धापनीयम् (dhApanIyam)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
कृदन्तरूपमाला
Sanskrit1 {@“डु धाञ् धारणपोषणयोः”@} 2 3 ‘डु धाञ् दानधारणयोः’ इति क्षीरस्वामी।
निरुक्ते 4 “रत्नधात- मम् = रमणीयानां धनानां दातृतमम्।” इति विवरणमप्यत्रैवानुकूलतया दृश्यते।
मैत्रैयरक्षितप्रभृतिभिरस्य धातोर्दानार्थत्वमष्यङ्गीकृतम्।]] ‘घेटो धयति पानार्थे, धाञो धत्ते दधात्यपि।’ 5 इति देवः।
6 धायकः-यिका, 7 धापकः-पिका, 8 धित्सकः-त्सिका, 9 देधीयकः-यिका
धाता-धात्री, धापयिता-त्री, धित्सिता-त्री, देधीयिता-त्री
10 प्रणिदधत्-दधती, धापयन्-न्ती, धित्सन्-न्ती
-- धास्यन्-न्ती-ती, धापयिष्यन्-न्ती-ती, धित्सिष्यन्-न्ती-ती
-- 11 प्रणिदधानः, धापयमानः, धित्समानः, देधीयमानः
धास्यमानः, धापयिष्यमाणः, धित्सिष्यमाणः, देधीयिष्यमाणः
रत्नधाः-धौ-धाः
-- -- -- 12 हितम्- 13 प्रणिहितः-हितवान्, धापितः, धित्सितः, देधीयितः-तवान्
14 15 प्रधः, 16 दधः 17, 18 धायः, 19 किष्किन्धा 20, 21 धामा, 22 धीवा-धीवरी, बहुधीवरी, 23 शिरोधिः-विधिः, प्रणिधिः, बालधिः 24 -उपाधिः, 25 भूतधात्री, 26 श्रद्धालुः, 27 28 विधेयः, 29 विधाता, धापः, धित्सुः, 30 दाधाः
31 धातव्यम्, धापयितव्यम्, धित्सितव्यम्, देधीयितव्यम्
प्रणिधानीयम्, धापनीयम्, धित्सनीयम्, देधीयनीयम्
धेयम्, 32 धाय्या 33 34 धाप्यम्, धित्स्यम्, देधीय्यम्
ईषद्धानम्-दुर्धानम्-सुधानम्
-- -- -- 35 धीयमानः, धाप्यमानः, धित्स्यमानः, देधीय्यमानः
36 धात्री, 37 उपधिः-निधिः, 38 अन्तर्धिः- 39 उदधिः सन्धिः- 40 सुषन्धिः-दुष्षन्धिः, 41 दधि
42 धायः, 43 हित्रिमम् 44 धापः, धित्सः, देधीयः
धातुम्, धापयितुम्, धित्सितुम्, देधीयितुम्
हितिः, 45 अभिधा- 46 श्रद्धा, 47 उपधा, धापना, धित्सा, देधीया
प्रणिधानम्-अपिधानम्- 48 पिधानम्, धापनम्, धित्सनम्, देधीयनम्
हित्वा, धापयित्वा, धित्सित्वा, देधीयित्वा
49 प्रधाय-निधाय, प्रधाप्य, प्रधित्स्य, प्रदेधीय्य
50 घृतनिधायं निहितं 51, 52 गोत्राभिधायम्, 53 धायम् २, हित्वा २, धापम् २, धापयित्वा २, धित्सम् २, धित्सित्वा २, देधीयम् २
देधीयित्वा २
54 तुन्प्रत्यये रूपम्।
दधात्यर्थम्, धीयतेऽस्मिन्नर्थ इति वा धातुः = शब्दप्रकृतिः, पर्वतनिस्रावो वा।]] धातुः, 55 इति कूप्रत्ययान्तो निपातितः।
एवं शकन्धूरपि।
