धान्यधेनु (dhAnyadhenu)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दसागरः
EnglishHelp us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Monier Williams Cologne
Englishशब्दकल्पद्रुमः
Sanskritधान्यधेनुः, (धान्यनिर्म्मिता धेनुः ।) दानार्थ-धान्यनिर्म्मितधेनुः । यथा, --“विषुवे चायने वापि कार्त्तिक्यान्तु विशेषतः ।तदिदानीं प्रवक्ष्यामि धान्यधेनुविधिं परम् ॥
यां दत्त्वा सर्व्वपापेभ्यः शशाङ्क इव राहुतः ॥
दशधेनुप्रदानेन यत् फलं राजसत्तम ! ।तत् सर्व्वमेवमाप्नोति व्रीहिधेनुप्रदो नरः ॥
कृष्णाजिनं ततः कृत्वा प्राग्वद्वत् संन्यसेद्बुधः ।गोमयेनानुलिप्तायां शोभनां वस्त्रसंयुताम् ॥
पूजयेद्वेदिमध्ये तु वेदनिर्घोषमङ्गलैः ॥
उत्तमा धान्यधेनुः स्याद्द्रोणश्चापि चतुष्टयैः ।मध्यमा च तदर्द्धेन वित्तशाठ्यं न कारयेत् ॥
चतुर्थांशेन धेन्वा वै वत्सन्तु परिकल्पयेत् ।कर्त्तव्ये रुक्मशृङ्गे तु राजतक्षुरसंयुता ॥
गोरुधः पूर्व्ववद्घ्राणमगुरुञ्चन्दनन्तथा ।मुक्ताफलमया दन्ता घृतक्षौद्रमयं मुखम् ॥
प्रशस्तपत्रश्रवणा कांस्यदोहनकान्विता ।इक्षुयष्टिमयाः पादाः क्षौमपुच्छसमन्विता ॥
नानाफलसमोपेता रत्नगर्भसमन्विता ।पादुकोपानहौ छत्रे भाजनं तर्पणं तथा ॥
इत्येवं रचयित्वा तां कृत्वा दीपार्च्चनादिकम् ।पुण्यकालञ्च संप्राप्य स्नातः शुक्लाम्बरो गृही ।त्रिः प्रदक्षिणमावृत्य मन्त्रेणानेन कीर्त्तयेत् ॥
तव विप्र ! महाभाग ! वेदवेदाङ्गपारग ! ।यामेताञ्च मया दत्तां गृह्णीष्व त्वं द्विजोत्तम ! ।प्रीयतां मम देवेशो भगवान्मधुसूदनः ॥
त्वमेका लक्ष्मीर्गोविन्दे स्वाहा या च विभावसौ ।शक्रे शचीति विख्याता मेधा मुनिषु सत्तम ! ॥
तस्मात् सर्व्वमयी देवी धान्यरूपेण संस्थिता ।एवमुच्चार्य्य तां धेनुं ब्राह्मणाय निवेदयेत् ॥
दत्त्वा प्रदक्षिणं कृत्ा तं समाप्य द्विजोत्तमम् ।यावच्च पृथिवी सर्व्वा वसुरत्नानि भूपते ! ।तावत् पुण्यं समाधिक्यं व्रीहिधेनोश्च तत् फलम् ॥
तस्मान्नरेन्द्र ! दातव्या भुक्तिमुक्तिफलप्रदा ।इह लोके च सौभाग्यमायुरारोग्यवर्द्धनम् ॥
विमानेनार्कवर्णेन किङ्किणीरत्नमालिना ।स्तूयमानोऽप्सरोभिश्च प्रयाति शिवमन्दिरम् ॥
यावच्च स्मरते जन्म तावत् स्वर्गे महीयते ।ततः स्वर्गात् परिभ्रष्टो जम्बुद्वीपपतिर्भवेत् ॥
