धृङ् (dhRG)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
In this section, you'll find information about the dhatus (verbal roots) related to your search. This includes details like dhatu information, forms, and any available commentaries.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Shabdartha Kaustubha
Kannadaधृङ् - अवस्थाने (भ्वा० आत्म० अक० अनि०) धरते ।
पदविभागः - > धातुः
कन्नडार्थः - > ಧರಿಸು
धृङ् - अवस्थाने (तुदा० आत्म० अक० अनि०) ध्रियते ।
पदविभागः - > धातुः
कन्नडार्थः - > ಇರು /ಉಳಿದಿರು
धृङ् - अवस्थाने (तुदा० आत्म० अक० अनि०) ध्रियते ।
पदविभागः - > धातुः
कन्नडार्थः - > ಬದುಕಿರು /ಜೀವಂತವಾಗಿರು
प्रयोगाः - > "ध्रियते यावदेकोऽपि रिपुस्तावत्कुतः सुखम्"
उल्लेखाः - > माघ० २-३५
धृङ् - अवस्थाने (तुदा० आत्म० अक० अनि०) ध्रियते ।
पदविभागः - > धातुः
कन्नडार्थः - > ಧರಿಸು
प्रयोगाः - > "पाण्डुरेणातपत्रेण ध्रियमाणेन मुर्धनि"
उल्लेखाः - > भा० उद्योग०
धातुपाठः (Krishnacharya)
Sanskrit धृ
धृङ्
अवस्थाने
तुदादिः
अकर्मकः
अनिट्
आत्मनेपदी
ध्रियते
ऋकारान्तः, ङित्
धृ
धृङ्
अवध्वंसने
भ्वादिः
सकर्मकः
अनिट्
आत्मनेपदी
धरते
ऋकारान्तः, ङित्
धातुप्रदीपः
Sanskritधृङ् अवध्वंसने
- धरते । दध्रे ।। 968 ।।
धृङ् अवस्थाने
- ध्रियते (22) दध्रे धर्त्ता दिधरिषते धर्मः आधारः इति आत्मनेभाषौ किरादिकार्य्यानुरोधेन पृङ्मृङोरनन्तरं नोपदिष्टौ एतौ 138
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
क्षीरतरङ्गिणी
Sanskritधृङ् अवध्वंसने
- धरते तुदादौ धृङ् आधारे (6115) ध्रियते चुरादौ धृ धारणे धारयति अनुपसर्गाल्लिम्पविन्द (31138) इति शः- धारयः संज्ञायां (3246) वसुन्धरा इङ्धार्योः शत्रकृच्छिणि (32130) धारयन् अर्तिस्तुसु (उ01139) इति मन्- धर्मः अर्तिसृधृधमि (उ02102) इत्यनिः धरणि, धरणी अचि (द्र0 उ0 3124) धरोऽद्रिः, धरा भूः भिदादौ (द्र0 गण0 33104) धारा ।अध्यायन्याय (तु0 33122काशिका) इत्याधारः 931
धातुवृत्तिः
Sanskritधृङ् (अर्थः) अवध्वंसने
( धरते दध्रे ) इत्यादि धृञ्वत् 941
धृङ् (अर्थः) अवस्थाने
( ध्रियते ) इत्यादि आद्रियते इतिवत् ( आधारः ) "आध्याय''इत्यादिनाधिकरणे घञ्(धर्मः)मनिन् अत्र वक्तव्यं भूवादावुक्तम् धरते धीरतीति शपि द्रियतिध्रियती अनुदात्तावात्मनेभाषौ 128
कृदन्तरूपमाला
Sanskrit1 {@“धृङ् अवध्वंसने”@} 2 ‘अविध्वंसने’ इति क्षीरस्वामी।
‘ध्रियते स्यादवस्थाने धृङोऽवध्वंसने पुनः।
धरते धारणेऽर्थे तु धरते धरतीत्युभे।।’ 3 इति देवः।
धारकः-रिका, धारकः-रिका, 4 दिधीर्षकः-षिका- 5 देध्रीयकः-यिका
धर्ता-त्री, धारयिता-त्री, दिधीर्षिता-त्री, देध्रीयिता-त्री
-- धारयन्-न्ती, धारयिष्यन्-न्ती-ती
-- धरमाणः, धारयमाणः, दिधीर्षमाणः, देध्रीयमाणः
6 धरिष्यमाणः, धारयिष्यमाणः, दिधीर्षिष्यमाणः, देध्रीयिष्यमाणः
सुधृत्-सुधृद्-सुधृतौ-सुधृतः
-- -- धृतम्-तः-तवान्, धारितः, दिधीर्षितः, देध्रीयितः-तवान्
7 धरः, 8 धरणः, धारः, दिधीर्षुः, देध्रीयः
धर्तव्यम्, धारयितव्यम्, दिधीर्षितव्यम्, देध्रीयितव्यम्