धातव्याऽसौ इति दिधिषूः।
अस्यैव धातोः कूप्रत्यये द्विर्वचनम्, षुगागम इत्वं च निपात्यन्ते।]] कर्कन्धूः-शकन्धूः-दिधिषूः, 56 आनकप्रत्यये रूपम्।
धानकः = सुवर्णपरिमाणम्।]] धानकः, 57 क्युप्रत्यये रूपम्।
निधनम् = विनाशः।
बाहुलकाद् धनमित्यपि क्युप्रत्यय एव बोध्यः।]] निधनम्-धनम्, 58 59 इति नप्रत्यये रूपम्।
धीयन्ते यासां विकारैः प्राणिन इति धानाः = यवविकाराः।]] धानाः, 60 इति यन्प्रत्यये नुडागमो विधीयते।]] धान्यम्, 61 इति क्रन्प्रत्यये ईत्वे च रूपम्।
दधाति आपत्सु चित्तमिति धीरः = सत्त्ववान्।]] धीरः, 62 इति विपूर्वाद्धाञोऽसिप्रत्ययः, वेध इति इत्ययं चादेशः।
विदधाति प्रजाः इति वेधाः = ब्रह्मा।]] वेघाः, 63 इत्येभिः असिप्रत्ययो विधीयते।
डिच्चायम्, तेन टेर्लोपः।
वयोधाः = प्राणी चन्द्रश्च।
पयोधाः = समुद्रः।
पुरोधाः = उपाध्यायः।]] वयोधाः-पुरोधाः।
01 (८९५)
02 (३-जुहोत्यादिः-१०९२-सक। अनि। उभ।)
03 [[[अ]
04 (७-१५)
05 (श्लो। ६)
06 [[१। ण्वुलि, ‘आतो युक् चिण्कृतोः’ (७-३-३३) इति युगागमः। एवं घञि णमुल्प्र- भृतिष्वपि ज्ञेयम्।]]
07 [[२। ण्यन्तात् ण्वुलि, आदन्तलक्षणः पुगागमः। ण्यन्ते सर्वत्र एवमेवेति ज्ञेयम्।]]
08 [[३। ‘दाधा ध्वदाप्’ (१-१-२०) इति घुसंज्ञायाम् ‘सनि मीमाघु--’ (७-४-५४) इत्यादिना सन्नन्ते आकारस्य इस्। ‘सः स्यार्धधातुके’ (७-४-४९) इति सकारस्य तकारे, ‘अत्र लोपोऽभ्यासस्य’ (७-४-५८) इत्यभ्यासलोपः। ‘इको झल्’ (१-२-९) इति सनः कित्त्वान्न गुणः। एवं सन्नन्ते सर्वत्र प्रक्रिया ज्ञेया।]]
09 [[४। यङन्ताण्ण्वुलि, ‘घुमास्था--’ (६-४-६६) इत्यादिना ईत्वे, द्विर्वचनादिकम्। अभ्यासे गुणः। यङन्ते सर्वत्रैवमेव।]]
10 [[५। शतरि, ‘जुहोत्यादिभ्यः--’ (२-४-७५) इति शपः श्लुः। ‘श्लौ’ (६-१-१०) इति द्विर्वचनम्। ‘श्नाऽभ्यस्तयोरातः’ (६-४-११२) इत्याकारलोपः। ‘नेर्गदनदपतपदघुमा--’ (८-४-१७) इत्यादिना उपसर्गस्थान्निमित्तात् परस्य नेः णत्वम्। ‘नाभ्यस्ताच्छतुः’ (७-१-७८) इति नुम्निषेधः।]]
11 [[आ। ‘अस्रावि भूमिपतिभिः क्षणवीतनिद्रैरश्नन् पुरो हरितकं मुदमादधानः।’ शि। व। ५। ५८।]]
12 [[६। निष्ठायाम्, ‘दधातेर्हिः’ (७-४-४२) इति प्रकृतेः हिः आदेशः। एवं तकारादौ किति प्रत्यये सर्वत्र (क्त्वा, क्तिन्प्रभृतिषु) ज्ञेयम्।]]