एवं हरेण चोद्गीर्णं श्रुत्वा वाक्यं नरोत्तम ।सर्व्वपापविशुद्धात्मा रुद्रलोके महीयते ॥
”इति वराहपुराणम् ॥
वाचस्पत्यम्
Sanskritधान्यधेनु स्त्री दानार्थे धान्यकल्पितायां गव्याम् । तद्विधिः“विषुवे चायने वापि कार्त्तिक्यान्तु विशेषतः । तमिदानींप्रवक्ष्यामि धान्यधेनुविधिं परम् । यां दत्त्वा सर्वपापेभ्यःशशाङ्क इव राहुणा” (मुच्यते इति शेषः) । दशधेनुप्रदानेनयत्फलं राजसत्तम! । तत्सर्वमेव प्राप्नोति व्रीहिधेनुप्रदोनरः । कृष्णाजिनं ततः कृत्वा प्राग्वद्वत्संन्यसेद्बुधः । गो-मयेनानुलिप्ताङ्गीं शोभनां वस्त्रसंयुताम् । पूजयेद्वेदिमध्येस्याद्रोणैश्चापि चतुष्टयैः । मध्यमा च तदर्द्धेन वि-त्तशाठ्यं न कारयेत् । चतुर्थांशेन धेन्वा वै वत्सन्तु परि-कल्पयेत् । कर्त्तव्ये रुक्मशृङ्गे तु राजतक्षुरसंयुता ।गोरूधः पूर्ववद्घ्राणमगुरुचन्दनन्तथा । मुक्ताफलमयादन्ता घृतक्षौद्रमयं मुखम् । प्रशस्तपत्रश्रवणा कांस्यदोह-नकान्विता । इक्षुयष्टिमयाः पादाः क्षौमपुच्छसमन्विता ।नानाफलसमोपेता रत्नगर्भसमन्विता । पादुकोपानहौ-छत्रे भाजमं दर्पणं तथा । इत्येवं रचयित्वा तांकृत्वा दीपार्चनादिकम् । पुण्यकालञ्च संप्राप्य स्नातःशुक्लाम्बरो गृही । त्रिःप्रदक्षिणमावत्य मन्त्रेणानेन कीर्त्त-येत् । तव विप्र! महाभाग! वेदवेदाङ्गपारग! । यामेताञ्च मया दत्तां गृह्णीष्व त्वं द्विजोत्तम! प्रीयतांमम देवेशो भगवान् मधुसूदनः । त्वमेका लक्ष्मीर्गो-विन्दे स्वाहा चासि विभावसोः । शक्रे शचीतु वि-ख्याता मेधा मुनिषु सत्तमा । तस्मात् सर्वमयी देवी धा-न्यरूपेण संस्थिता । एवमुच्चार्य्य तां धेनुं ब्राह्मणाय नि-वेदयेत् । दत्त्वा प्रदक्षिणं कृत्वा तं क्षमाप्य द्विजोत्त-मम् । यावच्च पृथिवी सर्वा वसुरत्नानि भूपते! । तावत्पुण्यमयाधिक्यं व्रीहिधेनोश्च तत्फलम् । तस्मान्न-रेन्द्र! दातव्या भुक्तिमुक्तिफलप्रदा । इह लोके च सौ-भाग्यमायुरारोग्यवर्द्धनम् । विमानेनार्कवर्णेन किङ्कि-णीरत्नमालिना । स्तूयमानोऽप्सरोभिश्च प्रयाति शिव-मन्दिरम् । यावच्च स्मरते जन्म तावत् स्वर्गे मही-यते । ततः स्वर्गात् परिभ्रष्टो जम्बुद्वीपपतिर्भवेत् ।एवं हरेण प्रोद्गीर्णं श्रुत्वा वाक्यं नरोत्तमः । सर्व-पापविशुद्धात्मा रुद्रलोके महीयते” । वराहपुराणोक्तः ।
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
