| YouTube Channel

धुञ् (dhuJ)

 
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
धु
मूलधातुः:
धुञ्
धात्वर्थः:
कम्पने
गणः:
स्वादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
अनिट्
उपग्रहः:
उभयपदी
रूपम्:
धुनोति-धुनुते
अनुबन्धादिविशेषः:
उकारान्तः
धातुप्रदीपः
Sanskrit
धुञ् कम्पने
- धुनोति धुनुते अधुनोत् अधुनुत धोता अधौषीत् अधोष्ट धुतम् ''विधुतविपिनराजिः'' न्यासकारस्तु स्वरतिसूति (7244) इति सूत्रे दीर्घान्तमेतमुक्तवान् तन्मते धूनोति (2) धुनुते अधावीत् अधोष्ट अधविष्ट धूत्वा धूतः 10
धातुवृत्तिः
Sanskrit
धुञ् (अर्थः) कम्पने
अनुदात्तः ( धुनोति धुनुते दुधाव दुधोथ दुधविथ दुधुवे दुधुविषे धोतासि धोतासे धोष्यति धोष्यते धुनोतु धुनुताम् अधुनोत् अधुनुताम् धुनुयात् धुन्वीत ) आशिषि (धूयात् धोषीष्ट अधौषीत् अधोष्ट दूधूषति दुधूषते दोधूयते दोधोति धावयति अदूधवत् धुत्वा धुतः धुतवान् धुनिः) बाहुलकान्निप्रत्ययो नित् किच्च तथा भोजोऽसूसूत्रत् धु "सृकृवृषिपवृच्छिज्वरित्वरिभ्यः कित्'' इति अत्र स्वामी तु ह्रस्वान्तममुं पठित्वा प्रयोगवशाद्दीर्घान्तमप्याह शिवस्वामिकाश्यपौ तु दीर्घान्तमाहतुः उभयमपीति चान्द्रा इति सुधाकरः दीर्घान्तस्य तेनैव प्रयोगो दर्शितः ऊर्ध्वं धूनोति वायुर्विवृतशिवशिरः श्रोणिकुञ्जेष्विति तत्र दीर्घान्तपाठे स्वरत्यादिसूत्रेणेड्विकल्पः त्त्क्वासनोस्तु पुरस्तात्प्रतिषेधकण्डारम्भसामर्थ्याद्धूत्वा धूतः दुधूषतीत्यादौ "श्र्युकःकिति'' "सनि ग्रहगुहोश्च'' इतीण्निषेधो भवति लिटि त्वमुं प्रतिषेधं बाधित्वा क्रादिनियमात्न्नित्यमिट् क्रादिनियमस्य स्वरत्यादिविकल्पः परत्वाद्वाधक इति मन्तव्यम्, तस्य "श्र्युकः किति'' इत्यनेन पुनरपि बाधप्रसङ्गात् ( धूनोति धूनुते दुधुवे) इत्यादि ह्रस्वान्तवत् ( धोता धविता धोष्यति धविष्यति धोष्यते धविष्यते धूतोत्तु धूनुतात् अधूनोत् धून्वीत धूयात् धोषीष्ट धविषीष्ट अधावीत् अधाविष्टाम् अधविष्ट, अधोष्ट ) "स्तुसुधूञ्भ्य'' इति परस्मैपदे सिचो नित्यमिट् अन्यत्र सर्वत्र स्वरत्यादिनेड्विकल्पः ( धूनयति ) [ धूञ्प्रीञोर्नुग्वक्तव्यः ] इति णौ नुक् दीर्घान्तः क्र्यादौ युजादौ धू विधूननइत्यञित् तुदादौ स्वादय उभयतो भाषाः वृञ्वर्जमनुदात्ताः तस्यानुदात्तमध्ये पाठ ऋकारान्तोभयतो भाषानुरोधेन 9
कृदन्तरूपमाला
Sanskrit
1 {@“धुञ् कम्पने”@} 2 3 ‘धूञ् कम्पने’ इति अत्रैव 4 दीर्घान्तं क्षीरस्वामिप्रमृतयः पठन्ति।
तस्य ण्यन्ते नुगागमे धूनयतीत्यादिरूपं प्रदर्शयन्ति।
दीर्घान्तो धातुः सेट्।
‘ऊर्ध्वं धूनोति वायुर्विधृतशवशिरःश्रेणिकुञ्जेषु--’ 5 इति, ‘धूनोति चम्पकवनानि--’ 6 इति प्रयोगदर्शनात् सोऽप्य- स्तीति ज्ञायते।
अत्र ह्रस्वान्तपाठमादृत्य रूपाणि विलिखितानि।
दीर्घान्तस्य तु यथाक्रममुत्तरत्र लेखनमादृतम्।]] ‘धूनयति धवति धवते धुनोति धुनुते धुनाति धुनीते।
