| YouTube Channel

धुरन्धरः (dhurandharaH)

 
Wordnet
Sanskrit
Synonyms:
धुरन्धरः
noun
राक्षसविशेषः।
"धुरन्धरस्य वर्णनं पुराणेषु अस्ति।"
Synonyms:
धुरन्धरः
noun
एकः जनसमुदायः
"धुरन्धराणाम् उल्लेखः महाभारते विष्णुपुराणे अस्ति"
वैजयन्तीकोषः
Sanskrit
Word: धुरन्धरः
Root: धुरन्धर
Gender: पुं
Number: all
अर्थः धुरन्धरवृषभः
Meaning(s):
Carrying a burden
Shloka(s):
3|4|57|1 नस्योतो नस्तिते षोडन् षड्रदेऽथो धुरन्धरे। (भूमिकाण्डः/पशुसङ्ग्रहाध्यायः)
3|4|57|2 धुरीणधुर्यधौरेयाः प्रासङ्गादेस्तु वोढृषु॥ (भूमिकाण्डः/पशुसङ्ग्रहाध्यायः)
Synonym(s):
3|4|57|1 धुरन्धरः (धुरन्धर) (पुं) Carrying a burden धुरन्धरवृषभः
3|4|57|1 धुरन्धरा (धुरन्धर) (स्त्री) Carrying a burden धुरन्धरवृषभः
3|4|57|1 धुरन्धरम् (धुरन्धर) (नपुं) Carrying a burden धुरन्धरवृषभः
3|4|57|2 धुरीणः (धुरीण) (पुं) Carrying a burden धुरन्धरवृषभः
3|4|57|2 धुरीणा (धुरीण) (स्त्री) Carrying a burden धुरन्धरवृषभः
3|4|57|2 धुरीणम् (धुरीण) (नपुं) Carrying a burden धुरन्धरवृषभः
3|4|57|2 धुर्यः (धुर्य) (पुं) Carrying a burden धुरन्धरवृषभः
3|4|57|2 धुर्या (धुर्य) (स्त्री) Carrying a burden धुरन्धरवृषभः
3|4|57|2 धुर्यम् (धुर्य) (नपुं) Carrying a burden धुरन्धरवृषभः
3|4|57|2 धौरेयः (धौरेय) (पुं) Carrying a burden धुरन्धरवृषभः
3|4|57|2 धौरेया (धौरेय) (स्त्री) Carrying a burden धुरन्धरवृषभः
3|4|57|2 धौरेयम् (धौरेय) (नपुं) Carrying a burden धुरन्धरवृषभः
Related word(s):
परा_अपरासंबन्धः वृषभः
शब्दकल्पद्रुमः
Sanskrit
धुरन्धरः,
पुं,
धववृक्षः इति रत्नमाला
(पर्य्यायोऽस्य यथा, --“धवो धटो नन्दितरुः स्थिरो गौरो धुरन्धरः
”इति भावप्रकाशस्य पूर्व्वखण्डे प्रथमे भागे
धुरं धरतीति धृ + खच् + मुम् ।) रथ-लाङ्गलादिभारवोढा तत्पर्य्यायः धुर्व्वहः२ धुर्य्यः धौरेयः धुरीणः इत्यमरः ।९ ६५
यथा, --“धुरन्धरो धुरीणश्च धौरेयधुर्य्यधुर्व्वहाः ।यत्र काम्यरथस्यापि लाङ्गलस्यापि वा धुरम्
वहत्येकधुरीणः स्यात्तथा चैकधुरोऽपि ।स तु सर्व्वधुरीणः स्यात् सर्व्वा वहति यो धुरः
”इति शब्दरत्नावली
(आदित्यनृपस्य मन्त्री तु कौशलेन राजानंहत्वा स्वययेव राज्यमकरोत्
यथा, राजा-वल्याम् परिच्छेदे ।“आदित्यस्य तदा मन्त्री अदूरान्वयसम्भवः ।धुरन्धराभिधो धीरो बलबुद्धिनिकेतनः
सेनापतीन् वशीचक्रे धनमानप्रदानतः ।एकदा तमादित्यमादित्यसमवर्च्चसम्
एकान्ते नृपमासीनं हत्वा हतमतिस्तदा ।तदासनं समारुह्य राज्यं प्राशाद्धुरन्धरः
भूमिवेदमितान्वर्षान्भुक्त्वा भोगाननुत्तमान् ।सेनोद्धतं सुतं राज्ये स्थापयित्वा लयं गतः
”राक्षसविशेषः तु प्रहस्तस्य सचिवविशेषः ।यथा, गोः रामायणे ३२ १५ ।“एतस्मिन्नन्तरे शूराः प्रहस्तस्य वशानुगाः ।धुरन्धरः कुम्भहनुर्महानादः समुन्नदः ।एते प्रहस्तसचिवाः सर्व्वे जग्मुर्वनौकसः
