| YouTube Channel

धारकः-रिका (dhArakaH-rikA)

 
कृदन्तरूपमाला
Sanskrit
1 {@“धृङ् अवध्वंसने”@} 2 ‘अविध्वंसने’ इति क्षीरस्वामी।
‘ध्रियते स्यादवस्थाने धृङोऽवध्वंसने पुनः।
धरते धारणेऽर्थे तु धरते धरतीत्युभे।।’ 3 इति देवः।
धारकः-रिका, धारकः-रिका, 4 दिधीर्षकः-षिका- 5 देध्रीयकः-यिका
धर्ता-त्री, धारयिता-त्री, दिधीर्षिता-त्री, देध्रीयिता-त्री
-- धारयन्-न्ती, धारयिष्यन्-न्ती-ती
-- धरमाणः, धारयमाणः, दिधीर्षमाणः, देध्रीयमाणः
6 धरिष्यमाणः, धारयिष्यमाणः, दिधीर्षिष्यमाणः, देध्रीयिष्यमाणः
सुधृत्-सुधृद्-सुधृतौ-सुधृतः
-- -- धृतम्-तः-तवान्, धारितः, दिधीर्षितः, देध्रीयितः-तवान्
7 धरः, 8 धरणः, धारः, दिधीर्षुः, देध्रीयः
धर्तव्यम्, धारयितव्यम्, दिधीर्षितव्यम्, देध्रीयितव्यम्
धरणीयम्, धारणीयम्, दिधीर्षणीयम्, देध्रीयणीयम्
9 10 धार्यम्, धार्यम्, दिधीर्ष्यम्, देध्रीय्यम्
ईषद्धरः-दुर्धरः-सुधरः
-- -- 11 ध्रियमाणः, धार्यमाणः, दिधीर्ष्यमाणः, देध्रीय्यमाणः
धारः, धारः, दिधीर्षः, देध्रीयः
धर्तुम्, धारयितुम्, दिधीर्षितुम्, देध्रीयितुम्
12 धारा-धृतिः, धारणा, दिधीर्षा, देध्रीया
धरणम्, धारणम्, दिधीर्षणम्, देध्रीयणम्
धृत्वा, धारयित्वा, दिधीर्षित्वा, देध्रीयित्वा
प्रधृत्य, प्रधार्य, प्रदिधीर्ष्य, प्रदेध्रीय्य
धारम् २, धृत्वा २, धारम् २, धारयित्वा २, दिधीर्षम् २, दिधीर्षित्वा २, देध्रीयम्
देध्रीयित्वा २।
प्रासङ्गिक्यः
01
=>
(९१३)
02
=>
(१-भ्वादिः-९६०। अक। अनि। आत्म।)
03
=>
(श्लो। २९)
04
=>
[[१। सन्नन्ताण्ण्वुलि ‘इको झल्’ (१-२-९) इति सनः कित्त्वे, ‘अज्झनगमां सनि’ (६-४-१६) इति दीर्घे, ‘ॠत इद्धातोः’ (७-१-१००) इति इत्त्वे रपरत्वे, ‘हलि च’ (८-२-७७) इति दीर्घे रूपमेवम्। एवं सन्नन्ते सर्वत्र ज्ञेयम्।]]
05
=>
[[२। यङन्ते, ‘रीङ् ऋतः’ (७-४-२७) इति रीङ्। गुणोऽभ्यासे। एवं सर्वत्र ज्ञेयम्।]]
06
=>
[[३। ‘ऋद्धनोः स्ये’ (७-२-७०) इतीडागमः।]]
07
=>
[[४। पचादित्वादच्प्रत्ययः कर्तरि।]]
08
=>
[[५। ‘चलनशब्दार्थादकर्मकाद् युच्’ (३-२-१४८) इति ताच्छीलिको युच्।]]
09
=>
[पृष्ठम्०८०७+ २३]
10
=>
[[१। ‘ऋहलोः--’ (३-१-१२४) इति ण्यत्प्रत्ययः।]]
11
=>
[[२। ‘रिङ् शयग्लिङ्क्षु’ (७-४-२८) इति रिङादेशे रूपम्।]]
12
=>