13 [[B। ‘ततः प्रणिहितः स्वार्थे राक्षसेन्द्रं बिभीषणः।।’ भ। का। ९। ९९।]]
14 [पृष्ठम्०७९०+ ३२]
15 [[१। ‘आतश्चोपसर्गे’ (३-१-१३६) इति कर्तरि कप्रत्ययः।]]
16 [[२। ‘ददातिदधात्योर्विभाषा’ (३-१-१३९) इति शप्रत्यये, शित्त्वात् शपि, तस्य श्लौ, द्विर्वचने, शप्रत्ययस्य सार्वधातुकत्वेन ‘श्नाऽभ्यस्तयोः--’ (६-४-११२) इत्या- कारलोपे च दधः इति रूपम्।]]
17 [[आ। ‘नभस्स्पृगूर्मिस्तितरीषतोऽस्य हरे दधस्यैकपदीमदात् सः।।’ वा। वि। ३। ३८।]]
18 [[३। दधातेरस्य शप्रत्ययस्य विभाषितत्वात् पक्षे, ‘श्याऽऽद्व्यध--’ (३-१-१४१) इत्यादिना कर्तरि णप्रत्यये, युगागमे च धायः इति रूपम्।]]
19 [[४। किं किं दधातीत्यर्थे ‘आतोऽनुपसर्गे कः’ (३-२-३) इति कर्मण्युपपदे कर्तरि कप्रत्यये, ‘पारस्करप्रमृतीनि च’ (६-१-१५७) इति सुडागमे, किमो मकारस्य लोपः षत्वं च भवति।]]
20 [[B। ‘किष्किन्धाद्रिसदात्यर्थं निष्पिष्टः कोष्णमुच्छ्वसन्।।’ भ। का। ६। १२१।]]
21 [[५। ‘अन्येभ्योऽपि दृश्यन्ते’ (३-२-७५) इति निरुपपदादस्मात् मनिन्प्रत्यये रूपम्।]]
22 [[६। ‘अन्येभ्योऽपि दृश्यन्ते’ (३-२-७५) इति निरुपपदादस्मात् क्वनिप्प्रत्यये, ईत्वे, रूपम्। स्त्रियाम्, ‘वनो र च’ (४-१-७) इति ङीब्रेफौ। बहुधीवा बहुधीवरी इत्यत्र तु ‘अनो बहुव्रीहेः’ (४-१-१२) इति निषेधात् ङीबभावः, ‘डाबुभाभ्या- मन्यतरस्याम्’ (४-१-१३) इति पाक्षिकः ङीप् रेफः डाप् च भवति।]]
23 [[७। शिरो धत्ते इति शिरोधिः = ग्रीवा। बाहुलकात् कर्तरि किप्रत्यये, ‘आतो लोप इटि च’ (६-४-६४) इत्याकारलोपः। केचित्तु शिरो धीयते अस्यामिति विगृह्य ‘कर्मण्यधिकरणे च’ (३-३-९३) इति किप्रत्यये निष्पादयन्ति। विधिः, प्रणिधिः इत्यादिषु तु कर्तर्येव किप्रत्ययः बाहुलकात्।]]
24 [[C। ‘आनिन्यिरे श्रेणिकृतास्तथाऽन्यैः परस्परं चालधिसंनिबद्धाः।।’ भ। का। ११। ४२।]]
25 [[८। भूतानि धत्ते इति भूतधात्री = पृथिवी। बाहुलकात् कर्तरि ष्ट्रन्प्रत्यये, स्त्रियां षित्त्वात् ङीष्।]]
26 [[९। तच्छीलादिषु कर्तृषु ‘स्पृहिगृहिपतिदयिनिद्रातन्द्राश्रद्धाभ्य आलुच्’ (३-२-१५८) इत्यालुच्प्रत्ययः।]]
27 [[ड्। ‘श्रद्धालुर्भ्रातुरङ्गानि चन्दनेष्वप्यरोचकी।।’ अनर्घराघबे। ७। १४३।]]
28 [[१०। ‘अर्हे कृत्यतृचश्च’ (३-३-१६९) इति कर्तरि यत्प्रत्ययः। ‘ईद्यति’ (६-४-६५) इति धातोरीत्वे गुणः।]]