धूनोति धूनुते स्युः पदानि कम्पे, विधूनने धुवति।।’ 7 इति देवः।
धावकः-विका, धावकः-विका, 8 दुधूषकः-षिका, 9 धूयकः-यिका
10 धोता-त्री, धावयिता-त्री, दुधूषिता-त्री, दोधूयिता-त्री
11 धुन्वन्- 12 ती, धावयन्-न्ती, दुधूषन्-न्ती
-- धोष्यन्-न्ती-ती, धावयिष्यन्-न्ती-ती, दुधूषिष्यन्-न्ती-ती
धुन्वानः, धावयमानः, दुधूषमाणः, दोधूयमानः
धोष्यमाणः, धावयिष्यमाणः, दुधूषिष्यमाणः, दोधूयिष्यमाणः
13 विधुत्-विधुतौ-विधुतः
-- -- 14 धुतम्-धुतः-धुतवान्, धावितः, दुधूषितः, दोधूयितः-तवान्
धवः, 15 धवनः, प्रधावी, धावः, दुधूषुः, 16 दोध्वः
धोतव्यम्, धावयितव्यम्, दुधूषितव्यम्, दोधूयितव्यम्
धवनीयम्, धावनीयम्, दुधूषणीयम्, दोधूयनीयम्
17 धव्यम्, अवश्यधाव्यम्, धाव्यम्, दुधूष्यम्, दोधूय्यम्
18 धूयमानः, धाव्यमानः, दुधूष्यमाणः, दोधूय्यमानः
19 धवः, धावः, दुधूषः, दोधूयः
धोतुम्, धावयितुम्, दुधूषितुम्, दोधूयितुम्
विधुतिः, 20 धुनिः, धावना, दुधूषा, दोधूया
धवनम्, धावनम्, दुधूषणम्, दोधूयनम्
धुत्वा, धावयित्वा, दुधूषित्वा, दोधूयित्वा
विधुत्य, विधाव्य, विदुधूष्य, विदोधूय्य
21 धावम् २, धुत्वा २, धावम् २, धावयित्वा २, दुधूषम् २, दुधूषित्वा २, दोधूयम्
दोधूयित्वा २।
प्रासङ्गिक्यः
01
=>
(९०३)
02
=>
(५-स्वादिः-१२५५। सक। अनि। उभ।)
03
=>
[[[अ]
04
=>
(स्वादावेव)
05
=>
(मालतीमाधवे ५-४)
06
=>
(कविरहस्ये)
07
=>
(श्लो। २६)
08
=>
[[१। सन्नन्ताण्ण्वुलि, झलादेः सनः कित्त्वात्, गुणनिषेधः, ‘अज्झनगमाम्--’ (६-४-१६) इति दीर्घः। एवं सन्नन्ते सर्वत्र प्रक्रिया बोध्या।]]
09
=>
[[२। यङन्ताण्ण्वुलि, ‘अकृत्सार्वधातुकयोः--’ (७-४-२५) इति दीर्घः। अभ्यासे गुणः। यङन्ते सर्वत्रैषैव प्रक्रिया।]]
10
=>
[पृष्ठम्०७९९+ २६]
11
=>
[[१। शतरि, ‘स्वादिभ्यः--’ (३-१-७३) इति श्नुप्रत्यये, यणादेशे रूपम्।]]
12
=>
[[आ। ‘हेम्नः स्थलीषु परितः परिवृत्य वाजी धुन्वन् वपुः प्रविततायतकेशपङ्क्तिः।’ शि। व। ५। ५५।]]
13
=>
[[२। क्विपि, ‘ह्रस्वस्य पिति कृति--’ (६-१-७१) इति तुगागमः। ल्यप्यप्येवं ज्ञेयम्।]]
14
=>
[[B। ‘कुब्जा कृतारिबलमैक्षत वृण्वती सा पात्रं समीरधुतसौरभधूतभृङ्गम्।।’ धा। का। २। ६८।]]
15
=>
[[३। ‘चलनशब्दार्थादकर्मकात्--’ (३-२-१४८) इति ताच्छीलिको युच्। अकर्मकत्वमपि धातोरस्य विवक्षाभेदेन भवति।]]
16
=>
[[४। यङन्तात् पचाद्यचि यङो लुकि, यणादेशे रूपमेवम्।]]
17
=>
[[५। ‘अचो यत्’ (३-१-९७) इति यत्प्रत्यये गुणः, अवादेशश्च। आवश्यकार्थे तु ‘ओरावश्यके’ (३-१-१२५) इति ण्यत्प्रत्यये आवादेशः।]]
18
=>
[[६। यगन्ताच्छानशि, ‘अकृत्सार्वधातुकयोः--’ (७-४-२५) इति दीर्घः।]]
19
=>
[[७। ‘ॠदोरप्’ (३-३-५७) इति भावेऽप्प्रत्ययः। घञोऽपवादः।]]
20
=>
[[८। क्तिनि, बाहुलकात् निप्रत्ययः, ‘ग्लानिः, म्लानिः’ इतिवत्। धुनिः = नदी।]]
21
=>
[पृष्ठम्०८००+ २८]