| YouTube Channel

धृङ् (dhRG)

 
Shabdartha Kaustubha
Kannada
धृङ् - अवस्थाने (भ्वा० आत्म० अक० अनि०) धरते
पदविभागः - > धातुः
कन्नडार्थः - > ಧರಿಸು
धृङ् - अवस्थाने (तुदा० आत्म० अक० अनि०) ध्रियते
पदविभागः - > धातुः
कन्नडार्थः - > ಇರು /ಉಳಿದಿರು
धृङ् - अवस्थाने (तुदा० आत्म० अक० अनि०) ध्रियते
पदविभागः - > धातुः
कन्नडार्थः - > ಬದುಕಿರು /ಜೀವಂತವಾಗಿರು
प्रयोगाः - > "ध्रियते यावदेकोऽपि रिपुस्तावत्कुतः सुखम्"
उल्लेखाः - > माघ० २-३५
धृङ् - अवस्थाने (तुदा० आत्म० अक० अनि०) ध्रियते
पदविभागः - > धातुः
कन्नडार्थः - > ಧರಿಸು
प्रयोगाः - > "पाण्डुरेणातपत्रेण ध्रियमाणेन मुर्धनि"
उल्लेखाः - > भा० उद्योग०
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
धृ
मूलधातुः:
धृङ्
धात्वर्थः:
अवस्थाने
गणः:
तुदादिः
कर्मकत्वं:
अकर्मकः
इट्त्वं:
अनिट्
उपग्रहः:
आत्मनेपदी
रूपम्:
ध्रियते
अनुबन्धादिविशेषः:
ऋकारान्तः, ङित्
धातुः:
धृ
मूलधातुः:
धृङ्
धात्वर्थः:
अवध्वंसने
गणः:
भ्वादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
अनिट्
उपग्रहः:
आत्मनेपदी
रूपम्:
धरते
अनुबन्धादिविशेषः:
ऋकारान्तः, ङित्
धातुप्रदीपः
Sanskrit
धृङ् अवध्वंसने
- धरते दध्रे ।। 968 ।।
धृङ् अवस्थाने
- ध्रियते (22) दध्रे धर्त्ता दिधरिषते धर्मः आधारः इति आत्मनेभाषौ किरादिकार्य्यानुरोधेन पृङ्मृङोरनन्तरं नोपदिष्टौ एतौ 138
क्षीरतरङ्गिणी
Sanskrit
धृङ् अवध्वंसने
- धरते तुदादौ धृङ् आधारे (6115) ध्रियते चुरादौ धृ धारणे धारयति अनुपसर्गाल्लिम्पविन्द (31138) इति शः- धारयः संज्ञायां (3246) वसुन्धरा इङ्धार्योः शत्रकृच्छिणि (32130) धारयन् अर्तिस्तुसु (उ01139) इति मन्- धर्मः अर्तिसृधृधमि (उ02102) इत्यनिः धरणि, धरणी अचि (द्र0 उ0 3124) धरोऽद्रिः, धरा भूः भिदादौ (द्र0 गण0 33104) धारा ।अध्यायन्याय (तु0 33122काशिका) इत्याधारः 931
धातुवृत्तिः
Sanskrit
धृङ् (अर्थः) अवध्वंसने
( धरते दध्रे ) इत्यादि धृञ्वत् 941
धृङ् (अर्थः) अवस्थाने
( ध्रियते ) इत्यादि आद्रियते इतिवत् ( आधारः ) "आध्याय''इत्यादिनाधिकरणे घञ्(धर्मः)मनिन् अत्र वक्तव्यं भूवादावुक्तम् धरते धीरतीति शपि द्रियतिध्रियती अनुदात्तावात्मनेभाषौ 128
कृदन्तरूपमाला
Sanskrit
1 {@“धृङ् अवध्वंसने”@} 2 ‘अविध्वंसने’ इति क्षीरस्वामी।
‘ध्रियते स्यादवस्थाने धृङोऽवध्वंसने पुनः।
धरते धारणेऽर्थे तु धरते धरतीत्युभे।।’ 3 इति देवः।
धारकः-रिका, धारकः-रिका, 4 दिधीर्षकः-षिका- 5 देध्रीयकः-यिका
धर्ता-त्री, धारयिता-त्री, दिधीर्षिता-त्री, देध्रीयिता-त्री
-- धारयन्-न्ती, धारयिष्यन्-न्ती-ती
-- धरमाणः, धारयमाणः, दिधीर्षमाणः, देध्रीयमाणः
6 धरिष्यमाणः, धारयिष्यमाणः, दिधीर्षिष्यमाणः, देध्रीयिष्यमाणः
सुधृत्-सुधृद्-सुधृतौ-सुधृतः
-- -- धृतम्-तः-तवान्, धारितः, दिधीर्षितः, देध्रीयितः-तवान्
7 धरः, 8 धरणः, धारः, दिधीर्षुः, देध्रीयः
धर्तव्यम्, धारयितव्यम्, दिधीर्षितव्यम्, देध्रीयितव्यम्
धरणीयम्, धारणीयम्, दिधीर्षणीयम्, देध्रीयणीयम्