29 [[११। विदधातीति विधाता = ब्रह्मा। ‘तृन्’ (३-२-१३५) ताच्छीलिकस्तृन्प्रत्ययः।]]
30 [[१२। यङन्तात् पचाद्यचि यङो लुकि ईत्वाभावे, अभ्यासे ‘दीर्घोऽकितः’ (७-४-८३) इति दीर्घः।]]
31 [पृष्ठम्०७९१+ २७]
32 [[१। सामिधेनीरूपऋत्विग्विशेषवाचित्वे सति, ‘पाय्यसान्नाय्यनिकाय्यधाय्या मानह- विर्निवाससामिधेनीषु’ (३-१-१२९) इत्यनेन ण्यत् आयादेशश्च निपात्येते। ‘धाय्येति न सर्वा सामिधेन्युच्यते, किं तर्हि? काचिदेव। रूढिशब्दो ह्ययम्। तथा च असामिधेन्यामपि दृश्यते-- ‘धाथ्याः शंसत्यग्निर्नेता त्वं सोमक्रतुभिः।’ इति काशिकाऽत्रानुसन्धेया। ‘सामिधेन्यभिधास्वृक्षु काचिद्धाय्येति कथ्यते। शस्त्रादिष्वपि धाय्याऽस्ति तेनैतदुपलक्षणम्।।’ इति प्रक्रियासर्वस्व श्लोकोऽ- प्यत्रानुसन्धेयः।]]
33 [[आ। ‘मदनानलबोधने भवेत् खग, धाय्या धिगधैर्यधारिणः।।’ नैषधे। २। ५९।]]
34 [ऋक्]
35 [[२। यगन्ताच्छानचि, ‘घुमास्था--’ (६-४-६६) इतीत्वम्।]]
36 [[३। धीयते = धार्यते शिरसीति धात्री = आमलकी। ‘धः कर्मणि ष्ट्रन्’ (३-२-१८१) इति ष्ट्रन्प्रत्ययः। षित्त्वात् स्त्रियां ङीष्।]]
37 [[४। ‘उपसर्गे घोः किः’ (३-३-९२) इति किप्रत्यये आकारलोपे च रूपम्। एवं निधिरित्यादिष्वपि ज्ञेयम्।]]
38 [[५। ‘अन्तश्शब्दस्य अङ्किविधिणत्वेषूपसर्गत्वं वाच्यम्’ (वा। १-४-६५) इत्युप- सर्गसंज्ञायां किप्रत्यये रूपम्। एवं अन्तर्धा अन्तर्णिधानम् इत्यत्रापि अङ्- विधौ णत्वविधौ चोपसर्गत्वं ज्ञेयमन्तश्शब्दस्य।]]
39 [[६। उदकं धीयतेऽत्रेति उदधिः = समुद्रः। ‘कर्मण्यधिकरणे च’ (३-३-९३) इति अधिकरणे किप्रत्ययः। ‘उदकस्योदः संज्ञायाम्’ (६-३-५७) इति उदक- शब्दस्य उदभावः। असंज्ञायां तु ‘पेषंवासवाहनधिषु च’ (६-३-५८) इति उदभावः--इति विशेषः।]]
40 [[७। सुषामादित्वात् (८-३-९८) सुषन्धिः दुष्षन्धिः इत्यत्र षत्वम्।]]
41 [[८। ‘भाषायां धाञ्--’ (वा। ३-२-१७१) इत्यादिना किः किन् वा प्रत्ययः। तस्य लिड्वद्भावातिदेशात् द्विर्वचनादिकं भवति।]]
42 [पृष्ठम्०७९२+ ३२]
43 [[१। ‘ड्वितः क्त्रिः’ (३-३-८८) इति क्त्रिप्रत्यये, तेन निवृत्तम् इत्यर्थे, ‘क्त्रेर्मम्नि- त्यम्’ (४-४-२०) इति मप्प्रत्यये, हिभावे च रूपमेवम्।]]
44 [[आ। ‘निष्ठां गते दत्त्रिमसभ्यतोषे विहित्रिमे कर्मणि राजपत्न्यः।’ भ। का। १। १३।]]
45 [[२। ‘आतश्चोपसर्गे’ (३-३-१०६) इत्यङ्।]]
