| YouTube Channel

धारोष्णं (dhAroSNaM)

 
शब्दकल्पद्रुमः
Sanskrit
धारोष्णं,
क्ली,
(धारायां दोहनप्रपाते उष्णम् ।)दोहनेनोष्णधारया पतितदुग्धम् तस्य गुणाः ।“धारोष्णन्त्वमृतं पयो भ्रमहरं निद्राकरं कान्तिदंवृष्यं बृंहणमग्निवर्द्धनमतिस्वादु त्रिदोषापहम्
”इति राजनिर्घण्टः
(“धारोष्णं गोपयो बल्यं लघु शीतं सुधासमम् ।दीपनञ्च त्रिदोषघ्नं तद्धाराशिशिरं त्यजेत्
धारोष्णं शस्यते गव्यं धाराशीतन्तु माहिषम्
”इति भावप्रकाशस्य पूर्व्वखण्डे द्बितीये भागे
)