धान्यं (dhAnyaM)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Apte 1890
Englishधान्यं [धाने पोषणे साधु यत्] 1 Graint corn, rice
(for the distinction between सस्य, धान्य, तंडुल and अन्न see under तंडुल).
2 Coriander.
3 A measure equal to four sesamum seeds.
Comp.
अचलः a pile of grain presented to, Brāhmaṇas as a gift.
अरिः a mouse, rat.
अर्थः wealth in rice or grain
अम्लं sour gruel made of the fermentation of rice-water.
अस्थि n. husk, chaff.
उत्तमः the best of grain, i. e. rice.
कल्कं {1} bran. {2} chaff, straw.
कोशः,
कोष्ठकं
कः a granary.
क्षेत्रं a corn-field.
चमसः rice flattened by threshing after it has been steeped and fried in the husk.
त्वच् f. the husk of corn.
मायः a corn-dealer.
राजः barley.
वर्धनं lending grain at interest, usury with grain.
वीजं (बीजं) coriander.
वीरः a sort of pulse (माष).
शीर्षकं the ear of corn.
शूकं the beard or awn of corn.
सारः threshed corn.
शब्दकल्पद्रुमः
Sanskritधान्यं, चतुस्तिलपरिमाणम् । इति शुभङ्करः ।धन्याकम् । धनीया इति यस्य भाषा । तत्-पर्य्यायो यथा, वैद्यकरत्नमालायाम् ।“धन्याकं धान्यकं धान्यं कुस्तुम्बुरुधनीयकम् ।धन्या कुस्तुम्बुरी चान्या वेषलोग्रा वितुन्नकम् ॥
”)परिपेलम् । (धाने पोषणे साधु इति । धान+ “तत्र साधुः ।” ४ । ४ । १८ । इति यत् ।यद्बा, दधातीति । धा + “दधातेर्यन् नुट् च ।”उणां । ५ । ४८ । इति यन् नुट् च ।) सतुष-तण्डुलादि । धान इति भाषा ॥
तत्पर्य्यायः ।भोग्यम् २ भोगार्हम् ३ अन्नम् ४ अद्यम् ५जीवसाधनम् ६ स्तम्बकरिः ७ ब्रीहिः ८ ।(यथा, ऋग्वेदे । ६ । १३ । ४ ।“विश्वं स देव प्रति वारमग्ने धत्ते धान्यं पत्यतेवसव्यैः ॥
”)तत्र शूकधान्यगुणः । त्रिदोषशमनत्वम् । तेजो-वलातिशयवीर्य्यवृद्धिदातृत्वञ्च ॥
* ॥
शमीधान्य-गुणाः । गुरुत्वम् । हिमत्वम् । विबन्धदातृ-त्वञ्च ॥
* ॥
तृणधान्यगुणः । वातात्मकत्वम् । शिशि-रत्वञ्च । इति राजनिर्घण्टः ॥
* ॥
धान्यं त्रिवि-धम् । हेमन्तोद्भवः शालिः १ ग्रीष्मजः षष्टिकः २प्रावृट् कालभव आशुः ३ । एतेषां गुणास्तत्तत्शब्दे द्रष्टव्याः ॥
* ॥
वापितधान्यगुणः । गुरुत्वम् ॥
अवापितधान्यगुणः । वापितधान्यगुणात् किञ्चि-द्धीनः ॥
* ॥
रोप्यातिरोप्यधान्यगुणाः । लघु-त्वम् । शीध्रपाकित्वम् । गुणोत्तरत्वम् । अदा-हित्वम् । दोषहरत्वम् । बल्यत्वम् । मूत्रविव-र्द्धनत्वञ्च ॥
* ॥
नवं धान्यं अभिष्यन्दि । संवत्-सरोत्थितं धान्यं लघु । संवत्सरद्वयादूर्द्धंधान्यं वातप्रकोपणं रूक्षं लघुतरं पुंस्त्वघाति ।शूकधान्यं शमीधान्यञ्च वत्सरादूर्द्ध्वं प्रश-स्तम् । शमीधान्यं वर्षादतीतं वातकृत्रूक्षम् । अभिनवं तत्प्रायेण गुरु । नवा यव-गोधूममाषतिला हिताः । पुराणा विरसारूक्षा न तथार्थकराः ॥
अनार्त्तवं व्याधिहतंअपर्य्यागतं अभूमिजं नवञ्च धान्यं न गुणवत् ॥
अकालजातं धान्यं विरसं सर्व्वधातुप्रदूषणञ्च ।इति राजवल्लभः ॥
* ॥
व्रतादौ अन्नत्यागेवर्जनीयधान्यानि यथा, --“एकादश्यां विशेषेण ह्यन्नमात्रं परित्यजेत् ।फलं मूलं जलादीनि किञ्चिद्भक्ष्यं प्रकल्पयेत् ॥
अन्नन्तु धान्यसम्भूतं गिरिजे यदि जायते ।धान्यानि विविधानीह जगत्यां शृणु यत्नतः ॥
श्याममाषमसूराश्च धान्यकोद्रवसर्षपाः ।मुष्टको राजमाषाश्च तुमुरो जुमरस्तथा ॥
यवगोधूममुद्गाश्च तिलकङ्गुकुलत्थकाः ।गवेधुकाश्च नीवारा आतकश्च कलायकाः ॥
माण्डुको वज्रकोरङ्कः कीचको वडकस्तथा ।तिलकाश्चणकाद्याश्च धान्यानि कथितानि वै ॥
एडकान्यसमुद्भूतमन्नं भवति शोभने ! ।अन्नत्यागे व्रते भक्ष्यमेतदेव विवर्ज्जयेत् ॥
”इति पाद्मोत्तरखण्डम् ॥
* ॥
अथ धान्यच्छेदनदिनम् । तत्र तिथयः रिक्ता-तिरिक्ताः । वाराः रविशुक्रसोमबुधबृहस्पती-नाम् । नक्षत्राणि कृत्तिका भरणी अश्लेषापूर्व्वभाद्रपत् धनिष्ठा पूर्व्वाषाढा ज्येष्ठा चित्राउत्तरफल्गुनी उत्तराषाढा उत्तरभाद्रपत्एतानि । तत्र चन्द्रः शोभनः । लग्नानि वृष-सिंहवृश्चिककुम्भमिथुनतुलाकन्याधनुःपूर्व्वार्द्ध-स्वकीयजन्मलग्नमकरसंज्ञकानि ॥
* ॥
अथ धान्य-स्थापनदिनम् । तत्र नक्षत्राणि । भरण्यश्लेषार्द्रा-कृत्तिकाविशाखापूर्व्वफल्गुनीपूर्व्वाषाढापूर्व्व-भाद्रपज्ज्येष्ठामघाभिन्नानि । तत्र वाराः शुभ-ग्रहाणाम् । लग्नानि मकरवृषसिंहवृश्चिककुम्भ-मिथुनकन्याधनुर्मीनसंज्ञकानि ॥
* ॥
अथ धान्या-दिवृद्धिदानदिनम् । तत्र नक्षत्राणि श्रवणाधनिष्ठा शतभिषा विशाखा उत्तरफल्गुनीउत्तराषाढा उत्तरभाद्रपत् रोहिणी रेवतीपुनर्व्वसुः पुष्यः अश्विनी ज्येष्ठा एतानि । वाराःबुधभिन्नाः । इति ज्योतिषम् ॥
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