46 [[३। ‘श्रढन्तरोरुपसर्गवद्वृत्तिः’ (वा। १-४-५९) इति वचनादुपसर्गभावेऽङ्।]]
47 [[B। ‘चिन्तावन्तः कथां चक्रुरुपधामेदभीरवः।’ भ। का। ७। ७४।]]
48 [[४। अपिपूर्वकात् धाञो ल्युटि ‘वष्टि भागुरिरल्लोपमवाप्योरुपसर्गयोः।’ इति वचनात् अपिघटिताकारस्य लोपे पिधानम् इति भवति। अन्येषां मते तु अपिघानम् इत्येव।]]
49 [[५। ‘न ल्यपि’ (६-४-६९) इतीत्वनिषेधः। ‘अन्तरङ्गानपि विधीन् बहिरङ्गो लुग् बाधते’ (परिभाषा ५३) इति न्यायात् पूर्वमेव ल्यपः प्रवृत्त्या तादिकितोऽभावात् न प्रकृतर्हिरादेशः।]]
50 [[६। ‘उपमाने कर्मणि च’ (३-४-४५) इति णमुलि युगागमे, अस्यः कषादित्वात् ‘कषादिषु यथाविध्यनुप्रयोगः’ (३-४-४६) इति पूर्वप्रयुक्तधातोरनुप्रयोगः।]]
51 [जलम्]
52 [[७। ‘द्वितीयायां च’ (३-४-५३) इति णमुल्। अत्र सूत्रे पूर्वसूत्रात् ‘परीप्सायाम्’ इति नानुवर्तते इति पदमञ्जर्यादौ स्पष्टम्।]]
53 [[C। {??} दित्वा करुणं सशब्दे गोत्रभिवायं सरितं समेत्य।’ भ। का। ३।५०। ]]
54 [[८। औणादिके [द। उ। १-१२२]
55 [[९। कर्क दधातीति कर्कन्धूः = बदरीवृक्षः। ‘अन्दूदृम्भूजम्बूकफेलूकर्कन्धूदिधिषूः’ [द। उ। १। १७६]
56 [[१०। औणादिके [द। उ। ३-२७]
57 [[११। निपूर्वकादस्मात् औणादिके [द। उ। ५। २६]
58 [पृष्ठम्०७९३+ २३]
59 [[१। ‘धापृ--’ [द। उ। ५-३९]
60 [[२। ‘दधातेर्यन् नुट् च’ [द। उ। ८। १९]
61 [[३। ‘सुसूधा--’ [द। उ। ८-४२]
62 [[४। ‘विधाञो वेध च’ [द। उ। ९-८४]
63 [[५। ‘वयसि धाञः’, ‘पयसि च’ ‘पुरसि च’ [द। उ। ९-८९-९०-९१]
1 {@“धेट् पाने”@} 2 ‘धेटो धयति पानार्थे, धाञो धत्ते दधात्यपि।’ 3 इति देवः।
4 5 धायकः-यिका, 6 धापकः-पिका, 7 धित्सकः-त्सिका, 8 देधीयकः-यिका
9 प्रणिधाता-त्री, धापयिता-त्री, धित्सिता-त्री, देधीयिता-त्री
10 प्रणिधयन्-न्ती, 11 धापयन्-न्ती, धित्सन्-न्ती
-- प्रणिधास्यन्-न्ती-ती, धापयिष्यन्-न्ती-ती, धित्सिष्यन्-न्ती-ती
-- -- धापयमानः, धापयिष्यमाणः, -- देधीयमानः, देधीयिष्यमाणः
12 धाः-धौ-धाः
-- -- -- 13 धीतम्-धीतः-धीतवान्, धापितः, धित्सितः, देधीयितः-तवान्
14 उद्धयः 15 -धयः, 16 नासिकन्धयः- 17 स्तनन्धयः, स्तनन्धयी, 18 नाडिन्धयः- 19 20 मुष्टिन्धयः, 21 शुनिन्धयः, 22 घटिन्धयः-खारिन्धयः-खरिन्धयः- 23 वातन्धयः, 24 धारुः, 25 26 धात्री, 27 पुष्पन्धयः, 28 मुञ्जन्धयः-कूलन्धयः-आस्यन्धयः, 29 क्षीरधाः, धापः, धित्सुः, देध्यः
