| YouTube Channel

धारणीययन्त्र (dhAraNIyayantra)

 
वाचस्पत्यम्
Sanskrit
धारणीययन्त्र
न०
धार्य्यते धारि--कर्मणि अनीयर् कर्म० ।धार्य्ये देवताभेदानां यन्त्रभेदे तच्च पूजायन्त्राद्विलक्षणंसारदायां २४ पटले दृश्यम् तल्लेखनद्रव्यादि तत्रोक्तंयथा “काश्मीररोचनालाक्षामृगेभमदचन्दनैः विलि-खेद्धेमलेखन्या यन्त्राण्येतानि देशिकः” निषिद्धयन्त्रमुक्तम्“भूमिस्पृष्टं शवस्पृष्टं दग्धं निर्माल्यसङ्गतम् विशीर्णंलङ्घितं मन्त्री यन्त्रं जातु धारयेत्” मन्त्रमहीदधौ १९तरङ्गे तल्लेखनप्रकारद्रव्यादिकमुक्तं तत्रैव दृश्यम् ।विस्तरभयात् लिखितं कर्मभेदे सामान्यतोलेखनद्र-व्यादिकं २५ तरङ्गे तत्रोक्तं यथा “चन्दनं राचना रात्रि-र्गृहधूमश्चिताभवः अङ्गारोऽष्टविषाणीति शान्त्यादौयन्त्रलेखने पूर्वोक्तलेखनद्रव्यं गृह्णीयात्तदपि ध्रुवम् ।पिप्पलं मरिचं शुण्ठी श्येनविष्ठाथ चित्रकः गृहधूमोन्मत्तरसौ लवणञ्च विषाष्टकम् शान्तौ वश्येलिखेद्भूर्जे स्तम्भने द्वीपिचर्मणि खरचर्मणि विद्वेषेउच्चाटे ध्वजवाससि नरास्थनि लिखेद्यन्त्रं मारणमन्त्रवित्तमः ये त्वाधाराः स्मृता यन्त्रतरङ्गे तेऽपिसम्मताः”