्रत्ययः। गुणायादेशौ। कर्तरि प्रत्ययोऽयम्।]]
14 [[B। ‘सुखजातः सुरापीतो नृजग्धो माल्यधारयः।’ भ। का। ५। ३८।]]
15 [[७। ण्यन्तादस्मात्, ‘इङ्धार्योः शत्रकृच्छ्रिणि’ (३-२-१३०) इति शता। ‘धारयन् पारायणम्’ इत्यत्र क्लेशं विना धारणस्य द्योतनात् शता। कृच्छ्रार्थे तु धारयमाणः इति शानजेव।]]
16 [[८। धुरं धरतीत्यर्थे संज्ञात्वाभावेऽपि बाहुलकात् खचि, ‘वाचंयमपुरन्दरौ च’ (६-३-६९) इत्यत्र चकारात् अमागमः इति प्र। सर्वस्वे।]]
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