धातव्यम्, धापयितव्यम्, धित्सितव्यम्, देधीयितव्यम्
प्रणिधानीयम्, धापनीयम्, धित्सनीयम्, देधीयनीयम्
प्रणिघेयम्, धाप्यम्, धित्स्यम्, देधीय्यम्
30 ईषद्धानः-दुर्धानः-सुधानः
-- -- धायः, 31 सन्धिः, धापः, धित्सः, देधीयः
धातुम्, धापयितुम्, धित्सितुम्, देधीयितुम्
32 धीतिः, 33 सुधा, धापना, धित्सा, देधीया
धयनम्, धापनम्, धित्सनम्, देधीयनम्
धीत्वा, धापयित्वा, धित्सित्वा, देधीयित्वा
प्रधाय, प्रधाप्य, प्रधित्स्य, प्रदेधीय्य
धायम् २ धीत्वा २ धापम् २ धापयित्वा २ धित्सम् २ धित्सित्वा २ देधीयम् २
देधीयित्वा २
34 धेनुः।
01 (९२२)
02 (१-भ्वादिः-९०२। सक। अनि। पर।)
03 (श्लो। ६)
04 [पृष्ठम्०८१२+ २५]
05 [[१। ‘आदेच उपदेशेऽशिति’ (६-१-४५) इत्यात्त्वे, ‘आतो युक् चिण्कृतोः’ (७-३-३३) इति युगागमः। एवं घञि णमुल्यपि ज्ञेयम्।]]
06 [[२। ण्यन्ते सर्वत्र आत्त्वे, आदन्तलक्षणः पुगागमो ज्ञेयः।]]
07 [[३। धारूपत्वेनास्य धुसंज्ञकत्वात्, ‘सनि मीमाघु--’ (७-४-५४) इत्यादिना इस्। ‘अत्र लोपोऽभ्यासस्य’ (७-४-५८) इत्यभ्यासलोपः। ‘सः स्यार्धधातुके’ (७-४-४९) इति तकारः। एवं सन्नन्ते सर्वत्र प्रक्रिया।]]
08 [[४। यङन्ते सर्वत्र, ‘घुमास्था--’ (६-४-६६) इत्यादिना ईत्वे, अभ्यासे गुणः।]]
09 [[५। ‘नेर्गदनदपतपदघु--’ (८-४-१७) इत्यादिना नेर्णत्वम्।]]
10 [[६। शतरि, ‘एचोऽयवायावः’ (६-१-७८) इत्ययादेशः।]]
11 [[७। ‘न पादम्याङ्--’ (१-३-८९) इत्यत्र, ‘धेट उपसंख्यानम्’ (वा। १-३-८९) इति वचनात् उभयपदित्वमस्य
\n\n तेन ण्यन्तात् शतृशानचौ।]]
12 [[८। क्विपि, आत्त्वे रूपमेवम्।]]
13 [[९। निष्ठायाम्, ‘घुमास्था--’ (६-४-६६) इति ईत्त्वे, रूपम्। एवम्, क्त्वाप्रमृति- ष्वपि ज्ञेयम्।]]
14 [[१०। सोपसृष्टात्, निरुपसृष्टादपि, ‘पाघ्राध्माधेद्दृशः शः’ (३-१-१३७) इति शप्रत्यये, शित्त्वेन सार्वधातुकत्वात् शप्प्रत्यये, पररूपे, अयादेशे च रूपमेवम्। केचित्तु निरुपसृष्टादेवायं प्रत्यय इति साधयन्ति।]]
15 [[आ। ‘ध्वनीनामुद्धमैरेभिर्मधूनामुद्धयैर्मृशम्।’ भ। का। ६। ७८।]]
16 [[११। ‘नासिकास्तनयोर्घ्माघेटोः’ (३-२-२९) इति खश्प्रत्ययः। ‘खित्यनव्ययस्य’ (६-३-६६) इति ह्रस्वः, ‘अरुर्द्विषदजन्तस्य--’ (६-३-६७) इति मुम्। घेटष्टि- त्त्वात् अवयवेऽचरितार्थस्य टित्करणस्य समुदाय उपयोगात् स्त्रियां ङीप्।]]
