धान्याचल (dhAnyAcala)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दसागरः
EnglishWilson
EnglishHelp us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Monier Williams Cologne
Englishशब्दकल्पद्रुमः
Sanskritधान्याचलः, (धान्यनिर्म्मितोऽचलः पर्व्वतः ।)दानार्थधान्यनिर्म्मितपर्व्वतः । तस्य विधानंयथा, --“प्रथमो धान्यशैलः स्याद्द्वितीयो लवणाचलः ।गुडाचलस्तृतीयस्तु चतुर्थो हेमपर्व्वतः ॥
पञ्चमस्तिलशैलः स्यात् षष्ठः कार्पासपर्व्वतः ।सप्तमो घृतशैलश्च रत्नशैलस्तथाष्टमः ॥
राजतो नवमस्तद्बद्दशमः शर्कराचलः ।वक्ष्ये विधानमेतेषां यथावदनुपूर्व्वशः ॥
अयने विषुवे पुण्ये व्यतीपाते दिनक्षये ।शुक्लपक्षे तृतीयायामुपरागे शशिक्षये ॥
विवाहोत्सवयज्ञेषु द्वादश्यामथवा पुनः ।शुक्लायां पञ्चदश्यां वा पुण्यर्क्षे वा विधानतः ॥
धान्यशैलादयो येऽपि देयाः शास्त्रं विजानता ।तीर्थे वायतने वापि गोष्ठे वा भवनाङ्गने ॥
मण्डपं कारयेद्भक्त्या चतुरस्रमुदङ्मुखम् ।प्रागुदक्प्लवनं तद्बत् प्राङ्मुखञ्च विधानतः ॥
गोमयेनानुलिप्तायां भूमावास्तीर्य्य वै कुशान् ।तन्मध्ये पर्व्वतं कुर्य्याद्विष्कम्भपर्व्वतान्वितम् ॥
धान्यद्रोणसहस्रेण भवेद्गिरिरिहोत्तमः ।मध्यमः पञ्चशतिकः कनिष्ठः स्यात्त्रिभिः शतैः ॥
मेरुर्महाव्रीहिमयस्तु मध्येसुवर्णवृक्षत्रयसंयुतः स्यात् ।पूर्व्वेण मुक्ताफलवज्रयुक्तोयाम्ये च गोमेदकपुष्परागैः ॥
पश्चाच्च गारुत्मतनीलरत्नैःसौम्येन वैदूर्य्यसरोजरागैः ।श्रीखण्डखण्डैरभितः प्रवाल-लतान्वितः शुक्तिशिलातलः स्यात् ॥
ब्रह्माथ विष्णुर्भगवान् पुरारि-र्दिवाकरोऽप्यत्र हिरण्मयः स्यात् ।मूर्द्धव्यवस्थागतमत्सरेणकार्य्यास्त्वनेके च पुनर्द्विजौघाः ॥
चत्वारि शृङ्गाणि च राजतानिनितम्बभागेष्वपि राजतः स्यात् ।तथेक्षुवंशावृतकन्दरस्तुघृतोदकप्रस्रवणश्च दिक्षु ॥
शुक्लाम्बराण्यम्बुधरावली स्यात्पूर्व्वेण नीलानि च दक्षिणेन ।वासांसि पश्चादथ कर्वुराणिरक्तानि चैवोत्तरतो घनाली ॥
रौप्यान्महेन्द्रप्रमुखानथाष्टौसंस्थाप्य लोकाधिपतीन् क्रमेण ।नानाफलाली च समन्ततः स्यान्मनोरमं माल्यविलेपनञ्च ॥
वितानकञ्चोपरि पञ्चवर्ण-मम्लानपुष्पाभरणं सितञ्च ।इत्थं निवेश्यामरशैलमग्र्यंमेरोस्तु विष्कम्भगिरीन् क्रमेण ॥
तुरीयभागेन चतुर्द्दिशञ्चसंस्थापयेत् पुष्पविलेपनाढ्यान् ॥
पूर्व्वेण मन्दरमनेकफलावलीभि-र्युक्तं यवैः कनकभद्रकदम्बचिह्नैः ।कामेन काञ्चनमयेन विराजमान-माकारयेत् कुसुमवस्त्रविलेपनाढ्यम् ॥
क्षीरारुणोदसरसाथ वनेन चैवरौप्येण शक्तिघटितेन विराजमानम् ।याम्येन गन्धमदनश्च निवेशनीयोगोधूमसञ्चयमयः कलधौतजो वा ॥
हैमेन यक्षपतिनाहृतमासनेनवस्त्रैश्च राजतवनेन च संयुतः स्यात् ॥