[[३। ‘धारा प्रपाते’ (ग। सू। ३-३-१०३) इति भिदादिपाठात् अङि, ‘ऋदृशोऽङि गुणः’ (७-४-१६) इति गुणः। निपातनाद् दीर्घः। अन्यत्र धृतिः। असिधारा इत्यादिषु प्रपातसाम्यात् लक्षणया प्रयोगः।]]
1 {@“धृङ् अवस्थाने”@} 2 किरादिः।
‘धारणे च’ इति द्रुमे।
‘ध्रियते स्यादवस्थाने धृङोऽवध्वंसने पुनः।
धरते धारणेऽर्थे तु धरते धरतीत्युभे।।’ 3 इति देवः।
धारकः-रिका, धारकः-रिका, 4 दिधरिषकः-षिका, देध्रीयकः-यिका
इत्यादीनि सर्वाण्यपि रूपाणि भौवादिकधरतिवत् 5 ऊह्यानि।
6 पुरन्ध्री 7, 8 9 महीध्रः-कुध्रः, 10 आधारः, 11 धर्मः, इमानि रूपाणि अस्य धातोरिति विशेषः।
प्रासङ्गिक्यः
01
=>
(९१४)
02
=>
(६-तुदादिः-१४१२। अक। अनि। आत्म।)
03
=>
(श्लो। २९)
04
=>
[[४। अस्य धातोः किरादित्वात् ‘किरश्च पञ्चभ्यः’ (७-२-७५) इति सनि इडागमो भवति। द्वित्वादिकम्। एवं सन्नन्ते सर्वत्र ज्ञेयम्।]]
05
=>
(९१३)
06
=>
[[५। पुरं धारयतीत्यर्थे ‘संज्ञायां भृ--’ (३-२-४६) इति खचि, पृषोदरादित्वात् उपधा- लोपे साधुः। स्त्रियाम्, गौरादित्वात् ङीष्।]]
07
=>
[[आ। ‘ह्रीणां नवोढां जगतोऽभिनन्द्यां तां पर्यगृह्णन् मुदिताः पुरन्ध्र्यः।।’ वा। वि। १-६०।]]
08
=>
[पृष्ठम्०८०८+ २८]
09
=>
[[१। ‘कप्रकरणे मूलविभुजादिभ्य उपसंख्यानम्’ (वा। ३-२-५) इति कः। एवं कुं धरतीति कुध्रः इत्यत्रापि ज्ञेयम्।]]
10
=>
[[२। ‘अवहाराधारावायानामुपसंख्यानम्’ (वा। ३-३-१२२) इति घञन्तः निपात्यते। आध्रियतेऽस्मिन्नित्यर्थे = आधारः।]]
11
=>
[[३। ‘अर्त्तिस्तुसुहुसृधृ--’ (द। उ। ७-२६) इति मन्प्रत्यये रूपमेवम्। धरति ध्रियते वाऽस्मिन्नाचार इति धर्मः = न्यायः।]]
1 {@“धृञ् धारणे”@} 2 ‘धरते धारणेऽर्थे तु धरते धरतीत्युभे।।’ 3 इति देवः।
धारकः-रिका, धारकः-रिका, दिधीर्षकः-षिका, देध्रीयकः-यिका
इत्यादीनि सर्वाण्यपि रूपाणि भौवादिधरतिकवत् 4 ज्ञेयानि।
5 युगन्धाः- 6 जलन्धरः-पुरन्धरः-श्रुतन्धरः-वसुन्धरा, 7 धनुर्धरा, 8 महीध्रः 9, 10 कर्णधारः, 11 आधारः, 12 धारा, 13 धारयः 14 , 15 धारयन्, 16 धुरन्धरः, धर्मः
इमानि रूपाणि अधिकान्यत्रेति विशेषः।
अस्य धातोः उभयपदित्वात् शतरि--धरन्-न्ती, धरिष्यन्-न्ती-ती, इति विशेषः।
प्रासङ्गिक्यः
01
=>
(९१७)
02
=>
(१-भ्वादिः-९००। सक। अनि। उभ।)
03
=>