धरणीयम्, धारणीयम्, दिधीर्षणीयम्, देध्रीयणीयम्
9 10 धार्यम्, धार्यम्, दिधीर्ष्यम्, देध्रीय्यम्
ईषद्धरः-दुर्धरः-सुधरः
-- -- 11 ध्रियमाणः, धार्यमाणः, दिधीर्ष्यमाणः, देध्रीय्यमाणः
धारः, धारः, दिधीर्षः, देध्रीयः
धर्तुम्, धारयितुम्, दिधीर्षितुम्, देध्रीयितुम्
12 धारा-धृतिः, धारणा, दिधीर्षा, देध्रीया
धरणम्, धारणम्, दिधीर्षणम्, देध्रीयणम्
धृत्वा, धारयित्वा, दिधीर्षित्वा, देध्रीयित्वा
प्रधृत्य, प्रधार्य, प्रदिधीर्ष्य, प्रदेध्रीय्य
धारम् २, धृत्वा २, धारम् २, धारयित्वा २, दिधीर्षम् २, दिधीर्षित्वा २, देध्रीयम् २
देध्रीयित्वा २।
01 (९१३)
02 (१-भ्वादिः-९६०। अक। अनि। आत्म।)
03 (श्लो। २९)
04 [[१। सन्नन्ताण्ण्वुलि ‘इको झल्’ (१-२-९) इति सनः कित्त्वे, ‘अज्झनगमां सनि’ (६-४-१६) इति दीर्घे, ‘ॠत इद्धातोः’ (७-१-१००) इति इत्त्वे रपरत्वे, ‘हलि च’ (८-२-७७) इति दीर्घे च रूपमेवम्। एवं सन्नन्ते सर्वत्र ज्ञेयम्।]]
05 [[२। यङन्ते, ‘रीङ् ऋतः’ (७-४-२७) इति रीङ्। गुणोऽभ्यासे। एवं सर्वत्र ज्ञेयम्।]]
06 [[३। ‘ऋद्धनोः स्ये’ (७-२-७०) इतीडागमः।]]
07 [[४। पचादित्वादच्प्रत्ययः कर्तरि।]]
08 [[५। ‘चलनशब्दार्थादकर्मकाद् युच्’ (३-२-१४८) इति ताच्छीलिको युच्।]]
09 [पृष्ठम्०८०७+ २३]
10 [[१। ‘ऋहलोः--’ (३-१-१२४) इति ण्यत्प्रत्ययः।]]
11 [[२। ‘रिङ् शयग्लिङ्क्षु’ (७-४-२८) इति रिङादेशे रूपम्।]]
12 [[३। ‘धारा प्रपाते’ (ग। सू। ३-३-१०३) इति भिदादिपाठात् अङि, ‘ऋदृशोऽङि गुणः’ (७-४-१६) इति गुणः। निपातनाद् दीर्घः। अन्यत्र धृतिः। असिधारा इत्यादिषु प्रपातसाम्यात् लक्षणया प्रयोगः।]]
1 {@“धृङ् अवस्थाने”@} 2 किरादिः।
‘धारणे च’ इति द्रुमे।
‘ध्रियते स्यादवस्थाने धृङोऽवध्वंसने पुनः।
धरते धारणेऽर्थे तु धरते धरतीत्युभे।।’ 3 इति देवः।
धारकः-रिका, धारकः-रिका, 4 दिधरिषकः-षिका, देध्रीयकः-यिका
इत्यादीनि सर्वाण्यपि रूपाणि भौवादिकधरतिवत् 5 ऊह्यानि।
6 पुरन्ध्री 7, 8 9 महीध्रः-कुध्रः, 10 आधारः, 11 धर्मः, इमानि रूपाणि अस्य धातोरिति विशेषः।
01 (९१४)
02 (६-तुदादिः-१४१२। अक। अनि। आत्म।)
03 (श्लो। २९)
04 [[४। अस्य धातोः किरादित्वात् ‘किरश्च पञ्चभ्यः’ (७-२-७५) इति सनि इडागमो भवति। द्वित्वादिकम्। एवं सन्नन्ते सर्वत्र ज्ञेयम्।]]
05 (९१३)
06 [[५। पुरं धारयतीत्यर्थे ‘संज्ञायां भृ--’ (३-२-४६) इति खचि, पृषोदरादित्वात् उपधा- लोपे साधुः। स्त्रियाम्, गौरादित्वात् ङीष्।]]
07 [[आ। ‘ह्रीणां नवोढां जगतोऽभिनन्द्यां तां पर्यगृह्णन् मुदिताः पुरन्ध्र्यः।।’ वा। वि। १-६०।]]
08 [पृष्ठम्०८०८+ २८]
09 [[१। ‘कप्रकरणे मूलविभुजादिभ्य उपसंख्यानम्’ (वा। ३-२-५) इति कः। एवं कुं धरतीति कुध्रः इत्यत्रापि ज्ञेयम्।]]
10 [[२। ‘अवहाराधारावायानामुपसंख्यानम्’ (वा। ३-३-१२२) इति घञन्तः निपात्यते। आध्रियतेऽस्मिन्नित्यर्थे = आधारः।]]
11 [[३। ‘अर्त्तिस्तुसुहुसृधृ--’ (द। उ। ७-२६) इति मन्प्रत्यये रूपमेवम्। धरति ध्रियते वाऽस्मिन्नाचार इति धर्मः = न्यायः।]]
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