17 [[B। ‘सत्त्वमेजयसिंहाढ्यान् स्तनन्धयसमत्विषौ।’ भ। का। ६। ९५।]]
18 [[१२। ‘नाडीमुष्ट्योश्च’ (३-२-३०) इति खशू। पूर्ववत् मुम्।]]
19 [पृष्ठम्०८१३+ २८]
20 [[आ। ‘किमत्र बहुना भजद्भवपयोधिमुष्टिन्धयः त्रिविक्रम भवत्क्रमः क्षिपतु मङ्क्षु रङ्गद्विषः।।’ अभीतिस्तवे २७।]]
21 [[१। ‘खश्प्रकरणे--वातशुनीतिलशर्धेषु अजघेट्तुदजहातीनां खश उपसंख्यानम्’ (वा। ३-२-२८) इति वार्तिकात् खश्। ‘खित्यनव्ययस्य’ (६-३-६६) इति ह्रस्वः।]]
22 [[२। ‘घटीखारीखरीषु--’ (वा। ३-२-३०) इति खश्। वार्तिकमिदं भाष्ये न दृश्यते। ‘नाडीमुष्ट्योश्च’ (३-२-३०) इत्यत्र विद्यमानश्चकारोऽनुक्तसमुच्चयार्थकः इति मत्वा सिद्धान्तकौमुद्यादिषूक्तः स्यात्।]]
23 [[३। अत्रापि, बाहुलकात् खश्। वातन्धयः = सर्पः।]]
24 [[४। ‘दाधेट्सिशदसदो रुः’ (३-२-१५९) इति ताच्छीलिको रुप्रत्ययः।]]
25 [[B। ‘श्रद्धालुं भ्रामरं धारुं सद्रुमद्रौ वद द्रुतम्।।’ भ। का। ७। २१।]]
26 [[५। ‘धः कर्मणि ष्ट्रन्’ (३-२-१८१) इति कर्मण्यर्थे ष्ट्रन्। षित्त्वात् स्त्रियां ङीष्। ‘तत्र बाला धयन्त्येनामिति धात्र्युपमातरि। भैषज्यार्थं दधत्येनामिति स्यादामलक्यपि।।’ इति प्र। सर्वस्वे।]]
27 [[६। पुष्पशब्द उपपदे धातोरस्य खश्प्रत्ययविधानाभावात् पृषोदरादित्वेन वा, ‘नाडी- मुष्ट्योश्च’ (३-२-३०) इत्यत्र अनुक्तसमुच्चयार्थकचकारेण वा साधुत्वमिति ज्ञेयम्। एवमेव मुञ्जन्धय इत्यादिष्वपि। पुष्पन्धयः = भ्रमरः। कूलन्धयः = नदी- वेगः। मुञ्जन्धयः = क्रिमिविशेषः। आस्यन्धयः = कामुकः।]]
28 [[C। ‘चक्राङ्गीमदपश्यतोहरचलच्छम्पासमुन्मेषणः पुष्पत्केतकगन्धसिन्धुविलुठत्पुष्पन्धयान्धीकृतैः।’ च। भारते ३। ५३।]]
29 [[७। क्षीरं धयतीति क्षीरधाः। ‘आतो मनिन्--’ (३-२-७४) इति विट्।]]
30 [[८। ‘आतो युच्’ (३-३-१२८) इति ईषदाद्युपपदेषु खलपवादो युच्।]]
31 [[९। ‘उपसर्गे घोः किः’ (३-३-९२) इति किप्रत्यये, ‘आतो लोप इटि च’ (६-४-६४) इत्याकारलोपे रूपमेवम्।]]
32 [पृष्ठम्०८१४+ २५]
33 [[१। ‘आतश्चोपसर्गे’ (३-३-१०६) इति स्त्रियामङ्।]]
34 [[२। ‘धेट इच्च’ (द। उ। १-१४५) इति नुप्रत्यये इकारश्चान्तादेशः। धेनुः = नवप्रसू- ता गौः।]]
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
