| YouTube Channel

धावु (dhAvu)

 
Shabdartha Kaustubha
Kannada
धावु - गतिशुद्ध्योः (भ्वा० उभ० गतौ० अक० शुद्धौ० सक० से०) धावति
पदविभागः - > धातुः
कन्नडार्थः - > ಓಡು /ವೇಗವಾಗಿ ನಡೆ
प्रयोगाः - > "गच्छति पुरः शरीरं धावति पश्चादसंस्तुतं चेतः"
उल्लेखाः - > शाकु० १-३०
धावु - गतिशुद्ध्योः (भ्वा० उभ० गतौ० अक० शुद्धौ० सक० से०) धावति
पदविभागः - > धातुः
कन्नडार्थः - > ಶುದ್ಧಮಾಡು /ತೊಳೆ
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
धाव्
मूलधातुः:
धावु
धात्वर्थः:
गतिशुद्ध्योः
गणः:
भ्वादिः
कर्मकत्वं:
गतौ अकर्मकः, शुद्धौ सकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
उभयपदी
रूपम्:
धावति-ते
धातुप्रदीपः
Sanskrit
धावुँ धावु गति, शुद्ध्योः
- धावति धावते धावित्वा ।धौत्वा। धौतः पटः। कथं गतौ धावितो धावितवानिति ? यस्य विभाषा (7/2/15) इति निषेधस्यानित्यादिटोऽनित्यता बीजञ्च कृतिचृतिनृतीनामीदित्करणम्। तद्धि श्वीदितो निष्ठायाम् (7/2/15) इति निषेधस्य नित्यत्त्वे तु तेनैव सिद्धत्वादनर्थकं तत् स्यात् वृषादित्वात् कलच् बाहुल्यादुपधाह्रस्वत्वम्-धवलः धवला ''नीता येन निशा शशाङ्कधवला '' ण्वुल्-धावकः ल्युट्-धावनम् ।क्तिन् धौतिः ।। 601 ।।
क्षीरतरङ्गिणी
Sanskrit
धावुँ धावु शुद्धौ
- उदात्तः स्वरितेत्- उदात्तः सेट् स्वरितेत्त्वात् स्वरितञितः कर्त्रभिप्राये क्रियाफले (1372) इत्यात्मनेपदम् धावते पादौ, धावति धावित्वा धौत्वा धौतः धावकः धावति इति वेगितायां गतावाहुः 586
धातुवृत्तिः
Sanskrit
धावुँ धावु (अर्थः) गति, शुद्ध्योः
उदात्तः स्वरितेत् "स्वरितञितः कर्त्रभिनप्राये क्रियाफले''इति क्रियाफलस्य प्रधानस्य कर्तृगामित्वविवक्षायां तङ् ( धावति दधाव दधावतुः धावितेत्यादि तङ्पक्षे धावते ) इत्यादि यदा क्रियाफलस्य कर्तृगामित्वमुपपदेन प्रतीयते तदा "विभाषोपपदेन प्रतीयमाने''इति परस्मेपदं भवति (स्वार्थं धावतीति दिधाविषति दिधाविषते)"पूर्वत्सनः'' इति क्रियाफलस्य कर्तृगामित्वे तङ् (दाधाव्यते धावयति अदीधत धावित्वा धौत्वा ) "उदितो वा'' इतीङ्विकल्पः इडभावे "च्छ्वोः शूङ्'' इति ऊठि "एत्येधत्यूठ्सु'' इति वृद्धिः, निष्ठायां "यस्य विभाषा'' इति अनिट्त्वात् (धौतः धौतवान् ) अत्र मैत्रेयः, कथं धावितो धावितवानिति उपक्रम्य कृतिचृतिनृतीनामीदित्त्वं "यस्य विभाषा'' इत्यस्यानित्यत्वे ज्ञापकमाह, नित्यत्वे ह्मेतेषां "सेसिचि कृतचृतकृततृदन्तः'' इति सकारादाविटो विकल्पनात् निष्ठायामट्त्विस्य सिद्धत्वाकिं तदर्थेनेदित्त्वेन 593
कृदन्तरूपमाला
Sanskrit
