| YouTube Channel

धिका (dhikA)

 
कृदन्तरूपमाला
Sanskrit
1 {@“राध संसिद्धौ”@} 2 ‘राध्नोति संसिद्ध्यर्थे श्नौ राध्येद् वृद्धावकर्मकात्।’ 3 इति देवः।
राधकः-धिका, राधकः-धिका, 4 आरिरात्सकः-प्रतिरित्सकः-त्सिका, राराधकः- धिका
राद्धा-राद्ध्री, राधयिता-त्री, आरिरात्सिता-त्री, राराधिता-त्री
5 राध्नुवन्-ती, राधयन्-न्ती, आरिरात्सन्-प्रतिरित्सन्-न्ती
-- इत्यादीनि सर्वाण्यपि रूपाणि दैवादिकक्षुध्यतिवत् 6 ज्ञेयानि।
7 अपरेधिवान्।
प्रासङ्गिक्यः
01
=>
(१३९६)
02
=>
(५-स्वादिः-१२६२। सक। अनि। पर।)
03
=>
(श्लो। १२२)
04
=>
[[१। संसिद्ध्यर्थे रूपमेवम्। धातूनामनेकाथत्वात् हिंसार्थे तु ‘राधो हिंसायां सनीम् वाच्यः’ (वा। ७-४-५४) इति सनि इस्। ‘अत्र लोपोऽभ्यासस्य’ (७-४-५३) इत्यभ्यासलोपः। ‘स्कोः--’ (८-२-२९) इति सकारस्य लोपः। इदमेव वार्तिकं (वा। ७-४-५४) धातोरस्य हिंसार्थत्वे ज्ञापकम्। हिंसार्थे सकर्मकोऽयं धातुः।]]
05
=>
[[२। धातोः सकर्मकत्वे ‘स्वादिभ्यः--’ (३-१-७३) इति श्नुः। अकर्मकत्वे तु ‘राधोऽकर्मकाद् वृद्धावेव’ (ग। सू। दिवादौ) इति श्यनेव।]]
06
=>
(३१५)
07
=>
[[३। कर्तरि लिटः क्वसौ, ‘राधो हिंसायाम्’ (६-४-१२३) इति एत्वाभ्यासलोपौ। अत्रापि धातोर्हिसार्थकत्वस्यानूद्यमानत्वात् धातोरनेकार्थत्वमिति ज्ञेयम्। हिंसाभि- न्नार्थेषु तु रराधिवान् इति क्वसुप्रत्यये रूपमिति ज्ञेयम्।]]
1 {@“वृधु वृद्धौ”@} 2 ‘तदेव रूपं भाषार्थे वृधेर्वृद्धौ तु वर्धते।’ 3 इति देवः।
वर्धकः-र्धिका, वर्धकः-र्धिका, विवर्धिषकः-षिका, विवृत्सकः-त्सिका, वरीवृधकः- धिका
वर्धिता-त्री, वर्धयिता-त्री, विवर्धिषिता-विवर्त्सिता-त्री, वरीवृधिता-त्री
इत्यादिकानि रूपाणि सर्वाण्यपि भौवादिकवृतु 4 धातुवत् ऊह्यानि।
5 वर्द्धनः, 6 वर्धिष्णुः, वृद्धः, वर्षिष्ठः, वर्षीयान्, 7 वृद्धिः, वार्धुषिकः, 8 वर्धमानः, 9 10 इत्यसानच्- प्रत्ययः।
प्रत्ययस्य कित्त्वान्न गुणः।]] वृधसानः, 11 इति रन्प्रत्ययः।]] वर्ध्रम् इत्यादिकानि रूपाण्यस्य धातोः विशेषेण भवन्तीति ज्ञेयम्।
प्रासङ्गिक्यः
01
=>
(१६३२)
02
=>
(१-भ्वादिः-७५९। सक। सेट्। आत्म।)
03
=>
(श्लो। १२४)
04
=>
(१६२९)
05
=>
[[१। ‘नन्दिग्रहिपचादिभ्यः--’ (३-१-१३४) इति नन्द्यादित्वात् संज्ञायां कर्तरि ल्युः। एवम् आनन्दवर्धनः इत्यत्रापि कर्मण्यणं बाधित्वा ल्युरेव।]]
06
=>
[[२। तच्छीलादिषु कर्तृषु ‘अलंकृञ्निराकृञ्प्रजनोत्पचोत्पतोन्मदरुच्यपत्रपवृतुवृधु--’ (३-२-१३६) इति इष्णुच्प्रत्ययः।]]
07
=>
[[३। वृद्धिनिमित्तं द्रव्यम् वृद्धिः तादर्थ्यात् ताच्छब्द्यम्। ‘क्तिच्क्तौ च--’ (३-३-७४) इति संज्ञायां क्तिच्। यद्वा क्तिन्। ‘वृद्धिरादैच्’ (१-१-१) इत्यत्र वृद्धिशब्दस्तु संज्ञात्वेऽपि क्तिन्नन्त एव, क्तिजन्त इति पस्पशायां भाष्ये प्रतिपादितत्वात् स्पष्टम्।]]
08
=>
[[४। ‘ताच्छील्यवयोवचनशक्तिषु--’ (३-२-१२९) इत्यादिना यथासम्भवमर्थत्रयेऽपि चानश्प्रत्ययः। वर्धमानः त्रिविक्रमः। ‘रूढिशब्दप्रकाराः ताच्छीलिकाः’ (भाष्यम् ३-२-५६) इति वचनात् रूढोऽयम्।]]
09
=>
[पृष्ठम्१२५९+ २५]
10
=>
[[१। वर्धते इति वृधसानः गर्भः। ‘ऋजिवृधि--’ [द। उ। ५-३०]
11
=>
[[२। वर्धतेऽम्भसा स्पृष्टम् इति वर्ध्रम् चर्मच्छेदः। ‘वृधिवपिभ्यां रन्’ [द। उ। ८-४५]
1 {@“वृधु भाषार्थः”@} 2 आस्वदीयः।
‘छेदने पूरणे चार्थे वर्धेर्वर्धयतीति णौ।।
3 इति देवः।
वर्धकः-र्धिका, विवर्धयिषकः-षिका, वर्धकः-र्धिका, विवर्धिषकः-षिका, वरीवृधकः- धिका
वर्धयिता-त्री, विवर्धयिषिता-त्री, वर्धिता-त्री, विवर्धिषिता-त्री, वरीवृधिता-त्री
इत्यादिकानि रूपाणि सर्वाणि चौरादिकजासयतिवत् 4 ज्ञेयानि।
णिजभावपक्षे यङन्ते सर्वत्र अभ्यासस्य रीगागमो भवतीति विशेषः।
प्रासङ्गिक्यः
01
=>
(१६३३)
02
=>
(१०-चुरादिः-१७८३। अक। सेट्। उभ।)
03
=>
(श्लो। १२३)
04
=>
(५९६)