| YouTube Channel

धामार्गवः (dhAmArgavaH)

 
शब्दकल्पद्रुमः
Sanskrit
धामार्गवः
पुं,
(धाम्नो मार्गं पन्थानं वातीति वागतौ + कः ।) अपामार्गः इत्यमरः ८८
(रक्तापामार्गोऽयम् अस्य पर्य्यायो यथा, --“रक्तोऽन्यो वसिरो वृत्तफलो धामार्गवोऽपि ।प्रत्यक्पर्णी केशपर्णी कथिता कपिपिप्पली
”इति भावप्रकाशस्य पूर्व्वखण्डे प्रथमे भागे
)घोषकः इति मेदिनी वे, ५९
(अस्यपर्य्यायो यथा, --“महाकोषातकी प्रोक्ता हस्तिघोषा महाफला ।धामार्गवो घोषकश्च हस्तिपर्णश्च स्मृतः
”इति भावप्रकाशस्य पूर्व्वखण्डे प्रथमे भागे
)पीतघोषा इति रत्नमाला