9 10 धार्यम्, धार्यम्, दिधीर्ष्यम्, देध्रीय्यम्
ईषद्धरः-दुर्धरः-सुधरः
-- -- 11 ध्रियमाणः, धार्यमाणः, दिधीर्ष्यमाणः, देध्रीय्यमाणः
धारः, धारः, दिधीर्षः, देध्रीयः
धर्तुम्, धारयितुम्, दिधीर्षितुम्, देध्रीयितुम्
12 धारा-धृतिः, धारणा, दिधीर्षा, देध्रीया
धरणम्, धारणम्, दिधीर्षणम्, देध्रीयणम्
धृत्वा, धारयित्वा, दिधीर्षित्वा, देध्रीयित्वा
प्रधृत्य, प्रधार्य, प्रदिधीर्ष्य, प्रदेध्रीय्य
धारम् २, धृत्वा २, धारम् २, धारयित्वा २, दिधीर्षम् २, दिधीर्षित्वा २, देध्रीयम्
देध्रीयित्वा २।
प्रासङ्गिक्यः
01
=>
(९१३)
02
=>
(१-भ्वादिः-९६०। अक। अनि। आत्म।)
03
=>
(श्लो। २९)
04
=>
[[१। सन्नन्ताण्ण्वुलि ‘इको झल्’ (१-२-९) इति सनः कित्त्वे, ‘अज्झनगमां सनि’ (६-४-१६) इति दीर्घे, ‘ॠत इद्धातोः’ (७-१-१००) इति इत्त्वे रपरत्वे, ‘हलि च’ (८-२-७७) इति दीर्घे रूपमेवम्। एवं सन्नन्ते सर्वत्र ज्ञेयम्।]]
05
=>
[[२। यङन्ते, ‘रीङ् ऋतः’ (७-४-२७) इति रीङ्। गुणोऽभ्यासे। एवं सर्वत्र ज्ञेयम्।]]
06
=>
[[३। ‘ऋद्धनोः स्ये’ (७-२-७०) इतीडागमः।]]
07
=>
[[४। पचादित्वादच्प्रत्ययः कर्तरि।]]
08
=>
[[५। ‘चलनशब्दार्थादकर्मकाद् युच्’ (३-२-१४८) इति ताच्छीलिको युच्।]]
09
=>
[पृष्ठम्०८०७+ २३]
10
=>
[[१। ‘ऋहलोः--’ (३-१-१२४) इति ण्यत्प्रत्ययः।]]
11
=>
[[२। ‘रिङ् शयग्लिङ्क्षु’ (७-४-२८) इति रिङादेशे रूपम्।]]
12
=>
[[३। ‘धारा प्रपाते’ (ग। सू। ३-३-१०३) इति भिदादिपाठात् अङि, ‘ऋदृशोऽङि गुणः’ (७-४-१६) इति गुणः। निपातनाद् दीर्घः। अन्यत्र धृतिः। असिधारा इत्यादिषु प्रपातसाम्यात् लक्षणया प्रयोगः।]]
1 {@“धृङ् अवस्थाने”@} 2 किरादिः।
‘धारणे च’ इति द्रुमे।
‘ध्रियते स्यादवस्थाने धृङोऽवध्वंसने पुनः।
धरते धारणेऽर्थे तु धरते धरतीत्युभे।।’ 3 इति देवः।
धारकः-रिका, धारकः-रिका, 4 दिधरिषकः-षिका, देध्रीयकः-यिका
इत्यादीनि सर्वाण्यपि रूपाणि भौवादिकधरतिवत् 5 ऊह्यानि।
6 पुरन्ध्री 7, 8 9 महीध्रः-कुध्रः, 10 आधारः, 11 धर्मः, इमानि रूपाणि अस्य धातोरिति विशेषः।
प्रासङ्गिक्यः
01
=>
(९१४)
02
=>
(६-तुदादिः-१४१२। अक। अनि। आत्म।)
03
=>
(श्लो। २९)
04
=>
[[४। अस्य धातोः किरादित्वात् ‘किरश्च पञ्चभ्यः’ (७-२-७५) इति सनि इडागमो भवति। द्वित्वादिकम्। एवं सन्नन्ते सर्वत्र ज्ञेयम्।]]
05
=>
(९१३)
06
=>
[[५। पुरं धारयतीत्यर्थे ‘संज्ञायां भृ--’ (३-२-४६) इति खचि, पृषोदरादित्वात् उपधा- लोपे साधुः। स्त्रियाम्, गौरादित्वात् ङीष्।]]
07
=>
[[आ। ‘ह्रीणां नवोढां जगतोऽभिनन्द्यां तां पर्यगृह्णन् मुदिताः पुरन्ध्र्यः।।’ वा। वि। १-६०।]]
08
=>
[पृष्ठम्०८०८+ २८]
09
=>
[[१। ‘कप्रकरणे मूलविभुजादिभ्य उपसंख्यानम्’ (वा। ३-२-५) इति कः। एवं कुं धरतीति कुध्रः इत्यत्रापि ज्ञेयम्।]]
10
=>
[[२। ‘अवहाराधारावायानामुपसंख्यानम्’ (वा। ३-३-१२२) इति घञन्तः निपात्यते। आध्रियतेऽस्मिन्नित्यर्थे = आधारः।]]
11
=>
[[३। ‘अर्त्तिस्तुसुहुसृधृ--’ (द। उ। ७-२६) इति मन्प्रत्यये रूपमेवम्। धरति ध्रियते वाऽस्मिन्नाचार इति धर्मः = न्यायः।]]