| YouTube Channel

धारं (dhAraM)

 
शब्दकल्पद्रुमः
Sanskrit
धारं,
क्ली,
(धाराया इदम् धारा + “तस्येदम् ।”४ १२० इत्यण् ।) वर्षोद्भवं जलम् ।तद्द्विविधम् गाङ्गम् सामुद्रञ्च यथा, --“यदा स्यादाश्विने मासि सूर्य्यः स्वातीविशाखयोः ।तदाम्बु जलदैर्मुक्तं गाङ्गमुक्तं मनीषिभिः
अन्यदा मृगशीर्षादिनक्षत्रेषु यदम्बुदैः ।अभिवृष्टमिदं तोयं सामुद्रमिति संज्ञितम्
”तयोर्गुणाः यथा, --“गाङ्गं जलं स्वादु सुशीतलञ्चरुचिप्रदं पित्तकफापहञ्च ।निर्दोषमिष्टं लघु तच्च नित्यंगुणाधिकं व्योम्नि गृहीतमाहुः
सामुद्रसलिलं शीतं कफवातकरं गुरु ।चित्रायामाश्विने तच्च गुणाढ्यं गाङ्गवद्भवेत्
पतितं भुवि तत्तोयं गाङ्गं सामुद्रमेव वा ।स्वस्वाश्रयवशाद्गच्छेदन्यदन्यद्रसादिकम्
इति राजनिर्घण्टः