| YouTube Channel

धान्याम्लं (dhAnyAmlaM)

 
शब्दकल्पद्रुमः
Sanskrit
धान्याम्लं,
क्ली,
(धान्यात् धान्यविकारात् जातंअम्लम् ।) काञ्जिकम् इत्यमरः ३९
“धान्याम्लं शालिचूर्णानां कोद्रवादिकृतं भवेत् ।धान्याम्लं धान्ययोनित्वात् प्रीणनं लघु दीपनम्
अरुचौ वातरोगेषु सर्व्वेष्वास्थापने हितम्
”इति भावप्रकाशः
(“धान्याम्लं भेदि तीक्ष्णोष्णं पित्तकृत् स्पर्श-शीतलम् ।भ्रमक्लमहरं रुच्यं दीपनं वस्तिशूलनुत् ।शस्तमास्थापने हृद्यं लघुवातकफापहम्
”इति वाभटे सूत्रस्थाने पञ्चमेऽध्याये
)