पश्चात्तिलाचलमनेकसुगन्धिपुष्पंसौवर्णपिप्पलहिरण्मयहंसयुक्तम् ।आकारयेद्रजतपुष्पवनेन तद्व-द्वस्त्रान्वितं दधिसितोदसरस्तथाग्रे ॥
संस्थाप्य तं विपुलशैलमथोत्तरेणशैलं सुपार्श्वमपि माषमयं सुवस्त्रम्पुष्पैश्च हेमवटपादपशेखरन्त-माकारयेत् कनकधेनुविराजमानम् ॥
माक्षीकभद्रसरसा च वनेन तद्व-द्रौप्येण भास्वरवता च युतं विधाय ।होमश्चतुर्भिरथ वेदपुराणविद्भि-र्दान्तैरनिन्द्यचरिताकृतिभिर्द्विजेन्द्रैः ॥
पूर्व्वेण हस्तमितमत्र विधाय कुण्डंकार्य्यस्तिलैर्यवघृतेन समित्कुशैश्च ।रात्रौ च जागरमनुद्धतगीततूर्य्यै-रावाहनञ्च कथयामि शिलोच्चयानाम् ॥
त्वं सर्व्वदेवगणघामनिधे ! विरुद्ध-मस्मद्गृहेष्वमरपर्व्वत नाशयाशु ।क्षेमं विधत्स्व कुरु शान्तिमनुत्तमां नःसंपूजितः परमभक्तिमता मया हि ॥
त्वमेव भगवानीशो ब्रह्मा विष्णुर्द्दिवाकरः ।मूर्त्तामूर्त्तजगद्बीज ! त्वं नः पाहि सनातनः ॥
यस्मात्त्वं लोकपालानां विश्वमूर्त्तेश्च मन्दिरम् ।रुद्रादित्यवसूनाञ्च तस्माच्छान्तिं प्रयच्छ मे ॥
यस्मादशून्य ममरैर्नारीभिश्च शिवस्तव ।तस्मान्मामुद्धराशेषदुःखसंसारसागरात् ॥
एवमभ्यर्च्य तं मेरुं मन्दरञ्चाभिपूजयेत् ।यस्माच्चैत्ररथेन त्वं भद्राश्वेन विशेषतः ॥
शोभसे मन्दर ! क्षिप्रमतस्तुष्टिकरो भव ॥
यस्माच्चूडामणिर्जम्बुद्वीपे त्वं गन्धमादन ! ।गन्धर्व्ववनशोभादानतः कीर्त्तिर्दृढास्तु मे ॥
यस्मात्त्वं केतुमालेन वैभ्राजेन वनेन वा ।हिरण्मयाश्वत्थशिरस्तस्मात् पुष्टिर्ध्रुवास्तु मे ॥
उत्तरैः कुरुभिर्यस्मात् सावित्रेण वनेन च ।सुपार्श्व ! राजसे नित्यमतः श्रीरक्षयास्तु मे ॥
एवमामन्त्र्य तान् सर्व्वान् प्रभाते विमले पुनः ।स्नात्वाथ गुरवे दद्यान्मध्यमं पर्व्वतोत्तमम् ॥
विष्कम्भपर्व्वतान् दद्यादृत्विग्भ्यः क्रमशो मुने ! ॥
गाश्च दद्याच्चतुर्विंशदथवा दश नारद ! ।शक्तितः सप्त वाष्टौ वा पञ्च दद्यादशक्तिमान् ॥
एकापि गुरवे देया कपिलाथ पयस्विनी ।पर्व्वतानामशेषाणामेष एव विधिः स्मृतः ॥
त एव पूजने मन्त्रास्त एवोपस्करा मताः ।ग्रहाणां लोकपालानां ब्रह्मादीनाञ्च सर्व्वदा ॥
स्वमन्त्रेणैव सर्व्वेषु होमः शैलेषु पठ्यते ॥
उपवासी भवेन्नित्यमशक्तौ नक्तमिष्यते ।विधानं सर्व्वशैलानां क्रमशः शृणु नारद ! ॥
दानकाले च ये मन्त्राः पर्व्वतेषु च यत्फलम् ।अन्नं ब्रह्म यतः प्रोक्तमन्नं प्राणाः प्रकीर्त्तिताः ॥
अन्नाद्भवन्ति भूतानि जगदन्नन वर्त्तते ।अन्नमेव ततो लक्ष्मीरन्नमेव जनार्द्दनः ॥
धान्यपर्व्वतरूपेण पाहि तस्मान्नगोत्तम ! ।अनेन विधिना यस्तु दद्याद्धान्यमयं गिरिम् ॥
मन्वन्तरशतं साग्रं देवलोके महीयते ।अमरोगणगन्धर्व्वैराकीर्णेन विराजता ॥
विमानेन दिवः पृष्ठमायाति सुरसेवितः ।ततः कर्म्मक्षये राज्यमाप्नोतीह न संशयः ॥
”इति मत्स्यपुराणम् ॥
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