”)धुर्व्वाहकमात्रे, त्रि
(यथा, महाभारते ३१८६ १० ।“अनड्वाहं सुव्रतं यो ददातिहलस्य वोढारमनन्तवीर्य्यम् ।धुरन्धरं बलवन्तं युवानंप्राप्नोति लोकान् दशधेनुदस्य
”श्रेष्ठः यथा, तत्रैव १३ १३७ ३१ ।“दत्त्वा तु सततं तैस्तु कौरवानां धुरन्धर ! ।दानयज्ञक्रियायुक्ता बुद्धिर्धर्म्मोपचायिनी
”)
कृदन्तरूपमाला
Sanskrit
1 {@“धृञ् धारणे”@} 2 ‘धरते धारणेऽर्थे तु धरते धरतीत्युभे।।’ 3 इति देवः।
धारकः-रिका, धारकः-रिका, दिधीर्षकः-षिका, देध्रीयकः-यिका
इत्यादीनि सर्वाण्यपि रूपाणि भौवादिधरतिकवत् 4 ज्ञेयानि।
5 युगन्धाः- 6 जलन्धरः-पुरन्धरः-श्रुतन्धरः-वसुन्धरा, 7 धनुर्धरा, 8 महीध्रः 9, 10 कर्णधारः, 11 आधारः, 12 धारा, 13 धारयः 14 , 15 धारयन्, 16 धुरन्धरः, धर्मः
इमानि रूपाणि अधिकान्यत्रेति विशेषः।
अस्य धातोः उभयपदित्वात् शतरि--धरन्-न्ती, धरिष्यन्-न्ती-ती, इति विशेषः।
प्रासङ्गिक्यः
01
=>
(९१७)
02
=>
(१-भ्वादिः-९००। सक। अनि। उभ।)
03
=>
(श्लो। २९)
04
=>
(९१३)
05
=>
[[५। ‘संज्ञायां भृतॄवृजिधारिसहितपिदमः’ (३-२-४६) इति कर्मण्युपपदे ण्यन्तात् खच्- प्रत्ययः। युगं धारयतीति युगन्धरः = पर्वतविशेषः। ‘खचि ह्रस्वः’ (६-४-९४) इति ह्रस्वः, ‘अरुर्द्विषदजन्तस्य--’ (६-३-६७) इति मुम्। एवं जलन्धरः, पुरन्धरः, श्रुतन्धरः, वसुन्धरा इत्यादिषु ज्ञेयम्।]]
06
=>
[पृष्ठम्०८०९+ ३०]
07
=>
[[१। धनुर्धरा इत्यत्रापि खजेव। अजन्तत्वाभावात् मुमागमो न।]]
08
=>
[[२। महीं धरतीति महीध्रः = पर्वतः। एवं कुध्रः इत्यपि। ‘कप्रकरणे मूलविभु- जादिभ्य उपसंख्यानम्’ (वा। ३-२-५) इति कप्रत्यये पृषोदरादित्वात् उपधालोपे साधुः।]]
09
=>
[[आ। ‘यियासतस्तस्य महीध्ररन्ध्रभिदापटीयान् पटहप्रणादः।’ शि। व। ३। २४।]]
10
=>
[[३। ‘कर्मण्यण्’ (३-२-१) इत्यणि रूपम्। एवं सूत्रधारः इत्यादिष्वप्यण्।]]
11
=>
[[४। ‘ºअवहाराधारावायानामुपसंख्यानम्’ (वा। ३-३-१२२) इति संज्ञायां घापवादो घञ्।]]
12
=>
[[५। ‘धारा प्रपाते’ (ग। सू। ३-३-१०३) इति भिदादिपाठादङ्। ‘ऋदृशोऽङि--’ (७-४-१६) इति गुणः। निपातनाद् दीर्घः। अन्यत्र धृतिः इत्येव।]]
13
=>
[[६। ‘अनुपसर्गाल्लिम्पविन्दधारिपारि--’ (३-१-१३८) इत्यादिना ण्यन्तादस्मात् शप्रत्ययः। गुणायादेशौ। कर्तरि प्रत्ययोऽयम्।]]
14
=>
[[B। ‘सुखजातः सुरापीतो नृजग्धो माल्यधारयः।’ भ। का। ५। ३८।]]
15
=>
[[७। ण्यन्तादस्मात्, ‘इङ्धार्योः शत्रकृच्छ्रिणि’ (३-२-१३०) इति शता। ‘धारयन् पारायणम्’ इत्यत्र क्लेशं विना धारणस्य द्योतनात् शता। कृच्छ्रार्थे तु धारयमाणः इति शानजेव।]]
16
=>
[[८। धुरं धरतीत्यर्थे संज्ञात्वाभावेऽपि बाहुलकात् खचि, ‘वाचंयमपुरन्दरौ च’ (६-३-६९) इत्यत्र चकारात् अमागमः इति प्र। सर्वस्वे।]]