| YouTube Channel

धूपनः (dhUpanaH)

 
शब्दकल्पद्रुमः
Sanskrit
धूपनः,
पुं,
(धूपयति संधुक्षयति वह्निमिति ।धूप + ल्युः ।) शालवृक्षनिर्यासः धूना इतिभाषा तत्पर्य्यायः शालवेष्टः सर्जरसः ३वह्निवल्लभः इति शब्दमाला
(यथा, मनुः २१९ ।“परीक्षिताः स्त्रियश्चैनं व्यजनोदकधूपनैः ।वेषारम्भनसंशुद्धाः स्पृशेयुः सुसमाहिताः
”क्ली, धूप + ल्युट् धूपादिना सन्धुक्षणम् यथा, महाभारते १३ ९९ ।“अग्निकार्य्याणि समिधः कुशाः सुमनसस्तथा ।बलयश्चान्नलाजाभिर्धूपनं दीपकर्म्म
”)