1 {@“धावु गतिशुद्ध्योः”@} 2 ‘शुद्धौ’ इति क्षीरस्वामी।
‘जवे च’ इति द्रुमे।
उपपूर्वकात् स्तुत्यर्थता।
धावकः-विका, धावकः-विका, दिधाविषकः-षिका, 3 दाधावकः-विका
धाविता-त्री, धावयिता-त्री, दिधाविषिता-त्री, दाधाविता-त्री
धावन्-न्ती, धावयन्-न्ती, दिधाविषन्-न्ती
-- धाविष्यन्-न्ती-ती, धावयिष्यन्-न्ती-ती, दिधाविषिष्यन्-न्ती-ती
-- धावमानः, धावयमानः, दिधाविषमाणः, दाधाव्यमानः
धाविष्यमाणः, धावयिष्यमाणः, दिधाविषिष्यमाणः, दाधाविष्यमाणः
4 धौः-धावौ-धावः
-- -- -- 5 6 धौतम्-तः-तवान्, 7 उपधावितम्-तः-तवान्, धावितः, दिधाविषितः, दाधावितः-तवान्
धावः, प्रधावी, धावः, दिधाविषुः, दाधावः
धावितव्यम्, धावयितव्यम्, दिधाविषितव्यम्, दाधावितव्यम्
धावनीयम्, धावनीयम्, दिधाविषणीयम्, दाधावनीयम्
धाव्यम्, धाव्यम्, दिधाविष्यम्, दाधाव्यम्
ईषद्धावः-दुर्धावः-सुधावः
-- -- धाव्यमानः, धाव्यमानः, दिधाविष्यमाणः, दाधाव्यमानः
धावः, धावः, दिधाविषः, दाधावः
धावितुम्, धावयितुम्, दिधाविषितुम्, दाधावितुम्
8 धावा, धावना, दिधाविषा, दाधावा
9 प्रणिधावनम्-प्रनिधावनम्, धावनम्, दिधाविषणम्, दाधावनम्
10 धावित्वा-धौत्वा, धावयित्वा, दिधाविषित्वा, दाधावित्वा
प्रधाव्य, प्रधाव्य, प्रदिधाविष्य, प्रदाधाव्य
धावम् २, धावित्वा २, धौत्वा २, धावम् २, धावयित्वा २, दिधाविषम् २, दिघाविषित्वा २, दाधावम्
दाधावित्वा २।
प्रासङ्गिक्यः
01
=>
(८९६)
02
=>
(१-भ्वादिः-६०१। सक। सेट्। उभ।)
03
=>
[[६। यङन्ताण्ण्वुलि, ‘दीर्घोऽकितः’ (७-४-८३) इत्यभ्यासे दीर्घः। एवं यङन्ते सर्वत्र ज्ञेयम्।]]
04
=>
[[७। क्विपि, ‘च्छ्वोः शूडनुनासिके च’ (६-४-१९) इत्यूठ् वकारस्य। ‘एत्येधत्यूठ्सु’ (६-१-८९) इति वृद्धौ रूपमेवम्।]]
05
=>
[पृष्ठम्०७९४+ २३]
06
=>
[[१। क्त्वायामिड्विकल्पनात् निष्ठायाम्, ‘यस्य विभाषा’ (७-२-१५) इति इण्निषेधे ऊठि, वृद्धौ धौतम् इति रूपम्। ‘यस्य विभाषा’ (७-२-१५) इति इण्निषेधस्यानि- त्यत्वपक्षे इटि धावितम् इत्याद्यपि भवति। तस्य सूत्रस्यानित्यत्वं तु कृन्तत्यादे- रीदित्करणात्, ‘द्वितीया श्रितातीतपतित--’ (२-१-२४) इत्यत्र पतितग्रहणाच्च ज्ञाप्यते।]]
07
=>
[[आ। ‘कृण्वन्तमाश्चर्यगतीरमूतिदं जगन्त्यवन्तं त्रिदशोपधावितम्।।’ धा। का। १। ७६।]]
08
=>
[[२। ‘गुरोश्च हलः’ (३-३-१०३) इति स्त्रियां भावादौ अकारप्रत्ययः।]]
09
=>
[[३। उपसर्गस्थान्निमित्तात् परस्य नेः ‘शेषे विभाषाऽकखादावषान्त उपदेशे’ (८-४-१८) इति णत्वविकल्पः।]]
10
=>
[[४। ‘उदितो वा’ (७-२-५६) इति क्त्वायामिड्विकल्पः। इडभावपक्षे ऊडादिकं भवति।]]