| YouTube Channel

धुन्धुमारः (dhundhumAraH)

 
Apte
English
धुन्धुमारः [dhundhumārḥ], 1 A kind of insect (इन्द्रगोप).
The smoke of a house.
Wordnet
Sanskrit
Synonyms:
धुन्धुमारः
noun
इक्ष्क्वाकुवंशस्य एकः राजा यः रामस्य पूर्वजः त्रिशङ्कोः पुत्रः आसीत्।
"युवनाश्वः धुन्धुमारस्य पुत्रः आसीत्।"
Synonyms:
कुवलयाश्वः, धुन्धुमारः, धुन्धमारः
noun
पुराणेषु वर्णितः एकः अश्वः।
"पातालकेतुं हन्तुं सूर्यः कुवलयाश्वं प्रैषयत्।"
शब्दकल्पद्रुमः
Sanskrit
धुन्धुमारः,
पुं,
(धुन्धुं तन्नामकं राक्षसं मारय-तीति मारि + अण् ।) कुवलयाश्वराजः सतु बृहदश्वपुत्त्रः इति पद्मपुराणम्
(अस्यधन्धुमारणकथा यथा, हरिवंशे ११ ३९ -- ५५ ।“स एवमुक्तो राजर्षिरुतङ्केन महात्मना ।कुवलाश्वं सुतं प्रादात् तस्मै धुन्धुनिवारणे
बृहदश्व उवाच ।भगवन् ! न्यस्तशस्त्रोऽहमयन्तु तनयो मम ।भविष्यति द्विजश्रेष्ठ ! धुन्धुमारो संशयः
तं व्यादिश्य तनयं राजर्षिर्धुन्धुमारणे ।जगाम पर्व्वतायैव तपसे संशितव्रतः
कुवलाश्वस्तु पुत्त्राणां शतेन सह पार्थिव ! ।प्रायादुतङ्कसहितो धुन्धोस्तस्य परिग्रहे
तमाविशचदा विष्णुर्भगवांस्तेजसा विभुः ।उतङ्कस्य नियोगाद्वै लोकानां हितकाम्यया
तस्मिन प्रयाते दुर्द्धर्षे दिवि शब्दो महानभूत् ।एष श्रीमान्नृपसुतो धुन्धुमारो भविष्यति
दिव्यैर्म्माल्यैश्च तं देवाः समन्तात् समवाकिरन् ।देवदुन्दुभयश्चापि प्रणेदुर्भरतर्षभ !
गत्वा जयतां श्रेष्ठस्तनयैः सह वीर्य्यवान् ।समुद्रं खानयामास बालुकार्णवमव्ययम्
नारायणेन कौरव्य ! तेजसाप्यायितः वै ।बभूव सुमहातेजा भूयो बलसमन्वितः
तस्य पुत्त्रैः खनद्भिस्तु बालुकान्तर्हितस्तदा ।धुन्धुरासादितो राजन् ! दिशमाश्रित्य पश्चिमाम्
मुखजेनाग्निना क्रोधाल्लोकानुद्वर्त्तयन्निव ।वारि सुस्राव वेगेन महोदधिरिवोदये
सोमस्य भरतश्रेष्ठ ! धारोर्म्मिकलिलं महत् ।तस्य पुत्त्रशतं दग्धं त्रिभिरूणन्तु रक्षसा
ततः राजा कौरव्य ! राक्षसं तं महाबलम् ।आससाद महादेजा धुन्धुं धुन्धुनिवर्हणः
तस्य वारिमयं वेगमापीय नराधिपः ।योगी योगेन वह्निञ्च शमयामास वारिणा
निहत्य तं महाकायं बलेनोदकराक्षसम् ।उतङ्कं दर्शयामास कृतकर्म्मा महायशाः
उतङ्कस्तु वरं प्रादात् तस्मै राज्ञे महात्मने ।अददाच्चाक्षयं वित्तं शत्रुभिश्चापराजयम्
धर्म्मे रतिञ्च सततं स्वर्गे वासं तथाक्षयम् ।पुत्त्राणाञ्चाक्षयाल्लोँकान् स्वर्गे ये राक्षसाहताः
*
)शक्रगोपः गृहधूमः पदालिकः इतिमेदिनी रे, २७०