| YouTube Channel

धाययितुम् (dhAyayitum)

 
कृदन्तरूपमाला
Sanskrit
1 {@“धीङ् आधारे”@} 2 स्वादिः।
धायकः-यिका, धायकः-यिका, 3 दिधीषकः-षिका, देधीयकः-यिका
धेता-त्री, धाययिता-त्री, दिधीषिता-त्री, देधीयिता-त्री
-- धाययन्-न्ती, धाययिष्यन्-न्ती-ती
-- 4 धीयमानः, धाययमानः, दिधीषमाणः, देधीयमानः
धेष्यमाणः, धाययिष्यमाणः, दिधीषिष्यमाणः, देधीयिष्यमाणः
प्रधीः-प्रध्यौ-प्रध्यः
-- -- 5 धीनम् 6 -धीनः-धीनवान्, अधीनः, धायितः, धिधीषितः, देधीयितः-तवान्
धयः, धायः, दिधीषुः, 7 देध्यः
धेतव्यम्, धाययितव्यम्, दिधीषितव्यम्, देधीयितव्यम्
धयनीयम्, धायनीयम्, दिधीषणीयम्, देधीयनीयम्
धेयम्, धाय्यम्, दिधीष्यम्, देधीय्यम्
ईषद्धयः-दुर्धयः-सुधयः
-- -- 8 धीयमानः, धाय्यमानः, दिधीष्यमाणः, देधीय्यमानः
धयः, धायः, दिधीषः, देधीयः
धेतुम्, धाययितुम्, दिधीषितुम्, देधीयितुम्
धीतिः, धायना, दिधीषा, देधीया
धयनम्, धायनम्, दिधीषणम्, देधीयनम्
धीत्वा, धाययित्वा, दिधीषित्वा, देधीयित्वा
प्रधीय, प्रधाय्य, प्रदिधीष्य, प्रदेधीय्य
धायम् २, धीत्वा २, धायम् २, धाययित्वा २, दिधीषम् २, दिधीषित्वा २, देधीयम्
देधीयित्वा २।
प्रासङ्गिक्यः
01
=>
(९०१)
02
=>
(४-दिवादिः-११३६। अक। अनि। आत्म।)
03
=>
[[३। सन्नन्ताण्ण्वुलि, ‘इको झल्’ (१-२-९) इति झलादेः सनः कित्त्वाद् गुणनिषेधे, ‘अज्झनगमां सनि’ (६-४-१६) इति दीर्घः। ‘पर्जन्यवल्लक्षण प्रवर्तते’ (परिभाषा १२१) इति न्यायात् दीर्घे स्वतो विद्यमानेऽपि पुनर्दीर्घः। एवं सन्नन्ते सर्वत्र बोध्यम्।]]
04
=>
[[४। शानचि, ‘दिवादिभ्यः--’ (३-१-६९) इति श्यनि, रूपम्।]]
05
=>
[[५। ‘स्वादय ओदितः’ (ग। सू। दिवादौ) इति वचनात् ओदित्त्वमस्य धातोर्ज्ञेयम्। तेन, ‘ओदितश्च’ (८-२-४५) इति निष्ठानत्वे रूपमेवम्। अधीनः इत्यत्र धीनः अधीनः इति व्युत्पत्तिः। ‘वाक्यं वक्तर्यधीनं हि’, ‘अस्मास्वधीनं किमु निःस्पृहाणाम्’ (किरातार्जुनीये ३-९) इत्यादिषु अधीनशब्दः परतन्त्रवचनः, अव्युत्पन्नः।]]
06
=>
[[आ। ‘किं सूयसे गिरमदून नितान्तदीनामुड्डीनकाकसम भूपतिधीनमेतत्।’ धा। का। २। ५८।]]
07
=>
[[६। यङन्तात् पचाद्यचि, यङो लुकि, यणादेशः।]]
08
=>
[पृष्ठम्०७९८+ २७]