(श्लो। २९)
04
=>
(९१३)
05
=>
[[५। ‘संज्ञायां भृतॄवृजिधारिसहितपिदमः’ (३-२-४६) इति कर्मण्युपपदे ण्यन्तात् खच्- प्रत्ययः। युगं धारयतीति युगन्धरः = पर्वतविशेषः। ‘खचि ह्रस्वः’ (६-४-९४) इति ह्रस्वः, ‘अरुर्द्विषदजन्तस्य--’ (६-३-६७) इति मुम्। एवं जलन्धरः, पुरन्धरः, श्रुतन्धरः, वसुन्धरा इत्यादिषु ज्ञेयम्।]]
06
=>
[पृष्ठम्०८०९+ ३०]
07
=>
[[१। धनुर्धरा इत्यत्रापि खजेव। अजन्तत्वाभावात् मुमागमो न।]]
08
=>
[[२। महीं धरतीति महीध्रः = पर्वतः। एवं कुध्रः इत्यपि। ‘कप्रकरणे मूलविभु- जादिभ्य उपसंख्यानम्’ (वा। ३-२-५) इति कप्रत्यये पृषोदरादित्वात् उपधालोपे साधुः।]]
09
=>
[[आ। ‘यियासतस्तस्य महीध्ररन्ध्रभिदापटीयान् पटहप्रणादः।’ शि। व। ३। २४।]]
10
=>
[[३। ‘कर्मण्यण्’ (३-२-१) इत्यणि रूपम्। एवं सूत्रधारः इत्यादिष्वप्यण्।]]
11
=>
[[४। ‘ºअवहाराधारावायानामुपसंख्यानम्’ (वा। ३-३-१२२) इति संज्ञायां घापवादो घञ्।]]
12
=>
[[५। ‘धारा प्रपाते’ (ग। सू। ३-३-१०३) इति भिदादिपाठादङ्। ‘ऋदृशोऽङि--’ (७-४-१६) इति गुणः। निपातनाद् दीर्घः। अन्यत्र धृतिः इत्येव।]]
13
=>
[[६। ‘अनुपसर्गाल्लिम्पविन्दधारिपारि--’ (३-१-१३८) इत्यादिना ण्यन्तादस्मात् शप्रत्ययः। गुणायादेशौ। कर्तरि प्रत्ययोऽयम्।]]
14
=>
[[B। ‘सुखजातः सुरापीतो नृजग्धो माल्यधारयः।’ भ। का। ५। ३८।]]
15
=>
[[७। ण्यन्तादस्मात्, ‘इङ्धार्योः शत्रकृच्छ्रिणि’ (३-२-१३०) इति शता। ‘धारयन् पारायणम्’ इत्यत्र क्लेशं विना धारणस्य द्योतनात् शता। कृच्छ्रार्थे तु धारयमाणः इति शानजेव।]]
16
=>
[[८। धुरं धरतीत्यर्थे संज्ञात्वाभावेऽपि बाहुलकात् खचि, ‘वाचंयमपुरन्दरौ च’ (६-३-६९) इत्यत्र चकारात् अमागमः इति प्र। सर्वस्वे।]]
1 {@“धॄ वयोहानौ”@} 2 प्वादिः ल्वादिश्च।
‘जॄ’ इत्यस्य पाठभेदोऽयम्।
‘आत्रेयमैत्रेयदैवपुरुषकारादिषु दर्शनादिहास्माभिर्लिखितः’ इति मा।
धा।
वृत्तौ।
धारकः-रिका, धारकः-रिका, दिधरीषकः-दिधरिषकः-षिका, दिधीर्षकः-र्षिका
धरीता-धरिता-त्री, ईषद्धरः- 3 दुर्धरः-सुधरः
इत्यादीनि सर्वाण्यपि रूपाणि जॄधातुवत् 4 ज्ञेयानि।
प्रासङ्गिक्यः
01
=>
(९२०)
02
=>
(९-क्र्यादिः-१४९४। अक। सेट्। पर।)
03
=>
[[आ। ‘जगत् पिपविषुर्वायुः कल्पान्त इव दुर्धरः।।’ भ। का। ९। ५३।]]
04
=>
(६१८)